6---sArvadhAtukaprakaraNam-anadantam-aGgam/08---dhAtupAThe-hal-sandhiH-1: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 326:
 
 
<big>*'<nowiki/>'''अनुनासिकस्य, क्विझलोः''' इत्यनयोः अनुवृत्तिः' इत्युक्तम्‌ | काशिकायाम्‌ '<nowiki/>'''अनुनासिकस्य'''<nowiki/>' इत्यस्य पर्युदासे '<nowiki/>'''क्ङिति'''<nowiki/>' इत्यस्य अनुवृत्तिः दत्ता, सा च दोषाय | ''''क्ङिति'''<nowiki/>' स्वीक्रियते चेत्‌, 'अमोमुर्छ्‌ + त्‌' इति स्थितौ इष्टं रूपं न सिध्यति त्‌-प्रत्ययस्य पित्त्वात्‌ | अपि च ''''अनुनासिकस्य'''<nowiki/>' इत्यस्य अनुवृत्तिः अपेक्षिता एव | यथा—</big>
 
 
Line 452:
<big>1. हकारान्तधातूनां हकारस्य स्थाने ढकारादेशो भवति |</big>
 
<nowiki>*********************************************************************************************************</nowiki>
<big>हो ढः (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— हः ढः झलि पदस्य अन्ते च |</big>
 
<big>'''हो ढः''' (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते, च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हः ढः झलि पदस्य अन्ते च''' |</big>
<big>पदान्ते लङि— अतृणेह्‌ + त्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् इत्यनेन त्‌-लोपः → अतृणेह्‌ → हो ढः इत्यनेन ढकारादेशः → अतृणेढ्‌</big>
 
 
<big>पदान्ते लङि— अतृणेह्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्''' इत्यनेन त्‌-लोपः → अतृणेह्‌ → हो ढः इत्यनेन ढकारादेशः → अतृणेढ्‌</big>
 
 
 
<big>2. धातोरादौ दकारः, अन्ते हकारः चेत्‌, हकारस्थाने घकारादेशो भवति |</big>
 
 
<big>'''दादेर्धातोर्घः''' (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ट्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''दादेः धातोः हः घः झलि पदस्य अन्ते च''' |</big>
 
 
 
Line 470 ⟶ 474:
<big>3. द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌ एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारो वा ढकारो वा भवति |</big>
 
 
<big>'''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३) = द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌ एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशो भवति झलि पदान्ते च; घ्‌-अभावे '''हो ढः''' (८.२.३१) इत्यनेन ढकारादेशो भवति | द्रुहश्च मुहश्च ष्णुहश्च ष्णिहश्च तेषाम इतरेतर्तद्वान्द्वः, द्रुहमुहष्णुहष्णिहः, तेषां द्रुहमुहष्णुहष्णिहाम् | वा अव्ययपदं, द्रुहमुहष्णुहष्णिहां षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''', '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्मात्‌ '''घः''', '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''', '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते, च''' इत्येषाम्‌ अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''द्रुह-मुह-ष्णुह-ष्णिहाम् वा हः घः झलि पदस्य अन्ते च''' |</big>
 
 
 
Line 486 ⟶ 492:
<big>4. नह्‌-धातोः हकारस्य धकारादेशो भवति |</big>
 
 
<big>'''नहो धः''' (८.२.३४) = नह्‌-धातोः हकारस्य धकारादेशो भवति झलि पदान्ते च | नहः षष्ठ्यन्तं, धः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''' इत्यस्य अनुवृत्तिः | '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते, च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''नहः धातोः हः धः झलि पदस्य अन्ते च''' |</big>
 
 
 
<big>पदान्ते लङि— अनानह्‌ + त्‌ → अनानह्‌ → अनानध्‌</big>
 
<big>d) भष्‌-भावः</big>
 
<big>'''d)''' भष्‌-भावः</big>
 
 
<big>'''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' (८.२.३७) = ३४ → ४४</big>
 
