6---sArvadhAtukaprakaraNam-anadantam-aGgam/08---dhAtupAThe-hal-sandhiH-1: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 322:
 
 
<big>'''अत्र राल्लोपः''' (६.४.२१) सर्वप्रथमं भवति परत्वात्‌ अङ्गकार्यत्वात् च | तदा एव सन्धिकार्यस्य त्‌-लोपः | '''राल्लोपः''' (६.४.२१) इत्यस्मात्‌ पूर्वं च इमे द्वे सूत्रे प्रसक्ते किन्तु '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन असिद्धे— '''उपधायां च''' (८.२.७८), '''संयोगान्तस्य लोपः''' (८.२.२३) च | '''उपधायां च''' (८.२.७८) इत्यनेन 'धातोः उपधाभूतयोः रेफवकारयोः हल्परयोः इकः दीर्घः स्यात्‌' | तस्य कृते पदसंज्ञा नापेक्षिता अपि तु धातु-संज्ञा एव अपेक्षिता | अत्र मोमुर्छ्‌ इति धातौ निमित्तानि सन्ति अतः प्रसक्तिः आसीत्‌, किन्तु '''राल्लोपः''' (६.४.२१) इति सूत्रं प्रति '''उपधायां च''' (८.२.७८) असिद्धं भवति |** '''संयोगान्तस्य लोपः''' (८.२.२३) इति सूत्रस्य कृते पदसंज्ञा अपेक्षिता; अमोमुर्छ्‌ + त्‌ इति स्थितौ तिप्‌ अस्ति अतः पदसंज्ञा अस्ति; पदान्ते च छकारतकारयोः संयोगः अस्ति अतः प्रसक्तिः आसीत्‌, किन्तु '''राल्लोपः''' (६.४.२१) इति सूत्रं प्रति '''संयोगान्तस्य लोपः''' (८.२.२३) असिद्धं भवति |</big>
 
<big>*'अनुनासिकस्य, क्विझलोः इत्यनयोः अनुवृत्तिः' इत्युक्तम्‌ | काशिकायाम्‌ 'अनुनासिकस्य' इत्यस्य पर्युदासे 'क्ङिति' इत्यस्य अनुवृत्तिः दत्ता, सा च दोषाय | 'क्ङिति' स्वीक्रियते चेत्‌, 'अमोमुर्छ्‌ + त्‌' इति स्थितौ इष्टं रूपं न सिध्यति त्‌-प्रत्ययस्य पित्त्वात्‌ | अपि च 'अनुनासिकस्य' इत्यस्य अनुवृत्तिः अपेक्षिता एव | यथा—</big>
 
<big>*'<nowiki/>'''अनुनासिकस्य, क्विझलोः''' इत्यनयोः अनुवृत्तिः' इत्युक्तम्‌ | काशिकायाम्‌ '<nowiki/>'''अनुनासिकस्य'''<nowiki/>' इत्यस्य पर्युदासे '<nowiki/>'''क्ङिति'''<nowiki/>' इत्यस्य अनुवृत्तिः दत्ता, सा च दोषाय | '<nowiki/>'''क्ङिति'''<nowiki/>' स्वीक्रियते चेत्‌, 'अमोमुर्छ्‌ + त्‌' इति स्थितौ इष्टं रूपं न सिध्यति त्‌-प्रत्ययस्य पित्त्वात्‌ | अपि च ''''अनुनासिकस्य'''<nowiki/>' इत्यस्य अनुवृत्तिः अपेक्षिता एव | यथा—</big>
<big>मोमुर्छ्‌ + मि (लटि) → मकारस्य अनुनासिकत्वात्‌ राल्लोपः (६.४.२१) इत्यनेन छलोपः → मोमुर्‍ + मि → पुगन्तलघूपधस्य च (७.३.८६) → मोमोर्मि</big>
 
<big>मोमुर्छ्‌ + मः → मकारस्य अनुनासिकत्वात्‌ राल्लोपः (६.४.२१) इत्यनेन छलोपः → मोमुर्‍ + मः → हलि च (८.२.७७) → मोमूर्मः</big>
 
<big>मोमुर्छ्‌ + मि (लटि) → मकारस्य अनुनासिकत्वात्‌ '''राल्लोपः''' (६.४.२१) इत्यनेन छलोपः → मोमुर्‍ + मि → '''पुगन्तलघूपधस्य च''' (७.३.८६) → मोमोर्मि</big>
<big>हलि च (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो भवति हलि परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः र्वोः इत्यनेन येषाम्‌ धातूनाम्‌ अन्ते रेफः वकारश्च, तेषामपि ग्रहणम्‌ | हलि सप्तम्यन्तम्‌, च अव्ययपदम्‌, द्विपदमिदं सूत्रम्‌ | सिपि धातो रुर्वा (८.२.७४) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः; र्वोरुपधाया दीर्घ इकः (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— र्वोः धातोः उपधायाः इकः दीर्घः हलि च |</big>
 
<big>मोमुर्छ्‌ + मः → मकारस्य अनुनासिकत्वात्‌ '''राल्लोपः''' (६.४.२१) इत्यनेन छलोपः → मोमुर्‍ + मः → '''हलि च''' (८.२.७७) → मोमूर्मः</big>
 
 
<big>'''हलि च''' (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो भवति हलि परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः '''र्वोः''' इत्यनेन येषाम्‌ धातूनाम्‌ अन्ते रेफः वकारश्च, तेषामपि ग्रहणम्‌ | हलि सप्तम्यन्तम्‌, च अव्ययपदम्‌, द्विपदमिदं सूत्रम्‌ | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः; '''र्वोरुपधाया दीर्घ इकः''' (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''र्वोः धातोः उपधायाः इकः दीर्घः हलि च''' |</big>
 
<nowiki>*********************************************************</nowiki>
 
<big>भ्वादौ तुर्वी-धातुः → तुर्व्‌ → यङ्लुगन्तधातुः तोतुर्व्‌</big>
Line 337 ⟶ 342:
 
<big>तोतुर्व्‌ + मः → मकारस्य अनुनासिकत्वात्‌ राल्लोपः (६.४.२१) इत्यनेन वलोपः → तोतुर्‍ + मः → हलि च (८.२.७७) → तोतूर्मः</big>
 
 
<big>(**जिज्ञासुभिः पृच्छ्यते यत्‌ उपधायां च (८.२.७८) इत्यस्य कृते धातुसंज्ञा एव अपेक्षते अतः तिङ्‌-प्रत्ययस्य विधानात्‌ प्रागेव अनेन उपधादीर्घः क्रियेत | तस्मिन्‌‌ समये राल्लोपः (६.४.२१) इत्यस्य प्रसक्तिरेव नास्ति | तथा कुर्मश्चेत्‌, न केवलं राल्लोपः (६.४.२१) इत्यनेन दैर्घ्यस्य कर्यम्‌ असिद्धम्‌ अपि तु पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन अपि | अतः अन्ततो गत्वा ह्रस्व-उकारः एव दृश्यते इति कारणतः तस्य गुणो भवति एव | अमोमोः इति |)</big>
 
