6---sArvadhAtukaprakaraNam-anadantam-aGgam/08---dhAtupAThe-hal-sandhiH-1: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 89:
 
<big>B. धातुः हलन्तः, प्रत्ययस्य प्रथमवर्णः त्‌, थ्‌, ध्‌, स् → हल्‌-सन्धिः</big>
 
 
<big>यथोक्तं हल्‌-सन्धौ हलः विकारो भवति |</big>
 
 
 
Line 101 ⟶ 103:
 
<big>अग्रिमेषु चतुर्षु पाठेषु हलन्तेभ्यो धातुभ्यः कथं तकारादिप्रत्ययाः, थकारादिप्रत्ययाः, धकारादिप्रत्ययाः, सकारादिप्रत्ययाश्च संयुज्यन्ते इति ज्ञास्यामः |</big>
 
 
<big>C. हल्‌-सन्धि-विधयः चतुर्षु विभागेषु विभक्ताः</big>
 
 
 
Line 115 ⟶ 119:
 
<big>D. हलन्तेभ्यो धातुभ्यः लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययश्चेत्यनयोः योजनविधिः</big>
 
 
<big>लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययश्चेत्यनयोः अपृक्त-संज्ञा भवति | अतस्‌ तयोर् योजनविधिर्भिन्नः |</big>
 
 
 
<big>'''अपृक्त एकाल्‌ प्रत्ययः''' (१.२.४१) = यस्य प्रत्यस्य एकैव अल्‌, तस्य अपृक्त-संज्ञा भवति | एकश्चासौ अल्‌ एकाल्‌, कर्मधारयः | अपृक्तः प्रथमान्तम्‌, एकाल्‌ प्रथमान्तं‌, प्रत्ययः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''एकाल्‌ प्रत्ययः अपृक्तः''' |</big>
 
 
<big>अत्र योजनविधौ सोपानत्रयं वर्तते—</big>
Line 133 ⟶ 140:
 
 
<big>'''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) = हलन्तात्‌, दीर्घङ्यन्तात्‌, दीर्घाबन्तात्‌ च सु-ति-सि इत्येषाम्‌ अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्‌-लोपः, लङि प्रथमपुरुषे त्‌-लोपः, मध्यमपुरुषे स्‌-लोपश्च | हल्‌ च ङी च आप्‌ च तेषाम्‌ इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम्‌ | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात्‌ पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल्‌ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''लोपो व्योर्वलि''' (६.१.६५) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे '''लुप्यते''' इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दीर्घात्‌ हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल्‌ लुप्यते''' |</big>
 
 
<big>समग्रदृष्ट्या अस्य सूत्रस्य प्रसक्तिः कुत्र ?</big>
 
 
 
<big>(१) हलन्तधातुतः लङ्‌-लकारस्य सि, ति च प्रत्यययोः परयोः | अत्र स्‌, त्‌ इत्यनयोः लोपो भवति |</big>
Line 200 ⟶ 205:
 
<big>अत्र उक्तं यत्‌ लङ्‌-लकारे हल्‌-सन्धिः पदान्ते भवति यत्र धातुः हलन्तः, अपि च विकरणप्रत्ययः न भवति | लङ्‌-लकारस्य प्रथमपुरुषस्य मध्यमपुरुषस्य च एकवचने— तिपि सिपि इति प्रसङ्गः |</big>
 
 
<big>तर्हि एतादृशी स्थितिः कुत्र प्राप्यते इति प्रश्ने सति, अदादिगणे, जुहोत्यादिगणे, रुधादिगणे, यङ्लुगन्ते च इति उत्तरं लब्धम्‌ | तत्र बहूनां जिज्ञासा व्युत्पन्ना, यङ्लुगन्तं नाम किम्‌ ? अत्र तस्मिन्‌ सम्बन्धे किञ्चित्‌ उपस्थाप्यते, परिचयत्वेन |</big>
 
 
<big>पाणिनेः धातुपाठे द्विसहस्रं धातवः सन्ति | भू, दा, पठ्‌, लिख्‌, ज्ञा, क्री इत्यादयः द्विसहस्रे धातुषु अस्माकं बहवः परिचिताः | इमे पाणिनीय-धातुपाठे स्थिताः सर्वे धातवः '''औपदेशिकधातवः''' इत्युच्यन्ते |</big>
 