<big>परिचयः— धातोः आदौ बश्‌ (ब, ग, ड, द) अपि च अन्ते झष्‌ (झ, भ, घ, ढ, ध), तस्य धातोः नाम एकाच्‌-बशादि-झषन्तधातुः | यथा बन्ध्‌-धातुः, बुध्‌-धातुः च | यदि उपर्युक्त-हकारान्तधातुसम्बद्ध-सूत्रैः हकारस्य स्थाने झषादेशः सञ्जातः (दृष्टान्ते— दुह्‌ → दुघ्‌) तर्हि सोऽपि तादृशो धातुः | एकाच्‌-बशादि-झषन्तधातोः आदौ स्थितस्य बशः स्थाने भषादेशो भवति (भ, घ, ढ, ध) सकारादि-प्रत्यये परे, ध्व-शब्दे परे, पदान्ते च | अतः वदामः यत्‌ '३४ → ४४' इत्युक्तौ यत्र धातोः आदौ वर्गस्य तृतीयसदस्यः (३), अन्ते च वर्गस्य चतुर्थसदस्यः (४), तत्र आदौ स्थितस्य तृतीयसदस्यस्य स्थाने चतुर्थसदस्यादेशो भवति (३ → ४) | आहत्य ३४ → ४४ इति विकारः | धेयं यत्‌ अयं बश्‌-वर्णः धातोः अन्तिम-अंशस्य आदौ अपि भवितुमर्हति | अनेन धातुः अनेकाच्‌ चेदपि, तस्य धातोः एकाच्‌-बशादि-झषन्तधात्वंशः अस्ति चेत्‌, अत्रापि ३४ → ४४ इति विकारो भवति |</big>
 
 
<big>'''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' (८.२.३७) = धातोरवयवो यो झषन्त एकाच्‌, तस्य बशः भषादेशो भवति सकारे परे, ध्व-शब्दे परे, पदान्ते च | अनुवृत्तिसहितसूत्रे ''''एकाचः झषन्तस्य'''<nowiki/>' इत्यनयोरेव विशेषणविशेष्यभावः; धातोः तादृशांशः इति तात्पर्यम्‌ | अनेन धातोः एकाच्‌ वा तदधिकाः वा अर्हाः | एकोऽच्‌ यस्मिन्‌ स एकाच्‌ बहुव्रीहिः, तस्य एकाचः | झष्‌ अन्ते यस्य स झषन्तः बहुव्रीहिः, तस्य झषन्तस्य | स्‌ च ध्व्‌‌ च स्ध्वौ इतरेतरद्वन्द्वः, तयोः स्ध्वोः | एकाचः षष्ठ्यन्तं, बशः षष्ठ्यन्तं, भष्‌ प्रथमान्तं, झषन्तस्य षष्ठ्यन्तं, स्ध्वोः सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते, च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''धातोः एकाचः झषन्तस्य बशः भष्‌ स्ध्वोः पदस्य अन्ते च''' |</big>
 
<big>पदान्ते लङि— अदोह्‌ + त्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् (६.१.६७) इत्यनेन त्‌-लोपः → अदोह्‌ इति पदम् → दादेर्धातोर्घः (८.२.३२) इत्यनेन हकारस्य स्थाने घकारादेशः → अदोघ्‌ → एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः (८.२.३७) इत्यनेन बशः भषादेशः → अधोघ्‌</big>
 
<big>पदान्ते लङि— अदोह्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्''' (६.१.६७) इत्यनेन त्‌-लोपः → अदोह्‌ इति पदम् → '''दादेर्धातोर्घः''' (८.२.३२) इत्यनेन हकारस्य स्थाने घकारादेशः → अदोघ्‌ → '''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' (८.२.३७) इत्यनेन बशः भषादेशः → अधोघ्‌</big>
 
<big>सकारादि-प्रत्यये परे— गर्ह्‌ + स्यते → हो ढः (८.२.३१) इत्यनेन हः ढः → गर्ढ्‌ + स्यते → एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः (८.२.३७) इत्यनेन बशः भषादेशः → घर्ढ्‌ + स्यते</big>
 