<big>अत्र प्रश्नः उदेति, अमोमुर्छ्‌ + त्‌ इति स्थितौ रात्सस्य (८.२.२४) इत्यपि आगत्य प्रसक्तं भूत्वा असिद्धम्‌ इति वा ? पदसंज्ञा अस्ति, पदान्ते संयोगोऽपि अस्ति | किन्तु अत्र पदान्ते कः संयोगः अस्ति ? छकारतकारयोः एव | भाष्यकारः प्रतिपादयति यत्‌ संयोगो भवति द्वयोः हल्वर्णयोरेव*** | अतः अत्र रेफछकारयोः संयोगः यद्यपि अस्ति तथापि पदान्ते न; अनेन कारणेन अत्र रात्सस्य (८.२.२४) इत्यस्य प्रसक्तिरेव नास्ति |</big>
 
 
<big>(***काशिकाकारो वदति यत्‌ तदधिकानामपि संयोगसंज्ञा भवति | किन्तु तथा कुर्मश्चेत्‌ कुत्रचित्‌ रूपं न सिध्यति | यथा अधः 'असन्‌' इति अवलोक्यताम्‌ | अतः महाभाष्ये यत्प्रतिपादितं, तदेव मन्तव्यम्‌ |)</big>
 
<big>[अग्रे अमोमोर्‍ → खरवसानयोर्विसर्जनीयः (८.३.१५) इत्यनेन विसर्गादेशः → अमोमोः]</big>
 
 
<big>4. पदान्ते संयोगस्य प्रथमसदस्यः सकारः ककारो वा चेत्‌, संयोगस्य प्रथमसदस्यलोपो भवति |</big>
 
<big>स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्‌, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स्‌ च क्‌ च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च |</big>
 
 
<big>यथा—</big>
Line 355 ⟶ 364:
 
<big>अबरीभ्रस्ज्‌ + त्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् (६.१.६७) इत्यनेन त्‌-लोपः → अबरीभ्रस्ज्‌ → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन सकारलोपः → अबरीभ्रज्‌</big>
 
 
<big>षस्ति → सन्स्त्‌ धातुः अदादिगणे |</big>
Line 361 ⟶ 371:
 
<big>असन्स्त्‌ + त्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६८) → असन्स्त्‌ → स्कोः संयोगाद्योरन्ते च (८.२.२९) → असन्त्‌ → संयोगान्तस्य लोपः (८.२.२३) → असन्‌</big>
 
 
<big>अत्र कश्चन प्रश्नः उदेति, 'असन्स्त्‌' इति स्थित्यां पदान्ते संयोगान्तस्य लोपः (८.२.२३), स्कोः संयोगाद्योरन्ते च (८.२.२९), इति द्वयोः अपि प्रसक्तिः | सूत्रद्वयं त्रिपाद्याम्‌, अतः किमर्थं न पूर्वत्रासिद्धम्‌ (८.२.१) इत्यनेन परशास्त्रम्‌ असिद्धम्‌, असिद्धत्वात्‌ संयोगान्तस्य लोपः (८.२.२३) अत्र भवेत्‌ ? उत्तरम्‌ अस्ति यत्‌ पदान्ते, स्कोः संयोगाद्योरन्ते च (८.२.२९) इति सूत्रं, संयोगान्तस्य लोपः (८.२.२३) इत्यस्य अपवादः; यत्र पदान्तसंयोगे प्रथमसदस्यः सकारः ककारः च, तत्रापि संयोगान्तस्य लोपः (८.२.२३) भवति चेत्‌, पदान्ते स्कोः संयोगाद्योरन्ते च (८.२.२९) निरवकाशं भवति | अतः अपवादत्वात्‌ पदान्ते अवसरे सति स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्येव प्रवर्तनीयं भवति | पूर्वत्रासिद्धम्‌ (८.२.१) इत्यस्यापि अपवादः |</big>
 
<big>अस्मिन्नेव प्रसङ्गे कोऽपि प्रष्टुं शक्नोति यत्‌ लङि त्‌-लोपे सति 'असन्स्त्‌' इति स्थितौ संयोगः अस्ति त्रयाणां वर्णानां—नकारसकारतकाराणाम्‌ | तस्मात्‌ सकारः संयोगस्य आदौ नास्ति इति कृत्वा स्कोः संयोगाद्योरन्ते च (८.२.२९) इरि प्रसक्तं न | किन्तु यथोक्तम्‌ उपरि संयोगः द्वयोर्वर्णयोः एव न तु त्रयाणाम्‌ | अतः अत्र संयोगद्वयं वर्तते— नकारसकारयोः, सकारतकारयोश्च | सकारतकारयोः संयोगः पदान्ते, तत्र च प्रथमसदस्यः सकारः इत्यस्मात्‌ स्कोः संयोगाद्योरन्ते च (८.२.२९) इति सूत्रं प्रसक्तं प्राप्तञ्च |</big>
 
 
<big>अन्यः प्रश्नः उदेति किमर्थं न पूर्वमेव नश्चापदान्तस्य झलि (८.३.२४) इत्यनेन अनुस्वारः, आरम्भे एव असंस्त्‌, तदा स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन असंत्‌, तदा अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनेन नकारः, असन्त्‌, तदा पूर्वत्रासिद्धम्‌ (८.२.१) इत्यनेन संयोगान्तस्य लोपः (८.२.२३) इत्यस्य दृष्ट्या नकारः असिद्धः अतः असन्त्‌ इत्येव स्यात्‌ ? उत्तरम्‌ अस्ति यत्‌ अस्मिन्‌ क्रमे नश्चापदान्तस्य झलि (८.३.२४) इत्यस्य अवसरः न भवति एव, स्वस्य त्रिपाद्यां परत्वात्‌ | स्कोः संयोगाद्योरन्ते च (८.२.२९), संयोगान्तस्य लोपः (८.२.२३), सूत्रद्वयमपि अष्टमाध्यायस्य द्वितीयपादे अतः पूर्वं भवन्ति, असन्‌ इति रूपं सिध्यति | असन्‌ इति दशायां नकारात्‌ परे झल्‌ तु नास्ति एव अतः अस्यां प्रक्रियायां नश्चापदान्तस्य झलि (८.३.२४) न कुत्रापि भवति | आरम्भात्‌ अन्तपर्यन्तं नुम्‌-आगमस्य नकारः 'न्‌' इत्येव तिष्ठति |</big>
 
<big>पुनः अन्यप्रश्नः— स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन यः सकारलोपः, सः तु संयोगान्तस्य लोपः (८.२.२३) इयनेन न दृश्येत ननु कार्यासिद्धत्वात् ? उत्तरमस्ति यत्‌ तथा नास्ति यतोहि स्कोः संयोगाद्योरन्ते च (८.२.२९) अपवादत्वात्‌ प्रथमतया प्रवर्तितम्‌ | अपवादस्य बलेन तस्य कार्यं संयोगान्तस्य लोपः (८.२.२३) इयनेन दृश्यते एव | अत्र पूर्वत्रासिद्धम्‌ (८.२.१) इत्यस्य एव अपवादः अतः तस्य इह किमपि कार्यं नास्ति |</big>
 