 
<big>तदा द्वादश प्रत्ययाः सन्ति ये एभ्यः धातुभ्यः विधीयन्ते; यदा इमे प्रत्ययाः विहिताः भवन्ति, तदा नूतनधातवः निष्पन्नाः भवन्ति | एषाम्‌ अस्माभिः नूतनया निष्पादित-धातूनां नाम '''आतिदेशिकधातवः''' | यथा णिच्‌-प्रत्ययस्य संयोजनेन णिजन्तधातुः निष्पन्नः | लिख्‌ इति औपदेशिकधातुः; तस्मात्‌ यदा णिच्‌ विहितो भवति, तदा लेखि इति नूतनः णिजन्तधातुः निष्पन्नः | अयं च आतिदेशिकधातुः | सन्नन्तधातवः अपि तथा | कृ इति औपदेशिकधातुः, चिकीर्ष इति सन्नन्तः आतिदेशिकधातुः; लटि चिकीर्षति |</big>
 
<big>तदा द्वादश प्रत्ययाः सन्ति ये एभ्यः धातुभ्यः विधीयन्ते; यदा इमे प्रत्ययाः विहिताः भवन्ति, तदा नूतनधातवः निष्पन्नाः भवन्ति | एषाम्‌ अस्माभिः नूतनया निष्पादित-धातूनां नाम आतिदेशिकधातवः | यथा णिच्‌-प्रत्ययस्य संयोजनेन णिजन्तधातुः निष्पन्नः | लिख्‌ इति औपदेशिकधातुः; तस्मात्‌ यदा णिच्‌ विहितो भवति, तदा लेखि इति नूतनः णिजन्तधातुः निष्पन्नः | अयं च आतिदेशिकधातुः | सन्नन्तधातवः अपि तथा | कृ इति औपदेशिकधातुः, चिकीर्ष इति सन्नन्तः आतिदेशिकधातुः; लटि चिकीर्षति |</big>
 
 
<big>एषु द्वादशसु प्रत्ययेषु यङ्‌-प्रत्ययः अन्यतमः | वारं वारम्‌ अथवा अधिकाधिकम्‌ इत्यस्मिन्‌ अर्थे भवति | यथा णिच्‌ अपि च सन्, अस्य यङ्‌-प्रत्ययस्य धातुना संयोजनेन नूतनधातुः निर्मितः भवति | तदा यङन्तधातुः इति वदामः | यङ्‌-प्रत्ययस्य किञ्चन वैशिष्ट्यम्‌ अस्ति यत्‌ तस्य लोपः (लुक्‌) अपि भवितुम्‌ अर्हति | यत्र यङः लुक्‌ भवति तत्र यङ्लुगन्तधातुः इत्युच्यते | यङन्तानां यङ्लुगन्तानां च अर्थः समानः, परन्तु रूपं भिद्यते |</big>
 
 
<big>यङ्लुगन्तधातवः आदादिकाः इत्युच्यन्ते यतोहि तत्र शपः लुक्‌ भवति, अदादिगणवत्‌ | (अन्ये सर्वे आतिदेशिकधातवः भ्वादिगणीयाः, यथा सन्नन्ताः, णिजन्ताः, यङन्ताः | तेषां सर्वेषां कृते शप्‌-विकरणप्रत्ययः भवति |)</big>
 
 
 
<big>हल्‌-सन्धि-विषये अस्माकम्‌ अभिरुचिः यङ्लुगन्तानां, यतोहि तत्र विकरणप्रत्ययः न भवति— अतः यङ्लुगन्तधातुः हलन्तः चेत्‌, तस्य लङ्‌-लकारस्य प्रथमपुरुषस्य मध्यमपुरुषस्य च एकवचने, पदान्ते हल्‌-सन्धिः अर्हः यथासङ्गम्‌ | एतादृशानि बहूनि रूपाणि अग्रे प्रदर्शितानि |</big>
 
 
<big>अधुना अनुभवार्थं यङ्लुगन्तानां लट्‌-लकारः कथं भवति इति पश्येम | अत्रापि हल्‌-सन्धेः अवसरः |</big>
 
 
 
<big>पठ्‌-धातुः इति स्वीकुर्मः |</big>
 
 
<big>यथा पठ्‌-धातुः + णिच्‌ → पाठि इति नूतनधातुः | लटि पाठयति |</big>
 
 
 
<big>तथैव पठ्‌-धातुः + यङ्‌-लुक्‌ → पापठ्‌ इति नूतनधातुः | लटि पापट्टि | बालकः वारं वारं अथवा अधिकाधिकं पठति इत्यस्मिन्‌ अर्थे, बालकः पापट्टि |</big>
 
 
<big>अत्र पश्यतु यत्‌ औपदेशिकः पठ्‌-धातुः चेत्‌ रूपम्‌ एवम्‌—</big>
 
 
 
<big>पठ्‌ + अ + ति → पठति</big>
 
 
<big>परन्तु यङ्लुगन्तधातुः चेत्‌, मध्ये विकरणप्रत्ययः नास्ति | पापठ्‌ + ति | अतः अत्र हल्‌‍-सन्धिः भविष्यति | तेन एव कारणेन हल्‌-सन्धेः अभ्यासार्थं यङ्लुगन्तधातवः समीचीनाः | यथा—</big>
 