<big>सकारादि-प्रत्यये परे— गर्ह्‌ + स्यते → '''हो ढः''' (८.२.३१) इत्यनेन हः ढः → गर्ढ्‌ + स्यते → '''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' (८.२.३७) इत्यनेन बशः भषादेशः → घर्ढ्‌ + स्यते</big>
<big>e) सकारान्तधातवः</big>
 
 
<big>'''e)''' सकारान्तधातवः</big>
 
 
 
<big>सकारान्तधातूनां पदत्वे सति, तिपि दत्वं सिपि रुत्वं दत्वं वा |</big>
 
 
<big>1. सकारान्तधातूनां पदत्वे सति, तिपि दत्वम्‌</big>
 
 
<big>'''तिप्यनस्तेः''' (८.२.७३) = पदान्तस्य सकारस्य दकारादेशो भवति तिपि परे; परन्तु अस्‌-धातौ न भवति | इदं सूत्रं '''ससजुषो रुः''' (८.२.६६) इत्यस्य अपवादः | '''येनविधिस्तदन्तस्य''' (१.१.७२ ) इत्यनेन तदन्तविधिः; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णादेशः | न अस्तिः अनस्तिः, तस्य अनस्तेः | तिपि सप्तम्यन्तम्‌, अनस्तेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ससजुषोः रुः''' (८.२.६६) इत्यस्मात्‌ '''सः''' इत्यस्य अनुवृत्तिः | '''वसुस्रंसुध्वंस्वनडुहां दः''' (८.२.७२) इत्यस्मात्‌ '''दः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''सः पदस्य दः तिपि अनस्तेः''' |</big>
 
<big>अनेन सूत्रेण लङ्‌-लकारस्य त्‌-प्रत्यये परे सकारान्तपदस्य सकारस्य दकारादेशो भवति | यथा—</big>
 
 
<big>अचकास्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) इत्यनेन त्‌-लोपः → अचकास्‌ इति पदम्‌ → '''तिप्यनस्तेः''' (८.२.७३) इत्यनेन अन्तिमसकारस्य दकारादेशः → अचकाद्‌</big>
 
 
<big>2. सकारान्तधातूनां पदत्वे सति सिपि रुत्वं दत्वं वा</big>
 
 
<big>'''सिपि धातो रुर्वा''' (८.२.७४) = पदान्तस्य सकारस्य रु-आदेशो भवति, दकारो वा, सिपि परे | अत्र 'वा' इति समुच्चयार्थे | '''येनविधिस्तदन्तस्य''' (१.१.७२ ) इत्यनेन तदन्तविधिः; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णादेशः | ''''धातोः'''<nowiki/>' उक्तं परसूत्राणाम्‌ अर्थपूर्तिकृते; प्रकृतसूत्रे आवश्यकता नास्ति | सिपि सप्तम्यन्तं, धातोः षष्ठ्यन्तं, रुः प्रथमान्तं, वा अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''ससजुषोः रुः''' (८.२.६६) इत्यस्मात्‌ '''सः''' इत्यस्य अनुवृत्तिः | '''वसुस्रंसुध्वंस्वनडुहां दः''' (८.२.७२) इत्यस्मात्‌ '''दः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''सः धातोः पदस्य रुः दः वा सिपि''' |</big>
 
 
<big>प्राचीनैः उच्यते यत्‌ '''वसुस्रंसुध्वंस्वनडुहां दः''' (८.२.७२) इत्यस्मात्‌ '''दः''' इत्यस्य अनुवृत्त्या दकारस्य पक्षः सिध्यति साक्षात्‌ अनेन एव '''सिपि धातो रुर्वा''' (८.२.७४) इति सूत्रेण | नवीनैः उच्यते यत्‌ अस्यावश्यकता नास्ति यतोहि रु-अपक्षे स्‌-स्थाने दकारादेशः '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन | परन्तु अद्यत्वे आधिक्येन वैयाकरणाः वदन्ति यत्‌ '''ससजुषोः रुः''' (८.२.६६), '''झलां जशोऽन्ते''' (८.२.३९) इत्यनयोर्मध्ये '''ससजुषोः रुः''' (८.२.६६) इत्यस्य अपवादभूतत्वात्‌ '''झलां जशोऽन्ते''' (८.२.३९) इत्यस्य पुनः नितराम्‌ अवकाशो नास्ति | इत्थञ्च '''सिपि धातो रुर्वा''' (८.२.७४) इत्यनेनैव रुश्च दश्च क्रियते |</big>
 