 
<big>व्रश्च्‌ इति औपदेशिकधातुः | तस्य यङ्‌लुगन्तधातुः वाव्रश्च्‌ |</big>
 
<big>अवाव्रश्च्‌ + त्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् (६.१.६७) इत्यनेन त्‌-लोपः → अवाव्रश्च्‌ → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन सकारलोपः → अवाव्रच्‌</big>
 
 
<big>उपरितने वृत्तान्ते शकारः दृश्यते न तु सकारः | वस्तुस्थितिः इयं यत्‌ सकारस्तु अस्ति, तदा चकारस्य प्रभावेन स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन सकारस्य स्थाने शकार आगतः |</big>
 
<big>b) चवर्गान्तधातवः</big>
 
 
<big>1. चवर्गान्तधातूनाम्‌ अन्तिमचवर्गीयवर्णस्य स्थाने कवर्गीयादेशो भवति पदान्ते |</big>
 
<big>चोः कुः (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— चोः कुः झलि पदस्य अन्ते च |</big>
 
 
<big>यथा— अवच्‌ + त्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् इत्यनेन त्‌-लोपः → अवच्‌ → चोः कुः इत्यनेन चवर्गस्य स्थाने कवर्गादेशः → अवक्‌</big>
 
<big>अतात्यज्‌ → चोः कुः इत्यनेन चवर्गस्य स्थाने कुत्वम्‌ → अतात्यग्‌</big>
 
 
<big>2. परन्तु व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌, छकारान्ताः शकारान्ताः चैषां धातूनाम्‌ अन्तिमवर्णस्य स्थाने षकारादेशो भवति पदान्ते |</big>
 
<big>व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌, छकारान्ताः शकारान्ताः चैषां धातूनाम्‌ अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श्‌ च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम्‌ | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र 'जच्छशां' इति भागे छे च (६.१.७३) इत्यनेन तुक्‌-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |</big>
 
 
<big>यथा—</big>
Line 411 ⟶ 429:
 
<big>अवावश्‌ → अवावष्‌</big>
 
 
<big>c) हकारान्तधातवः</big>
 
<big>1. हकारान्तधातूनां हकारस्य स्थाने ढकारादेशो भवति |</big>
 
 
<big>हो ढः (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— हः ढः झलि पदस्य अन्ते च |</big>
 
<big>पदान्ते लङि— अतृणेह्‌ + त्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् इत्यनेन त्‌-लोपः → अतृणेह्‌ → हो ढः इत्यनेन ढकारादेशः → अतृणेढ्‌</big>
 
 
<big>2. धातोरादौ दकारः, अन्ते हकारः चेत्‌, हकारस्थाने घकारादेशो भवति |</big>
 
<big>दादेर्धातोर्घः (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ट्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | हो ढः (८.२.३१) इत्यस्मात्‌ हः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— दादेः धातोः हः घः झलि पदस्य अन्ते च |</big>
 
 
<big>यथा दुह प्रपूरणे अदादिगणे (लटि दोग्धि/दुग्धे)—</big>
 
<big>पदान्ते लङि— अदोह्‌ + त्‌ → अदोह्‌ → अधोघ्‌</big>
 
 
<big>3. द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌ एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारो वा ढकारो वा भवति |</big>
 
<big>वा द्रुहमुहष्णुहष्णिहाम् (८.२.३३) = द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌ एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशो भवति झलि पदान्ते च; घ्‌-अभावे हो ढः (८.२.३१) इत्यनेन ढकारादेशो भवति | द्रुहश्च मुहश्च ष्णुहश्च ष्णिहश्च तेषाम इतरेतर्तद्वान्द्वः, द्रुहमुहष्णुहष्णिहः, तेषां द्रुहमुहष्णुहष्णिहाम् | वा अव्ययपदं, द्रुहमुहष्णुहष्णिहां षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | हो ढः (८.२.३१) इत्यस्मात्‌ हः, दादेर्धातोर्घः (८.२.३२) इत्यस्मात्‌ घः, झलो झलि (८.२.२६) इत्यस्मात्‌ झलि, स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, च इत्येषाम्‌ अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— द्रुह-मुह-ष्णुह-ष्णिहाम् वा हः घः झलि पदस्य अन्ते च |</big>
 
 
<big>पदान्ते लङि—</big>
Line 441 ⟶ 465:
 
<big>अस्नेनेह्‌ → अस्नेनेघ्‌ / अस्नेनेढ्‌</big>
 
 
<big>4. नह्‌-धातोः हकारस्य धकारादेशो भवति |</big>
 
<big>नहो धः (८.२.३४) = नह्‌-धातोः हकारस्य धकारादेशो भवति झलि पदान्ते च | नहः षष्ठ्यन्तं, धः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | हो ढः (८.२.३१) इत्यस्मात्‌ हः इत्यस्य अनुवृत्तिः | दादेर्धातोर्घः (८.२.३२) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— नहः धातोः हः धः झलि पदस्य अन्ते च |</big>
 
 
<big>पदान्ते लङि— अनानह्‌ + त्‌ → अनानह्‌ → अनानध्‌</big>
 
<big>d) भष्‌-भावः</big>
 
 
<big>एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः (८.२.३७) = ३४ → ४४</big>
 
<big>परिचयः— धातोः आदौ बश्‌ (ब, ग, ड, द) अपि च अन्ते झष्‌ (झ, भ, घ, ढ, ध), तस्य धातोः नाम एकाच्‌-बशादि-झषन्तधातुः | यथा बन्ध्‌-धातुः, बुध्‌-धातुः च | यदि उपर्युक्त-हकारान्तधातुसम्बद्ध-सूत्रैः हकारस्य स्थाने झषादेशः सञ्जातः (दृष्टान्ते— दुह्‌ → दुघ्‌) तर्हि सोऽपि तादृशो धातुः | एकाच्‌-बशादि-झषन्तधातोः आदौ स्थितस्य बशः स्थाने भषादेशो भवति (भ, घ, ढ, ध) सकारादि-प्रत्यये परे, ध्व-शब्दे परे, पदान्ते च | अतः वदामः यत्‌ '३४ → ४४' इत्युक्तौ यत्र धातोः आदौ वर्गस्य तृतीयसदस्यः (३), अन्ते च वर्गस्य चतुर्थसदस्यः (४), तत्र आदौ स्थितस्य तृतीयसदस्यस्य स्थाने चतुर्थसदस्यादेशो भवति (३ → ४) | आहत्य ३४ → ४४ इति विकारः | धेयं यत्‌ अयं बश्‌-वर्णः धातोः अन्तिम-अंशस्य आदौ अपि भवितुमर्हति | अनेन धातुः अनेकाच्‌ चेदपि, तस्य धातोः एकाच्‌-बशादि-झषन्तधात्वंशः अस्ति चेत्‌, अत्रापि ३४ → ४४ इति विकारो भवति |</big>
 