 
 
<big>पापठ्‌ + ति → ष्टुत्वम्‌ ('''ष्टुना ष्टुः''') → पापठ्‌ + टि → चर्त्वं ('''खरि च''') → पापट्‌ + टि → वर्णमेलने → पापट्टि |</big>
 
 
<big>धेयं यत् औपदेशिक-पठ्‌-धातोः लट्‌-लकारे हल्‌-सन्धेः अवकाशो नास्ति— पठ्‌ + अ + ति → पठति | केवलं वर्णमेलनं, विकरणप्रत्ययस्य कारणात्‌ | परन्तु यङ्लुकि हल्‌-सन्धि-अवकाशो भवति, विकरणप्रत्ययस्य अभावात्‌ | अतः हल्‌-सन्धेः अभ्यासार्थं यङ्लुगन्तधातवः समीचीनाः |</big>
 
 
 
<big>अदादिगणे, जुहोत्यादिगणे, रुधादिगणे एषाम्‌ औपदेशिकधातूनां हल्‌-सन्धेः अवसरः तु अस्ति, विकरणप्रत्ययस्य अभावात्‌ | परन्तु तत्र धातवः परिगणिताः, अपि च एषां गणीय-धातूनाम्‌ अन्ते सर्वे हल्‌-वर्णाः न प्राप्यन्ते— अतः बहूनां हल्‌-वर्णानां सन्ध्यभ्यासः तत्र न लभ्यते | दृष्टान्ते यङ्लुकि पापठ्‌ इति ठकारान्तधातुः प्राप्तः, येन ठकारस्य हल्‌-सन्धि-अभ्यासः भवति | परन्तु अदादिगणे, जुहोत्यादिगणे, रुधादिगणे च कोऽपि ठकारन्तधातुः नास्ति | इत्थञ्च यङ्लुकि सुन्दररीत्या हल्‌-सन्धेः अभ्यासो भवति | यङ्लुगन्तधातूनाम्‌ अन्ते प्रायः सर्वे हल्‌-वर्णाः प्राप्यन्ते |</big>
 
 
<big>अत्र यङ्लुगन्तधातूनां तावत्‌ एव विषयः | यङ्लुगन्तधातुः कथं निर्मीयते इति भिन्नवार्ता— अग्रे गत्वा, अपरस्मिन्‌ पाठे तामपि प्रक्रियां करिष्यामः | किन्तु अधुना केवलं यङ्लुगन्तधातुम्‌ आदाय हल्‌-सन्धेः अभ्यासः क्रियते— अस्मिन्‌ पाठे अभ्यासार्थं बहुत्र यङ्लुगन्तधातूनाम्‌ उदाहरणानि दत्तानि |</big>
 
 
 
<big>लङ्‌-लकारस्य अपृक्तप्रत्यये परे इतोऽपि एकः प्रसङ्गः अस्ति यत्र हल्‌-सन्धेः अवसरः प्राप्यते | यदि गुणकार्येण वृद्धिकार्येण च कोऽपि धातुः हलन्तो भवति, तत्रापि लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययः चेत्यनयोः लोपः |</big>
 
 
<big>यथा—</big>
 
 
 
Line 262 ⟶ 286:
 
<big>धेयं यत्‌ अग्रिमेषु सर्वेषु स्थलेषु [a – g] कार्यं विहितं 'पदान्ते' यतः '''पदस्य''' (८.१.१६) इति सूत्रस्य अधिकारः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः ८.१.१७ - ८.३.५५ यावत्‌ | अत्र आहत्य पाठः सप्तसु विभागेषु विभक्तः—</big>
 
 
<big>a) पदान्ते संयोगः</big>
Line 282 ⟶ 307:
 
<big>1. पदस्य अन्ते संयोगोऽस्ति चेत्‌, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति |</big>
 
 
 
<big>'''संयोगान्तस्य लोपः''' (८.२.२३) = यस्य पदस्य अन्ते संयोगोऽस्ति, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः न तु पूर्णपदस्य | संयोगः अन्ते अस्ति यस्य तत्‌ संयोगान्तं, बहुव्रीहिः, तस्य संयोगान्तस्य | संयोगान्तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''संयोगान्तस्य पदस्य लोपः''' |</big>
Line 292 ⟶ 315:
 
<big>अबाबन्ध्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्''' (६.१.६७) इत्यनेन त्‌-लोपः → अबाबन्ध्‌ इति तिङन्तं संयोगान्तं पदम्‌ → '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन पदस्य अन्तिमवर्णस्य लोपः → अबाबन्‌</big>
 