<big>प्राचीनैः उच्यते यत्‌ वसुस्रंसुध्वंस्वनडुहां दः (८.२.७२) इत्यस्मात्‌ दः इत्यस्य अनुवृत्त्या दकारस्य पक्षः सिध्यति साक्षात्‌ अनेन एव सिपि धातो रुर्वा (८.२.७४) इति सूत्रेण | नवीनैः उच्यते यत्‌ अस्यावश्यकता नास्ति यतोहि रु-अपक्षे स्‌-स्थाने दकारादेशः झलां जशोऽन्ते (८.२.३९) इत्यनेन | परन्तु अद्यत्वे आधिक्येन वैयाकरणाः वदन्ति यत्‌ ससजुषोः रुः (८.२.६६), झलां जशोऽन्ते (८.२.३९) इत्यनयोर्मध्ये ससजुषोः रुः (८.२.६६) इत्यस्य अपवादभूतत्वात्‌ झलां जशोऽन्ते (८.२.३९) इत्यस्य पुनः नितराम्‌ अवकाशो नास्ति | इत्थञ्च सिपि धातो रुर्वा (८.२.७४) इत्यनेनैव रुश्च दश्च क्रियते |</big>
 
 
<big>अनेन सूत्रेण लङ्‌-लकारस्य स्‌‌-प्रत्यये परे सकारान्तपदस्य सकारस्य स्थाने विकल्पेन दकारादेशः रुत्वं वा भवति | यथा—</big>
 
<big>अचकास्‌ + स्‌ → स्‌-लोपः → अचकास्‌ → सिपि धातो रुर्वा (८.२.७४) इत्यनेन विकल्पेन रु-आदेशः → अचकाद्‌ / अचकारु → अचकारु चेत्‌ उ इत्यस्य इत्‌-संज्ञा लोपश्च, खरवसानयोर्विसर्जनीयः (८.३.१५) इत्यनेन अवसाने र्‍-स्थाने विसर्गादेशः → अचकाः</big>
 
<big>अचकास्‌ + स्‌ → स्‌-लोपः → अचकास्‌ → '''सिपि धातो रुर्वा''' (८.२.७४) इत्यनेन विकल्पेन रु-आदेशः → अचकाद्‌ / अचकारु → अचकारु चेत्‌ उ इत्यस्य इत्‌-संज्ञा लोपश्च, '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन अवसाने र्‍-स्थाने विसर्गादेशः → अचकाः</big>
 
 
<big>अत्र दृष्टिः एवं— सकारान्तपदम्‌ अस्ति चेत्‌, कीदृशं कार्यं स्यात्‌ इति प्रश्नः | अस्मिन्‌ प्रसङ्गे सर्वसामान्यं सूत्रं '''झलां जशोऽन्ते''' (८.२.३९) | सकारः झलि अस्ति; अनेन सूत्रेण पदान्ते सकारस्य जश्त्वं, नाम वर्गीयव्यञ्जनस्य तृतीयसदस्यः | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन दन्त्य-सकारस्य स्थाने दन्त्य-तवर्गस्य तृतीयसदस्यः दकारः भवति | अतः सर्वसामान्य-सिद्धान्तः पदान्ते सकारस्य स्थाने दकारादेशः | परन्तु '''ससजुषो रुः''' (८.२.६६) तस्य अपवादः | अनेन पदान्ते स्थितस्य सकारस्य स्थाने रु-आदेशो भवति | पुनः तिप्‌-प्रत्यये परे '''तिप्यनस्तेः''' (८.२.७३) तस्य अपवादः | अनेन तिपि परे पदान्तस्य सकारस्य दकारादेशो भवति | एवमेव सिप्‌-प्रत्यये परे '''सिपि धातो रुर्वा''' (८.२.७४) '''ससजुषो रुः''' (८.२.६६) इत्यस्य अपवादः | अनेन सिपि परे पदान्तस्य सकारस्य रु-आदेशो दकारादेशश्च भवति | यथोक्तं '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन स्‌-स्थाने दकारः नोपलभ्यते यतोहि तत्तु बाधितं '''ससजुषो रुः''' (८.२.६६) इति सूत्रेण |</big>
 