 
<big>एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः (८.२.३७) = धातोरवयवो यो झषन्त एकाच्‌, तस्य बशः भषादेशो भवति सकारे परे, ध्व-शब्दे परे, पदान्ते च | अनुवृत्तिसहितसूत्रे 'एकाचः झषन्तस्य' इत्यनयोरेव विशेषणविशेष्यभावः; धातोः तादृशांशः इति तात्पर्यम्‌ | अनेन धातोः एकाच्‌ वा तदधिकाः वा अर्हाः | एकोऽच्‌ यस्मिन्‌ स एकाच्‌ बहुव्रीहिः, तस्य एकाचः | झष्‌ अन्ते यस्य स झषन्तः बहुव्रीहिः, तस्य झषन्तस्य | स्‌ च ध्व्‌‌ च स्ध्वौ इतरेतरद्वन्द्वः, तयोः स्ध्वोः | एकाचः षष्ठ्यन्तं, बशः षष्ठ्यन्तं, भष्‌ प्रथमान्तं, झषन्तस्य षष्ठ्यन्तं, स्ध्वोः सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | दादेर्धातोर्घः (८.२.३२) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— धातोः एकाचः झषन्तस्य बशः भष्‌ स्ध्वोः पदस्य अन्ते च |</big>
 
<big>पदान्ते लङि— अदोह्‌ + त्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् (६.१.६७) इत्यनेन त्‌-लोपः → अदोह्‌ इति पदम् → दादेर्धातोर्घः (८.२.३२) इत्यनेन हकारस्य स्थाने घकारादेशः → अदोघ्‌ → एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः (८.२.३७) इत्यनेन बशः भषादेशः → अधोघ्‌</big>
 
 
<big>सकारादि-प्रत्यये परे— गर्ह्‌ + स्यते → हो ढः (८.२.३१) इत्यनेन हः ढः → गर्ढ्‌ + स्यते → एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः (८.२.३७) इत्यनेन बशः भषादेशः → घर्ढ्‌ + स्यते</big>
 
<big>e) सकारान्तधातवः</big>
 
 
<big>सकारान्तधातूनां पदत्वे सति, तिपि दत्वं सिपि रुत्वं दत्वं वा |</big>
 
<big>1. सकारान्तधातूनां पदत्वे सति, तिपि दत्वम्‌</big>
 
 
<big>तिप्यनस्तेः (८.२.७३) = पदान्तस्य सकारस्य दकारादेशो भवति तिपि परे; परन्तु अस्‌-धातौ न भवति | इदं सूत्रं ससजुषो रुः (८.२.६६) इत्यस्य अपवादः | येनविधिस्तदन्तस्य (१.१.७२ ) इत्यनेन तदन्तविधिः; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णादेशः | न अस्तिः अनस्तिः, तस्य अनस्तेः | तिपि सप्तम्यन्तम्‌, अनस्तेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | ससजुषोः रुः (८.२.६६) इत्यस्मात्‌ सः इत्यस्य अनुवृत्तिः | वसुस्रंसुध्वंस्वनडुहां दः (८.२.७२) इत्यस्मात्‌ दः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— सः पदस्य दः तिपि अनस्तेः |</big>
 
<big>अनेन सूत्रेण लङ्‌-लकारस्य त्‌-प्रत्यये परे सकारान्तपदस्य सकारस्य दकारादेशो भवति | यथा—</big>
 
 
<big>अचकास्‌ + त्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) इत्यनेन त्‌-लोपः → अचकास्‌ इति पदम्‌ → तिप्यनस्तेः (८.२.७३) इत्यनेन अन्तिमसकारस्य दकारादेशः → अचकाद्‌</big>
 
<big>2. सकारान्तधातूनां पदत्वे सति सिपि रुत्वं दत्वं वा</big>
 
 
<big>सिपि धातो रुर्वा (८.२.७४) = पदान्तस्य सकारस्य रु-आदेशो भवति, दकारो वा, सिपि परे | अत्र 'वा' इति समुच्चयार्थे | येनविधिस्तदन्तस्य (१.१.७२ ) इत्यनेन तदन्तविधिः; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णादेशः | 'धातोः' उक्तं परसूत्राणाम्‌ अर्थपूर्तिकृते; प्रकृतसूत्रे आवश्यकता नास्ति | सिपि सप्तम्यन्तं, धातोः षष्ठ्यन्तं, रुः प्रथमान्तं, वा अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | ससजुषोः रुः (८.२.६६) इत्यस्मात्‌ सः इत्यस्य अनुवृत्तिः | वसुस्रंसुध्वंस्वनडुहां दः (८.२.७२) इत्यस्मात्‌ दः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— सः धातोः पदस्य रुः दः वा सिपि |</big>
 
<big>प्राचीनैः उच्यते यत्‌ वसुस्रंसुध्वंस्वनडुहां दः (८.२.७२) इत्यस्मात्‌ दः इत्यस्य अनुवृत्त्या दकारस्य पक्षः सिध्यति साक्षात्‌ अनेन एव सिपि धातो रुर्वा (८.२.७४) इति सूत्रेण | नवीनैः उच्यते यत्‌ अस्यावश्यकता नास्ति यतोहि रु-अपक्षे स्‌-स्थाने दकारादेशः झलां जशोऽन्ते (८.२.३९) इत्यनेन | परन्तु अद्यत्वे आधिक्येन वैयाकरणाः वदन्ति यत्‌ ससजुषोः रुः (८.२.६६), झलां जशोऽन्ते (८.२.३९) इत्यनयोर्मध्ये ससजुषोः रुः (८.२.६६) इत्यस्य अपवादभूतत्वात्‌ झलां जशोऽन्ते (८.२.३९) इत्यस्य पुनः नितराम्‌ अवकाशो नास्ति | इत्थञ्च सिपि धातो रुर्वा (८.२.७४) इत्यनेनैव रुश्च दश्च क्रियते |</big>
 
 
<big>अनेन सूत्रेण लङ्‌-लकारस्य स्‌‌-प्रत्यये परे सकारान्तपदस्य सकारस्य स्थाने विकल्पेन दकारादेशः रुत्वं वा भवति | यथा—</big>
 
<big>अचकास्‌ + स्‌ → स्‌-लोपः → अचकास्‌ → सिपि धातो रुर्वा (८.२.७४) इत्यनेन विकल्पेन रु-आदेशः → अचकाद्‌ / अचकारु → अचकारु चेत्‌ उ इत्यस्य इत्‌-संज्ञा लोपश्च, खरवसानयोर्विसर्जनीयः (८.३.१५) इत्यनेन अवसाने र्‍-स्थाने विसर्गादेशः → अचकाः</big>
 