 
<big>2. संयोगस्य प्रथमसदस्यः रेफः चेत्‌, रेफात्‌ परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न |</big>
 
 
 
Line 306 ⟶ 331:
 
<big>[अग्रे द्रक्ष्यामः यत्‌— अमार्ज्‌ → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन ज्‌-स्थाने षकारादेशः → अमार्ष्‌ → '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन पदान्ते जश्त्वम्‌ → अमार्ड्‌ → '''वाऽवसाने''' (८.४.५६) इत्यनेन विकल्पेन पदान्ते चर्त्वम्‌ → अमार्ट्‌]</big>
 
 
<big>यदाकदा प्रश्नः आयाति, सकारलोपस्य उदाहरणं किम्‌ ? एतादृशः धातुः प्रायः न स्यात्‌ यस्य अन्ते रेफसकारयोः संयोगः विद्यते | परन्तु सुबन्तेषु दृष्टान्तः लभ्यते | ऋकारान्त-सुबन्तानां पञ्चम्यन्तं रूपं षष्ठ्यन्तं रूपं च अनेन सिध्यति | यथा—</big>
 
 
 
<big>पितृ + ङस्‌ → अनुबन्धलोपे → पितृ + अस्‌ → '''ऋत उत्‌''' (६.१.१११) इत्यनेन ऋकारान्तात्‌ उत्तरयोः ङसिङसोः अति परे पूर्वपरयोः उकारः एकादेशः → पित्‌ + उ + स्‌ → '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन ऋ-स्थाने यः अण्‌, सः रपरः भवति → पित् + उर्‍ + स्‌ → '''रात्सस्य''' (८.२.२४) इत्यनेन स्‌-लोपः → पितुर् → '''खरवसानयोर्विसर्जनीयः''' इत्यनेन अवसाने र्‍-स्थाने विसर्गादेशः → पितुः</big>
 
 
<big>3. झलादि-प्रत्यये परे, रेफात्‌ परस्य छकारस्य वकारस्य च लोपो भवति</big>
 
 
 
<big>'''राल्लोपः''' (६.४.२१) = रेफात्‌ परस्य छकारस्य वकारस्य च लोपो भवति क्वि, झलादि-प्रत्ययः, अनुनासिकः च परे अस्ति चेत्‌ | रात्‌ पञ्चम्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यस्मात्‌ '''च्छ्वोः''' इत्यस्य अनुवृत्तिः; अत्र धेयं यत्‌ अनुवृत्तौ 'तक्‌-सहितः छकारः' सत्यपि व्याख्याने तुगागमो नापेक्षितः अतः न स्वीकृतः | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात्‌ '''अनुनासिकस्य, क्विझलोः''' इत्यनयोः अनुवृत्तिः* | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य रात्‌ च्छ्वोः लोपः अनुनासिके क्विझलोः''' |</big>
 
 
<big>मुर्छा → मुर्छ्‌-धातुः, यङ्लुकि मोमुर्छ्‌-धातुः—</big>
 
 
 
Line 323 ⟶ 354:
 
 
<big>अत्र '''अत्र राल्लोपः''' (६.४.२१) सर्वप्रथमं भवति परत्वात्‌ अङ्गकार्यत्वात् च | तदा एव सन्धिकार्यस्य त्‌-लोपः | '''राल्लोपः''' (६.४.२१) इत्यस्मात्‌ पूर्वं च इमे द्वे सूत्रे प्रसक्ते किन्तु '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन असिद्धे— '''उपधायां च''' (८.२.७८), '''संयोगान्तस्य लोपः''' (८.२.२३) च | '''उपधायां च''' (८.२.७८) इत्यनेन 'धातोः उपधाभूतयोः रेफवकारयोः हल्परयोः इकः दीर्घः स्यात्‌' | तस्य कृते पदसंज्ञा नापेक्षिता अपि तु धातु-संज्ञा एव अपेक्षिता | अत्र मोमुर्छ्‌ इति धातौ निमित्तानि सन्ति अतः प्रसक्तिः आसीत्‌, किन्तु '''राल्लोपः''' (६.४.२१) इति सूत्रं प्रति '''उपधायां च''' (८.२.७८) असिद्धं भवति |** '''संयोगान्तस्य लोपः''' (८.२.२३) इति सूत्रस्य कृते पदसंज्ञा अपेक्षिता; अमोमुर्छ्‌ + त्‌ इति स्थितौ तिप्‌ अस्ति अतः पदसंज्ञा अस्ति; पदान्ते च छकारतकारयोः संयोगः अस्ति अतः प्रसक्तिः आसीत्‌, किन्तु '''राल्लोपः''' (६.४.२१) इति सूत्रं प्रति '''संयोगान्तस्य लोपः''' (८.२.२३) असिद्धं भवति |</big>
 