<big>अत्र दृष्टिः एवं— सकारान्तपदम्‌ अस्ति चेत्‌, कीदृशं कार्यं स्यात्‌ इति प्रश्नः | अस्मिन्‌ प्रसङ्गे सर्वसामान्यं सूत्रं झलां जशोऽन्ते (८.२.३९) | सकारः झलि अस्ति; अनेन सूत्रेण पदान्ते सकारस्य जश्त्वं, नाम वर्गीयव्यञ्जनस्य तृतीयसदस्यः | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन दन्त्य-सकारस्य स्थाने दन्त्य-तवर्गस्य तृतीयसदस्यः दकारः भवति | अतः सर्वसामान्य-सिद्धान्तः पदान्ते सकारस्य स्थाने दकारादेशः | परन्तु ससजुषो रुः (८.२.६६) तस्य अपवादः | अनेन पदान्ते स्थितस्य सकारस्य स्थाने रु-आदेशो भवति | पुनः तिप्‌-प्रत्यये परे तिप्यनस्तेः (८.२.७३) तस्य अपवादः | अनेन तिपि परे पदान्तस्य सकारस्य दकारादेशो भवति | एवमेव सिप्‌-प्रत्यये परे सिपि धातो रुर्वा (८.२.७४) ससजुषो रुः (८.२.६६) इत्यस्य अपवादः | अनेन सिपि परे पदान्तस्य सकारस्य रु-आदेशो दकारादेशश्च भवति | यथोक्तं झलां जशोऽन्ते (८.२.३९) इत्यनेन स्‌-स्थाने दकारः नोपलभ्यते यतोहि तत्तु बाधितं ससजुषो रुः (८.२.६६) इति सूत्रेण |</big>
 
<big>प्रश्नः उदेति यत्‌ सिप्‌ यदा आगतः तदा कथं वा धातुसंज्ञा स्यात्‌ ? '''सिपि धातो रुर्वा''' (८.२.७४) इति सूत्रेण 'धातोः' अपि उक्तं, 'सिपि' अपि उक्तम्‌ | अत्र वार्ता एवं— कस्य भागस्य का संज्ञा ? 'वस + ति' इति स्थितौ 'वस' इति अङ्गस्य धातुसंज्ञा नास्ति; तत्र किन्तु 'वस्‌' इति अन्तर्निहितभागस्य धातुसंज्ञा तु तदानीमपि अस्त्येव | एवमेव सिपः विधानानन्तरमपि धातोः धातुसंज्ञा तिष्ठति | यथा 'अचकास्‌ + स्‌' इत्यत्र 'अचकास्‌ + स्‌' इत्यस्य पदसंज्ञा, 'अचकास्‌' इत्यस्य धातुसंज्ञा | तदा स्‌-प्रत्ययलोपानन्तरम्‌, 'अचकास्‌' इत्यस्य धातुसंज्ञा अपि भवति, पदसंज्ञा अपि भवति |</big>
 
<nowiki>*********************************************************************************************************</nowiki>
 
<big>'''f)''' दकारान्तधातवः</big>
 
<big>दकारान्तधातूनां पदत्वे सति, सिपि रुत्वं दत्वं वा |</big>
deletepagepermission, page_and_link_managers, teachers
1,046

edits