 
<big>अत्र दृष्टिः एवं— सकारान्तपदम्‌ अस्ति चेत्‌, कीदृशं कार्यं स्यात्‌ इति प्रश्नः | अस्मिन्‌ प्रसङ्गे सर्वसामान्यं सूत्रं झलां जशोऽन्ते (८.२.३९) | सकारः झलि अस्ति; अनेन सूत्रेण पदान्ते सकारस्य जश्त्वं, नाम वर्गीयव्यञ्जनस्य तृतीयसदस्यः | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन दन्त्य-सकारस्य स्थाने दन्त्य-तवर्गस्य तृतीयसदस्यः दकारः भवति | अतः सर्वसामान्य-सिद्धान्तः पदान्ते सकारस्य स्थाने दकारादेशः | परन्तु ससजुषो रुः (८.२.६६) तस्य अपवादः | अनेन पदान्ते स्थितस्य सकारस्य स्थाने रु-आदेशो भवति | पुनः तिप्‌-प्रत्यये परे तिप्यनस्तेः (८.२.७३) तस्य अपवादः | अनेन तिपि परे पदान्तस्य सकारस्य दकारादेशो भवति | एवमेव सिप्‌-प्रत्यये परे सिपि धातो रुर्वा (८.२.७४) ससजुषो रुः (८.२.६६) इत्यस्य अपवादः | अनेन सिपि परे पदान्तस्य सकारस्य रु-आदेशो दकारादेशश्च भवति | यथोक्तं झलां जशोऽन्ते (८.२.३९) इत्यनेन स्‌-स्थाने दकारः नोपलभ्यते यतोहि तत्तु बाधितं ससजुषो रुः (८.२.६६) इति सूत्रेण |</big>
 
<big>प्रश्नः उदेति यत्‌ सिप्‌ यदा आगतः तदा कथं वा धातुसंज्ञा स्यात्‌ ? सिपि धातो रुर्वा (८.२.७४) इति सूत्रेण 'धातोः' अपि उक्तं, 'सिपि' अपि उक्तम्‌ | अत्र वार्ता एवं— कस्य भागस्य का संज्ञा ? 'वस + ति' इति स्थितौ 'वस' इति अङ्गस्य धातुसंज्ञा नास्ति; तत्र किन्तु 'वस्‌' इति अन्तर्निहितभागस्य धातुसंज्ञा तु तदानीमपि अस्त्येव | एवमेव सिपः विधानानन्तरमपि धातोः धातुसंज्ञा तिष्ठति | यथा 'अचकास्‌ + स्‌' इत्यत्र 'अचकास्‌ + स्‌' इत्यस्य पदसंज्ञा, 'अचकास्‌' इत्यस्य धातुसंज्ञा | तदा स्‌-प्रत्ययलोपानन्तरम्‌, 'अचकास्‌' इत्यस्य धातुसंज्ञा अपि भवति, पदसंज्ञा अपि भवति |</big>
 
 
<big>f) दकारान्तधातवः</big>
 
<big>दकारान्तधातूनां पदत्वे सति, सिपि रुत्वं दत्वं वा |</big>
 
 
<big>दश्च (८.२.७५) = धातोः पदान्ते दकारस्य स्थाने विकल्पेन रु-आदेशो भवति सिपि परे | रु-अभावे दत्वम्‌ एव | येनविधिस्तदन्तस्य (१.१.७२ ) इत्यनेन तदन्तविधिः; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य (दकारस्य) एव स्थाने न तु पूर्णपदस्य | दः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | सिपि धातो रुर्वा (८.२.७४) इत्यस्य पूर्णसूत्रस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— दः च धातोः पदस्य रुः वा सिपि |</big>
 
<big>अमोमोद्‌ + स्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ इत्यनेन स्‌-लोपः → अमोमोद्‌ इति पदम्‌ → वाऽवसाने (८.४.५६) इत्यनेन विकल्पेन पदान्ते चर्-आदेशः → अमोमोत्‌ / अमोमोद्‌ → दश्च इत्यनेन अन्तिमदकारस्य विकल्पेन रुत्वम्‌ → अमोमोद्‌ / अमोमोरु → अमोमोरु चेत्‌ उ इत्यस्य इत्‌-संज्ञा लोपश्च, खरवसानयोर्विसर्जनीयः इत्यनेन अवसाने र्‍-स्थाने विसर्गादेशः → अमोमोः | त्रीणि रूपाणि अमोमोत्‌ / अमोमोद्‌ / अमोमोः</big>
 
 
<big>अदादिगणे विद्‌-धातुः सिपि परे—</big>
 
<big>अविद्‌ + स्‌ → अवेद्‌ + स्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ इत्यनेन हल्‌-उत्तरस्य अपृक्तसंज्ञक-प्रत्ययस्य लोपः → अवेद्‌ → वाऽवसाने (८.४.५६) इत्यनेन विकल्पेन पदान्ते चर्-आदेशः → अवेत्‌ / अवेद्‌ | अवेद्‌ → दश्च → विकल्पेन अवेरु → खरवसानयोर्विसर्जनीयः इत्यनेन विसर्गादेशः → अवेः | त्रीणि रूपाणि अवेद्‌ / अवेत्‌ / अवेः</big>
 
 
<big>प्रश्नः उदेति यत्‌ दश्च (८.२.७५) इति सूत्रेण औपदेशिकधातुः एव इष्यते किम्‌ ? वस्तुतस्तु सूत्रे तथा किमपि नोक्तम्‌ | यत्र यत्र धातुसंज्ञा अस्ति, तत्र तत्र स च धातुः दकारान्तोऽपि पदमपि इति चेत्‌, सिपि परे विकल्पेन रुत्वादेशो भवति | यथा रुधादिगणस्य रुध्‌-धातुः, लङि अरुणध्‌ + सिप्‌ → सिपः लोपः → अरुणध्‌ → धातुसंज्ञा अस्ति, पदसंज्ञा अस्ति → जश्त्वं कृत्वा → अरुणद्‌ → धातुसंज्ञा अधुनाऽपि अस्ति, पदसंज्ञा अधुनाऽपि अस्ति → दश्च (८.२.७५) इति सूत्रेण विकल्पेन रुत्वम्‌ → → अरुणः |</big>
 
<big>अन्यः प्रश्नः उदेति यत्‌ यया रीत्या सिपि धातो रुर्वा (८.२.७४) इति सूत्रे 'वा' इति पदं समुच्चयार्थे, यया रीत्या च वसुस्रंसुध्वंस्वनडुहां दः (८.२.७२) इत्यस्मात्‌ दः इत्यस्य अनुवृत्त्या दकारः विधेयो भवति, तया एव रीत्या अपि दश्च (८.२.७५) इत्यस्मिन्नपि भवति किम्‌ ? अत्र मतद्वयमस्ति | काशिकायां व्याख्यातमस्ति— दकारान्तस्य धातोः पदस्य सिपि परतो रुर्भवति, दकारो वा | काशिकाकारस्य मतेन तदेव 'वा' समुच्चयार्थे, येन रुत्वं दत्वञ्चेति विधेयद्वयं भवति, द्वयमपि सिध्यति अनेन एव दश्च (८.२.७५) इति सूत्रेण | अतः काशिकाकारस्य मतेन दकारस्य अनुवृत्तिः भवति अत्रापि | परन्तु सिद्धान्तकौमुद्यां भट्टोजिदीक्षितेन लिखितं व्याख्यानमस्ति— धातोर्दस्य पदान्तस्य सिपि परे रुः स्याद्वा | अस्मिन्‌ 'दः' इत्यस्य अनुवृत्तिः अस्वीकृता | अस्मिन्नेव च लाघवम्‌ | दकारविधेयं चेत्‌ गौरवमिति | रुत्वस्य अपक्षे अस्माकं धातुरूपिपदं तु दकारान्तम्‌ अस्त्येव | पुनः दकारस्यानयनस्य काऽवश्यकता ? इत्येवं रीत्या मातृभिः साकं चर्चा सञ्जाता | इत्थञ्च दश्च (८.२.७५) इति सूत्रे दकारानुवृत्तिः मास्तु | 'वा' इति पदं विकल्पार्थे एव |</big>
 