 
<big>*'<nowiki/>'''अनुनासिकस्य, क्विझलोः''' इत्यनयोः अनुवृत्तिः' इत्युक्तम्‌ | काशिकायाम्‌ ''''अनुनासिकस्य'''<nowiki/>' इत्यस्य पर्युदासे ''''क्ङिति'''<nowiki/>' इत्यस्य अनुवृत्तिः दत्ता, सा च दोषाय | ''''क्ङिति'''<nowiki/>' स्वीक्रियते चेत्‌, 'अमोमुर्छ्‌ + त्‌' इति स्थितौ इष्टं रूपं न सिध्यति त्‌-प्रत्ययस्य पित्त्वात्‌ | अपि च ''''अनुनासिकस्य'''<nowiki/>' इत्यस्य अनुवृत्तिः अपेक्षिता एव | यथा—</big>
 
 
Line 348 ⟶ 379:
 
<big>अत्र प्रश्नः उदेति, अमोमुर्छ्‌ + त्‌ इति स्थितौ '''रात्सस्य''' (८.२.२४) इत्यपि आगत्य प्रसक्तं भूत्वा असिद्धम्‌ इति वा ? पदसंज्ञा अस्ति, पदान्ते संयोगोऽपि अस्ति | किन्तु अत्र पदान्ते कः संयोगः अस्ति ? छकारतकारयोः एव | भाष्यकारः प्रतिपादयति यत्‌ संयोगो भवति द्वयोः हल्वर्णयोरेव*** | अतः अत्र रेफछकारयोः संयोगः यद्यपि अस्ति तथापि पदान्ते न; अनेन कारणेन अत्र '''रात्सस्य''' (८.२.२४) इत्यस्य प्रसक्तिरेव नास्ति |</big>
 
 
 
<big>(***काशिकाकारो वदति यत्‌ तदधिकानामपि संयोगसंज्ञा भवति | किन्तु तथा कुर्मश्चेत्‌ कुत्रचित्‌ रूपं न सिध्यति | यथा अधः 'असन्‌' इति अवलोक्यताम्‌ | अतः महाभाष्ये यत्प्रतिपादितं, तदेव मन्तव्यम्‌ |)</big>
Line 355 ⟶ 384:
 
<big>[अग्रे अमोमोर्‍ → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशः → अमोमोः]</big>
 
 
 
<big>4. पदान्ते संयोगस्य प्रथमसदस्यः सकारः ककारो वा चेत्‌, संयोगस्य प्रथमसदस्यलोपो भवति |</big>
Line 362 ⟶ 389:
 
<big>'''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्‌, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स्‌ च क्‌ च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च''' |</big>
 
 
 
<big>यथा—</big>
Line 371 ⟶ 396:
 
<big>अबरीभ्रस्ज्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्''' (६.१.६७) इत्यनेन त्‌-लोपः → अबरीभ्रस्ज्‌ → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन सकारलोपः → अबरीभ्रज्‌</big>
 
 
 
<big>षस्ति → सन्स्त्‌ धातुः अदादिगणे |</big>
Line 381 ⟶ 404:
 
 
<big>अत्र कश्चन प्रश्नः उदेति, 'असन्स्त्‌' इति स्थित्यां पदान्ते '''संयोगान्तस्य लोपः''' (८.२.२३), '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९), इति द्वयोः अपि प्रसक्तिः | सूत्रद्वयं त्रिपाद्याम्‌, अतः किमर्थं न '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन परशास्त्रम्‌ असिद्धम्‌, असिद्धत्वात्‌ '''संयोगान्तस्य लोपः''' (८.२.२३) अत्र भवेत्‌ ? उत्तरम्‌ अस्ति यत्‌ पदान्ते, '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इति सूत्रं, '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यस्य अपवादः; यत्र पदान्तसंयोगे प्रथमसदस्यः सकारः ककारः च, तत्रापि '''संयोगान्तस्य लोपः''' (८.२.२३) भवति चेत्‌, पदान्ते स्कोः '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) निरवकाशं भवति | अतः अपवादत्वात्‌ पदान्ते अवसरे सति '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्येव प्रवर्तनीयं भवति | '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यस्यापि अपवादः |</big>
 
 
Line 391 ⟶ 414:
 
<big>पुनः अन्यप्रश्नः— '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन यः सकारलोपः, सः तु '''संयोगान्तस्य लोपः''' (८.२.२३) इयनेन न दृश्येत ननु कार्यासिद्धत्वात् ? उत्तरमस्ति यत्‌ तथा नास्ति यतोहि '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) अपवादत्वात्‌ प्रथमतया प्रवर्तितम्‌ | अपवादस्य बलेन तस्य कार्यं '''संयोगान्तस्य लोपः''' (८.२.२३) इयनेन दृश्यते एव | अत्र '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यस्य एव अपवादः अतः तस्य इह किमपि कार्यं नास्ति |</big>
 