 
<big>g) मकारान्तधातवः</big>
 
<big>मकारान्तानां पदत्वे सति, म्‌-स्थाने नकारः</big>
 
 
<big>मो नो धातोः (८.२.६४) = मकारान्तस्य धातोः पदस्य नकारादेशो भवति | तदन्तविधिः इत्यनेन मकारान्तधातुः इति आशयः | मः षष्ठ्यन्तं, नः प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— मः धातोः पदस्य अन्ते नः |</big>
 
<big>अजङ्गम्‌ + त्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ इत्यनेन त्‌-लोपः → अजङ्गम्‌ → मो नो धातोः इत्यनेन म्‌-स्थाने नकारादेशः → अजङ्गन्‌</big>
 
 
<big>अपरेषाम्‌ अनुनासिकान्तानां गतिः एवम्‌—</big>
Line 515 ⟶ 557:
 
<big>- नकारान्तधातुः णकारान्तधातुः चेत्‌ किमपि कार्यं न भवति अतः नकारः णकारः च यथावत्‌ तिष्ठति |</big>
 
 
<big>३. जश्त्वसन्धिः चर्त्वसन्धिश्च</big>
 
<big>अस्मिन्‌ सोपाने धेयं यत्‌ पदस्य अन्तिमो वर्णः कः— वर्गस्य पञ्चमसदस्यश्चेत्‌, किमपि कार्यं नास्ति | पदान्ते झल्‌ (वर्गस्य प्रथमो द्वितीयः तृतीयः चतुर्थो वा) चेत्‌, जश्त्वसन्धिः चर्त्वसन्धिश्च प्रसक्तौ स्तः | पदे यत्र सन्धेः प्रसक्तिः अस्ति, तत्र सन्धिः नित्यमिति जानीमः; अतः अस्मिन्‌ सन्दर्भे सन्धिः करणीय एव, वैकल्पिको न |</big>
 
 
<big>झलां जशोऽन्ते (८.२.३९) = पदान्ते झलः स्थाने जशादेशो भवति | पदात्‌ परे कोऽपि वर्णः स्यात्‌ वा न वा, सूत्रस्य प्रसक्तिः अस्ति एव | पदात्‌ परे अच्‌ स्यात्‌ हल्‌ स्यात्‌ वा, सूत्रस्य प्रसक्तिः अस्ति एव | बाधकसूत्रम्‌ अस्ति चेत्‌ अन्या वार्ता | झल्‌ प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्‌, ष्‌, स्‌, ह्‌ | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश्‌ प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्‌, ब्‌, ग्‌, ड्‌, द्‌ इति | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति | तर्हि पदस्य अन्ते झल्‌-प्रत्याहारे कश्चन वर्णः अस्ति चेत्‌, स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति | अयं जश्त्वसन्धिः इत्युच्यते | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, अन्ते सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— पदस्य अन्ते झलां जशः |</big>
 
<big>विरामोऽवसानम्‌ (१.४.११०) = वर्णानाम्‌ अभावः अवसानसंज्ञकः | विरामः प्रथमान्तम्‌, अवसानं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— विरामः अवसानम्‌ |</big>
 
 
<big>वाऽवसाने (८.४.५६) = अवसाने झलः विकल्पेन चर्‍-आदेशो भवति | अनेन अवसानावस्थायां विकल्पेन जश्त्वं चर्त्वं वा | वा अव्ययपदम्‌, अवसाने सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | झलां जश्‌ झशि (८.४.५३) इत्यस्मात्‌ झलां इत्यस्य अनुवृत्तिः | अभ्यासे चर्च (८.४.५४) इत्यस्मात्‌ चर्‍ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अवसाने झलां चरो वा |</big>
Line 533 ⟶ 578:
 
<big>(२) अवाव्रश्च्‌ → स्कोः संयोगाद्योरन्ते च इत्यनेन सकारलोपः → अवाव्रच्‌ → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः इत्यनेन षकारदेशः → अवाव्रष्‌ → (जश्त्वम्) अवाव्रड्‌‌, (चर्त्वम्) अवाव्रट्‌</big>
 
 
<big>टवर्गान्तधातुः— जश्त्वे डकारादेशः, चर्त्वे टकारादेशः | यथा अर्तृणेढ्‌ → (जश्त्वम्) अर्तृणेड्‌‌, (चर्त्वम्) अर्तृणेट्‌</big>
 
<big>तवर्गान्तधातुः— जश्त्वे दकारादेशः, चर्त्वे तकारादेशः | यथा अरुणध्‌ → (जश्त्वम्) अरुणद्‌, (चर्त्वम्) अरुणत्‌, (सिपि वा रुत्वम्‌) अरुणः |</big>
 
 
<big>अत्र प्रश्नः उदेति— यया रीत्या भू + शप्‌ → 'भव' इत्यस्य धातुसंज्ञा नास्ति, तया एव रीत्या रुध्‌ + श्नम्‌ → → 'अरुणध्‌' इत्यस्य धातुसंज्ञा अपि न स्यात्‌ किल ? अत्र तन्मध्यपतितस्तद्ग्रहणेन गृह्यते (८९) इति परिभाषया यस्य मध्ये पतितः तस्य ग्रहणम्‌ | इति कृत्वा धातुसंज्ञा भवत्येव |</big>
 
<big>दकारान्तधातुः— जश्त्वे दकारादेशः, चर्त्वे तकारादेशः, सिपि वा रुत्वम्‌ | यथा अमोमोद्‌ → (जश्त्वम्) अमोमोद्‌, (चर्त्वम्) अमोमोत्‌, (सिपि वा रुत्वम्‌) अमोमोः</big>
 
 
<big>पवर्गान्तधातुः‌— जश्त्वे बकारादेशः, चर्त्वे पकारादेशः | यथा अलालभ्‌ → (जश्त्वम्) अलालब्‌, (चर्त्वम्) अलालप्‌</big>
 
<big>षकारान्तधातुः— जश्त्वे डकारादेशः, चर्त्वे टकारादेशः | षकारस्य उच्चाराणस्थानं मूर्धा अतः मूर्धन्यवर्गस्य (इत्युक्तौ टवर्गस्य) आदेशो भवति | यथा अद्वेष्‌ → (जश्त्वम्) अद्वेड्‌, (चर्त्वम्) अद्वेट्‌‌</big>
 
 
<big>शकारान्तधातुः— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः इत्यनेन शकारस्य स्थाने षकारादेशः | तदा जश्त्वे डकारादेशः, चर्त्वे टकारादेशः | यथा अवश्‌ → अवष्‌ → (जश्त्वम्) अवड्‌‌, (चर्त्वम्) अवट्‌‌</big>
Line 551 ⟶ 600:
 
<big>— सिपि धातो रुर्वा इत्यनेन विकल्पेन रु-आदेशः | यथा चकास्‌ → (दत्वम्‌) अचकाद्‌, (चर्त्वम्) अचकात्‌, (रुत्वम्‌) अचकाः</big>
 
 
<big>हकारान्तधातुः— यथा अलोह्‌ + त्‌ → त्‌-लोपः → अलोह्‌ → हो ढः इत्यनेन ह्‌-स्थाने ढ्‍ → अलोढ्‌ → (जश्त्वम्) अलोड्‌‌, (चर्त्वम्) अलोट्‌‌ | एवमेव अतृणेह्‌ → (जश्त्वम्) अतृणेड्‌, (चर्त्वम्) अतृणेट्‌</big>
 
<big>दकारादि-हकारान्तधातुः— दुह्‌, दिह्‌ इत्यादयः | यथा अदोह्‌ + त्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ इत्यनेन त्‌-लोपः → अदोह्‌ → दादेर्धातोर्घः इत्यनेन ह्‌-स्थाने घ्‌ → अदोघ्‌ → एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः इत्यनेन बशो भष् (३४ → ४४) → अधोघ्‌ → (जश्त्वम्) अधोग्‌‌, (चर्त्वम्) अधोक्‌‌</big>
 
 
<big>इति हलन्तेभ्यो धातुभ्यो लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययश्चेत्यनयोः योजनविधिः |</big>
Line 561 ⟶ 612:
 
<big>लङ्‌-लकारस्य तिप्‌-प्रत्यये परे रूपं कल्पनीयम्‌ | सिपि भिद्यते चेत्‌, तदपि वक्तव्यम्‌ |</big>
 
 
<big>अदादिगणे—</big>
 
<big>शास्‌, वच्‌, मृज्‌, संस्त्‌ (लटि संस्ति), दुह्‌, विद्‌, हन्‌, वश्‌, द्विष्‌, दिह्‌, सस्‌, चकास्‌, लिह्‌</big>
 
 
<big>जुहोत्यादिगणे—</big>
 
<big>धन्‌ → दधन्‌, धिष्‌ → दिधिष्‌, निज्‌ → नेनिज्‌, तुर्‍ → तुतुर्‍, जन्‌ → जजन्‌,</big>
 
 
<big>रुधादिगणे—</big>
 
<big>विच्‌ → विनच्‌, युज्‌ → युनज्‌, छिद्‌ → छिनद्‌, रुध्‌ → रुणध्‌, भुज्‌ → भुनज्‌, शिष्‌ → शिनष्‌, रिच्‌ → रिणच्‌, उद्‌ → उनद्‌, हिंस्‌ → हिनस्‌, भिद्‌ → भिनद्‌, तृह्‌ → तृणह्‌ → तृणह इम्‌ (७.३.९२) → तृणेह्‌</big>
 
 
<big>यङ्‌लुकि—</big>
Line 579 ⟶ 634:
 
<big>*अवस्रंसनम्‌ इति अधःपतनम्‌ |</big>
 
 
<big>यङ्लुकि किन्तु—</big>
 
<big>लबि → लब्‌ → इदितो नुम धातोः (७.१.५८) → लन्ब्‌ → नश्चापदान्तस्य झलि (८.३.२४) → लंब्‌ → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → लम्ब्‌ → लालम्ब्‌ इति धातुः |</big>
 
 
<big>लङि—</big>
 
<big>लबि → लब्‌ → इदितो नुम धातोः (७.१.५८) → लन्ब्‌ → नश्चापदान्तस्य झलि (८.३.२४) → लंब्‌ → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → लम्ब्‌ → लालम्ब्‌ → अलालम्ब्‌ + त्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६८) → अलालम्ब्‌ → पदसंज्ञायां सत्यां संयोगान्तस्य लोपः (८.२.२३) → अलालम्‌ → मो नो धातोः (८.२.६४) इत्यनेन मकारान्तस्य धातोः पदस्य नकारादेशः → अलालन्‌</big>
 
 
<big>इति चिन्तने सति वस्तुतस्तु अनेकसमस्याः, ताश्च एताः—</big>
 
<big>१) संयोगान्तस्य लोपः (८.२.२३) इति त्रिपादिसूत्रं, नश्चापदान्तस्य झलि (८.३.२४) च अनुस्वारस्य ययि परसवर्णः (८.४.५८) च सूत्रद्वयं प्रति पूर्वसूत्रम्‌ | अतः संयोगान्तस्य लोपः (८.२.२३) तु अलालन्ब्‌ इत्येव पश्यति | अलालन्ब्‌ इत्यस्य एव बकारस्य लोपं करोति, येन अलालन्‌ साक्षात्‌ सिध्यति |</big>
 
 
<big>२) संयोगान्तस्य लोपः (८.२.२३) इत्यनेन अलालम्ब्‌ → अलालम्‌ इति स्वीकुर्मः चेदपि निमित्तापाये नैमित्तिकस्याप्यपायः* → बकारः तु अनुस्वारस्य मकारस्य च निमित्तं; तस्य अपाये नैमित्तिकस्य अपि अपायः → अनेन मकारः पुनः नकारो भवति → अलालन्‌</big>
 
<big>*नाम निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः | निमित्तम्‌ इत्युक्ते कारणं, नैमित्तिकम्‌ इत्युक्ते फलम्‌, अपायः इत्युक्ते अभावः |</big>
 
 
<big>३) संयोगान्तस्य लोपः (८.२.२३) इत्यनेन अलालम्ब्‌ → अलालम्‌ इति स्थितौ नैमित्तिकस्य अपायं न कुर्मः चेदपि मो नो धातोः (८.२.६४) इति अपि त्रिपाद्यां पूर्वत्रिपादिसूत्रम्‌ | नश्चापदान्तस्य झलि (८.३.२४) च अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनयोः कार्यमेव न पश्यति | इदितो नुम धातोः (७.१.५८) इत्यनेन व्युत्पन्नं नकारमेव पश्यति, अलालन्‌ | मो नो धातोः (८.२.६४), 'अलालन्‌' इति रूपं दृष्ट्वा किमपि न करोति |</big>
Line 601 ⟶ 661:
 
<big>लबि → लब्‌ → इदितो नुम धातोः (७.१.५८) → लन्ब्‌ → लालन्ब्‌ → अलालन्ब्‌ + त्‌ → त्‌-लोपः → अलालन्ब्‌ → संयोगान्तस्य लोपः (८.२.२३) → अलालन्‌</big>
 