 
 
<big>व्रश्च्‌ इति औपदेशिकधातुः | तस्य यङ्‌लुगन्तधातुः वाव्रश्च्‌ |</big>
Line 402 ⟶ 423:
 
 
<big>'''b)''' चवर्गान्तधातवः</big>
 
 
 
<big>1. चवर्गान्तधातूनाम्‌ अन्तिमचवर्गीयवर्णस्य स्थाने कवर्गीयादेशो भवति पदान्ते |</big>
Line 413 ⟶ 432:
 
<big>यथा— अवच्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्''' इत्यनेन त्‌-लोपः → अवच्‌ → '''चोः कुः''' इत्यनेन चवर्गस्य स्थाने कवर्गादेशः → अवक्‌</big>
 
 
<big>अतात्यज्‌ → चोः कुः इत्यनेन चवर्गस्य स्थाने कुत्वम्‌ → अतात्यग्‌</big>
 
 
 
Line 421 ⟶ 442:
 
<big>'''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) = व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌, छकारान्ताः शकारान्ताः चैषां धातूनाम्‌ अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श्‌ च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम्‌ | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र ''''जच्छशां'''<nowiki/>' इति भागे '''छे च''' (६.१.७३) इत्यनेन तुक्‌-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते, च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च''' |</big>
 
 
 
<big>यथा—</big>
 
<big>अवाव्रश्च्‌ + त् → त्‌-लोपः → अवाव्रश्च्‌ → '''स्कोः संयोगाद्योरन्ते च''' इत्यनेन सकारलोपः''' → अवाव्रच् → '''चोः कुः''' (८.२.३०) इत्यस्य प्रसक्तिः परन्तु तत्‌ प्रबाध्य षकारादेशो भवति → अवाव्रष्‌</big>
 
<big>तथैव—</big>
Line 447 ⟶ 466:
 
 
<big>'''c)''' <u>हकारान्तधातवः</u></big>
 
 
Line 456 ⟶ 475:
 
 
<big>पदान्ते लङि— अतृणेह्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्''' इत्यनेन त्‌-लोपः → अतृणेह्‌ → '''हो ढः''' इत्यनेन ढकारादेशः → अतृणेढ्‌</big>
 
 
 
<big>2. धातोरादौ दकारः, अन्ते हकारः चेत्‌, हकारस्थाने घकारादेशो भवति |</big>
Line 464 ⟶ 481:
 
<big>'''दादेर्धातोर्घः''' (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ट्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''दादेः धातोः हः घः झलि पदस्य अन्ते च''' |</big>
 
 
 
<big>यथा दुह प्रपूरणे अदादिगणे (लटि दोग्धि/दुग्धे)—</big>
Line 494 ⟶ 509:
 
<big>'''नहो धः''' (८.२.३४) = नह्‌-धातोः हकारस्य धकारादेशो भवति झलि पदान्ते च | नहः षष्ठ्यन्तं, धः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''' इत्यस्य अनुवृत्तिः | '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते, च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''नहः धातोः हः धः झलि पदस्य अन्ते च''' |</big>
 
 
 
<big>पदान्ते लङि— अनानह्‌ + त्‌ → अनानह्‌ → अनानध्‌</big>
Line 504 ⟶ 517:
 
<big>'''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' (८.२.३७) = ३४ → ४४</big>
 
 
<big>परिचयः— धातोः आदौ बश्‌ (ब, ग, ड, द) अपि च अन्ते झष्‌ (झ, भ, घ, ढ, ध), तस्य धातोः नाम एकाच्‌-बशादि-झषन्तधातुः | यथा बन्ध्‌-धातुः, बुध्‌-धातुः च | यदि उपर्युक्त-हकारान्तधातुसम्बद्ध-सूत्रैः हकारस्य स्थाने झषादेशः सञ्जातः (दृष्टान्ते— दुह्‌ → दुघ्‌) तर्हि सोऽपि तादृशो धातुः | एकाच्‌-बशादि-झषन्तधातोः आदौ स्थितस्य बशः स्थाने भषादेशो भवति (भ, घ, ढ, ध) सकारादि-प्रत्यये परे, ध्व-शब्दे परे, पदान्ते च | अतः वदामः यत्‌ '३४ → ४४' इत्युक्तौ यत्र धातोः आदौ वर्गस्य तृतीयसदस्यः (३), अन्ते च वर्गस्य चतुर्थसदस्यः (४), तत्र आदौ स्थितस्य तृतीयसदस्यस्य स्थाने चतुर्थसदस्यादेशो भवति (३ → ४) | आहत्य ३४ → ४४ इति विकारः | धेयं यत्‌ अयं बश्‌-वर्णः धातोः अन्तिम-अंशस्य आदौ अपि भवितुमर्हति | अनेन धातुः अनेकाच्‌ चेदपि, तस्य धातोः एकाच्‌-बशादि-झषन्तधात्वंशः अस्ति चेत्‌, अत्रापि ३४ → ४४ इति विकारो भवति |</big>
 