 
<big>केचन वैयाकरणाः निमित्तस्यापाये नैमित्तिकस्यापि अपायः इति न मन्यन्ते यतोहि अयं न न्यायः न वा परिभाषा | काशिकान्यासे पदमञ्जर्यां च च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यस्य व्याख्याने तथा उच्यते | एवं दृष्ट्या वक्तव्यं चेत्‌, अकृतव्यूहाः पाणिनीयाः (५६) इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम्‌ इत्यस्मात्‌ लङ्‌लकारे प्रथमपुरुषैकवचने बकारस्य नशिष्यमाणत्वात्‌ नश्चापदान्तस्य झलि (८.३.२४) च अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्याभ्यां कार्यं न साधनीयमेव | तथा सति प्रक्रिया एवम्—</big>
 
<big>लबि → लब्‌ → इदितो नुम धातोः (७.१.५८) → लन्ब्‌ → लालन्ब्‌ → लङ्लकारे त्‌-प्रत्ययस्य लोपे सति बकारलोपस्य करिष्यमाणत्वात्‌ निमित्तनशिष्यमाणत्वात्‌ नश्चापदान्तस्य झलि (८.३.२४) च अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनयोः कार्यं न भवति → अलालन्ब्‌ + त्‌ → त्‌-लोपः → अलालन्ब्‌ → संयोगान्तस्य लोपः (८.२.२३)* → अलालन्‌</big>
 
 
<big>*अत्र पूर्वत्रासिद्धम्‌ इत्यनेन नश्चापदान्तस्य झलि (८.३.२४) इत्यत्र शास्त्रासिद्धम्‌ |</big>
Line 643 ⟶ 705:
 
<big>वृत्‌ → वरीवृत्‌ → अवरीवृत्‌ + त्‌ → पुगन्तलघूपधस्य च (७.३.८६) → अवरीवर्त्‌ + त्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् (६.१.६७) → अवरीवर्त्‌ → रात्सस्य (८.२.२४) इत्यनेन त्‌-लोपः बाधितः → अवरीवर्त्‌ → झलां जशोऽन्ते (८.२.३९) → अवरीवर्द्‌ → वाऽवसाने (८.४.५६) → अवरीवर्त्‌ / अवरीवर्द्‌</big>
 
 
<big>सिपि परे अवरीवृत्‌ → यथा तिपि परे → अवरीवर्त्‌ / अवरीवर्द्‌ → दश्च (८.२.७५) इत्यनेन सिपि परे धातोः पदान्त-दकारस्य स्थाने विकल्पेन रु-आदेशो भवति → अवरीवर्र्‍ → रो रि (८.३.१४) इत्यनेन रेफस्य रेफे परे लोपः → र-लोपः → अवरीवर्‌ → ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यनेन ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः → अवरीवार्‌ → खरवसानयोर्विसर्जनीयः इत्यनेन अवसाने र्‍-स्थाने विसर्गादेशः → अवरीवाः</big>
 
<big>रो रि (८.३.१४) = रेफस्य लोपः रेफे परे | रः षष्ठ्यन्तं, रि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | ढो ढे लोपः (८.३.१३) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— रः लोपः रि संहितायाम्‌ |</big>
 
 
<big>ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) = ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः | ढकाररेफयोः लोपस्य निमित्तकढकाररेफे परे, अण्‌-प्रत्याहारे स्थितस्य दीर्घादेशो भवति | ढ्रलोपे इति द्वन्द्वगर्भ-उपपदतत्पुरुषसमासः— ढ्‌ च र्‍ च ढ्रौ, इतरेतरद्वन्द्वः, ढ्रौ लोपयतीति ढ्रलोपः, तस्मिन्‌ ढ्रलोपे | ढ्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः | ढ्रलोपे सप्तम्यन्तं, पूर्वस्य षष्ठ्यन्तं, दीर्घः प्रथमान्तम्‌, अणः षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूरणम्‌— ढ्रलोपे पूर्वस्य अणः दीर्घः |</big>
 
<big>विसर्गसन्धौ रेफस्य प्रसिद्धोदाहरणम्‌ | पुनः रमते → पुनर्‍ + रमते → रो रि (८.३.१४) इत्यनेन रेफस्य रेफे परे लोपः → पुन + रमते → ढ्रलोपे पूर्वस्य दीर्घोऽणः → पुना रमते | अस्मिन्‌ वृत्तान्ते रेफः एव रेफस्य लोपस्य निमित्तम्‌ | रेफलोपनिमित्तकरेफात्‌ प्राक्‌ अण्‌-प्रत्याहारे अन्यतमवर्णोऽस्ति (अकारः इति) अतः अणः दीर्घत्वं भवति |</big>
 
 
<big>अत्र कश्चन प्रश्नः उदेति यत्‌ रो रि (८.३.१४) त्रिपादिसूत्रं, ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) च सपादसप्ताध्याय्याम्‌ इति कारणतः पूर्वत्रासिद्धम्‌ (८.२.१) इत्यनेन रो रि (८.३.१४) इत्यस्य कार्यम्‌ असिद्धं न भवति किम्‌ ? अत्र सिद्धान्तः कार्यं करोति आश्रयात्‌ सिद्धत्वम् | यावत्‌ पर्यन्तं रो रि (८.३.१४) न स्यात्‌, तावत्‌ पर्यन्तं ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्य रेफनिमित्तकप्रसक्तिर्न भविष्यति एव | रो रि (८.३.१४) इत्यस्य आश्रयेण ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्य कार्यं सिध्यति | रो रि (८.३.१४) नास्ति चेत्‌ ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) निरवकाशं भवति | रो रि (८.३.१४) इति सूत्रं त्यक्त्वा 'ढ्रलोपे' इत्यस्य रेफनिमित्तकत्वं निरर्थकम्‌ | किमर्थं न ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इति सूत्रं रो रि (८.३.१४) इत्यस्य अनन्तरंम्‌ अष्टाध्याय्यां स्थाप्येत इति चेत्‌, ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्य 'दीर्घ'-शब्दस्य अनुवृत्तिः आवश्यकी ६.३.११२ इत्यस्मात्‌ आरभ्य ६.४.१८ इति यावत्‌ |</big>
Line 670 ⟶ 735:
 
<big>Swarup – Sept 2013 (Updated April 2015 & May 2018)</big>
 
 
<big>[https://static.miraheze.org/samskritavyakaranamwiki/0/06/%E0%A5%AE_-_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A5%8D_-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83_%E0%A5%A7.pdf ८ - धातुपाठे हल्‌-सन्धिः १.pdf] (132k) Swarup Bhai, Jul 23, 2019, 11:25 PM v.1</big>
Line 675 ⟶ 741:
 
 
<big>---------------------------------</big>
 
<big>---------------------------------</big>
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
 
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.</big>
 
<big>To join a class, or for any questions feel free to contact Swarup <dinbandhu@sprynet.com>.</big>
deletepagepermission, page_and_link_managers, teachers
1,046

edits