 
 
Line 518 ⟶ 533:
 
<big>'''e)''' सकारान्तधातवः</big>
 
 
 
<big>सकारान्तधातूनां पदत्वे सति, तिपि दत्वं सिपि रुत्वं दत्वं वा |</big>
Line 528 ⟶ 541:
 
<big>'''तिप्यनस्तेः''' (८.२.७३) = पदान्तस्य सकारस्य दकारादेशो भवति तिपि परे; परन्तु अस्‌-धातौ न भवति | इदं सूत्रं '''ससजुषो रुः''' (८.२.६६) इत्यस्य अपवादः | '''येनविधिस्तदन्तस्य''' (१.१.७२ ) इत्यनेन तदन्तविधिः; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णादेशः | न अस्तिः अनस्तिः, तस्य अनस्तेः | तिपि सप्तम्यन्तम्‌, अनस्तेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ससजुषोः रुः''' (८.२.६६) इत्यस्मात्‌ '''सः''' इत्यस्य अनुवृत्तिः | '''वसुस्रंसुध्वंस्वनडुहां दः''' (८.२.७२) इत्यस्मात्‌ '''दः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''सः पदस्य दः तिपि अनस्तेः''' |</big>
 
 
<big>अनेन सूत्रेण लङ्‌-लकारस्य त्‌-प्रत्यये परे सकारान्तपदस्य सकारस्य दकारादेशो भवति | यथा—</big>
 
 
 
Line 546 ⟶ 561:
 
<big>अनेन सूत्रेण लङ्‌-लकारस्य स्‌‌-प्रत्यये परे सकारान्तपदस्य सकारस्य स्थाने विकल्पेन दकारादेशः रुत्वं वा भवति | यथा—</big>
 
 
 
Line 556 ⟶ 572:
<big>प्रश्नः उदेति यत्‌ सिप्‌ यदा आगतः तदा कथं वा धातुसंज्ञा स्यात्‌ ? '''सिपि धातो रुर्वा''' (८.२.७४) इति सूत्रेण 'धातोः' अपि उक्तं, 'सिपि' अपि उक्तम्‌ | अत्र वार्ता एवं— कस्य भागस्य का संज्ञा ? 'वस + ति' इति स्थितौ 'वस' इति अङ्गस्य धातुसंज्ञा नास्ति; तत्र किन्तु 'वस्‌' इति अन्तर्निहितभागस्य धातुसंज्ञा तु तदानीमपि अस्त्येव | एवमेव सिपः विधानानन्तरमपि धातोः धातुसंज्ञा तिष्ठति | यथा 'अचकास्‌ + स्‌' इत्यत्र 'अचकास्‌ + स्‌' इत्यस्य पदसंज्ञा, 'अचकास्‌' इत्यस्य धातुसंज्ञा | तदा स्‌-प्रत्ययलोपानन्तरम्‌, 'अचकास्‌' इत्यस्य धातुसंज्ञा अपि भवति, पदसंज्ञा अपि भवति |</big>
 
<nowiki>***********************************************************************</nowiki>
 
<big>'''f)''' दकारान्तधातवः</big>
Line 583 ⟶ 598:
 
<big>'''g)''' <u>मकारान्तधातवः</u></big>
 
 
<big>मकारान्तानां पदत्वे सति, म्‌-स्थाने नकारः</big>
 
 
 
Line 614 ⟶ 631:
 
<big>'''वाऽवसाने''' (८.४.५६) = अवसाने झलः विकल्पेन चर्‍-आदेशो भवति | अनेन अवसानावस्थायां विकल्पेन जश्त्वं चर्त्वं वा | वा अव्ययपदम्‌, अवसाने सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां''' इत्यस्य अनुवृत्तिः | '''अभ्यासे चर्च''' (८.४.५४) इत्यस्मात्‌ '''चर्‍''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अवसाने झलां चरो वा''' |</big>
 
 
<big>कवर्गान्तधातुः— जश्त्वे गकारादेशः, चर्त्वे ककारादेशः | यथा अशाशक्‌ → जश्त्वे अशाशग्‌, चर्त्वे अशाशक्‌</big>
 
 
 
Line 627 ⟶ 646:
 
<big>टवर्गान्तधातुः— जश्त्वे डकारादेशः, चर्त्वे टकारादेशः | यथा अर्तृणेढ्‌ → (जश्त्वम्) अर्तृणेड्‌‌, (चर्त्वम्) अर्तृणेट्‌</big>
 
 
 
Line 633 ⟶ 653:
 
<big>अत्र प्रश्नः उदेति— यया रीत्या भू + शप्‌ → 'भव' इत्यस्य धातुसंज्ञा नास्ति, तया एव रीत्या रुध्‌ + श्नम्‌ → → 'अरुणध्‌' इत्यस्य धातुसंज्ञा अपि न स्यात्‌ किल ? अत्र '''तन्मध्यपतितस्तद्ग्रहणेन गृह्यते''' (८९) इति परिभाषया यस्य मध्ये पतितः तस्य ग्रहणम्‌ | इति कृत्वा धातुसंज्ञा भवत्येव |</big>
 
 
<big>दकारान्तधातुः— जश्त्वे दकारादेशः, चर्त्वे तकारादेशः, सिपि वा रुत्वम्‌ | यथा अमोमोद्‌ → (जश्त्वम्) अमोमोद्‌, (चर्त्वम्) अमोमोत्‌, (सिपि वा रुत्वम्‌) अमोमोः</big>
 
 
 
Line 659 ⟶ 681:
 
<big>इति हलन्तेभ्यो धातुभ्यो लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययश्चेत्यनयोः योजनविधिः |</big>
 
 
 
Line 682 ⟶ 705:
 
<big>यङ्‌लुकि—</big>
 
 
<big>लबि अवस्रंसने* भ्वादिगणे → लब्‌ → '''इदितो नुम धातोः''' (७.१.५८) → लन्ब्‌ → '''नश्चापदान्तस्य झलि''' (८.३.२४) → लंब्‌ → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → लम्ब्‌ → लटि → लम्ब्‌ + शप्‌ + ते → लम्ब + ते → लम्बते | अत्र लङि अलम्ब्‌ + अ + त → अलम्बत | हल्‌-सन्धेः अभ्यासस्य अवसरो नास्ति यतोहि अङ्गम्‌ अदन्तम्‌ |</big>
Line 710 ⟶ 734:
 
<big>३) '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन अलालम्ब्‌ → अलालम्‌ इति स्थितौ नैमित्तिकस्य अपायं न कुर्मः चेदपि '''मो नो धातोः''' (८.२.६४) इति अपि त्रिपाद्यां पूर्वत्रिपादिसूत्रम्‌ | '''नश्चापदान्तस्य झलि''' (८.३.२४) च '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनयोः कार्यमेव न पश्यति | '''इदितो नुम धातोः''' (७.१.५८) इत्यनेन व्युत्पन्नं नकारमेव पश्यति, अलालन्‌ | '''मो नो धातोः''' (८.२.६४), 'अलालन्‌' इति रूपं दृष्ट्वा किमपि न करोति |</big>
 
 
<big>अतः कया अपि दृष्ट्या अनुस्वारादेशः च मकारादेशः च न भवतः | अन्ततो गत्वा क्रमः अयमेव—</big>
Line 723 ⟶ 748:
 
<big>*अत्र '''पूर्वत्रासिद्धम्‌''' इत्यनेन '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यत्र शास्त्रासिद्धम्‌ |</big>
 
 
<big>प्रच्छ्‌ → पाप्रच्छ्‌</big>
Line 773 ⟶ 799:
 
 
<big>अत्र कश्चन प्रश्नः उदेति यत्‌ '''रो रि''' (८.३.१४) त्रिपादिसूत्रं, '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) च सपादसप्ताध्याय्याम्‌ इति कारणतः '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन '''रो रि''' (८.३.१४) इत्यस्य कार्यम्‌ असिद्धं न भवति किम्‌ ? अत्र सिद्धान्तः कार्यं करोति '''आश्रयात्‌ सिद्धत्वम्''' | यावत्‌ पर्यन्तं '''रो रि''' (८.३.१४) न स्यात्‌, तावत्‌ पर्यन्तं '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्य रेफनिमित्तकप्रसक्तिर्न भविष्यति एव | '''रो रि''' (८.३.१४) इत्यस्य आश्रयेण '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्य कार्यं सिध्यति | '''रो रि''' (८.३.१४) नास्ति चेत्‌ '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) निरवकाशं भवति | '''रो रि''' (८.३.१४) इति सूत्रं त्यक्त्वा ''''ढ्रलोपे'''<nowiki/>' इत्यस्य रेफनिमित्तकत्वं निरर्थकम्‌ | किमर्थं न '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इति सूत्रं '''रो रि''' (८.३.१४) इत्यस्य अनन्तरंम्‌ अष्टाध्याय्यां स्थाप्येत इति चेत्‌, '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्य 'दीर्घ'-शब्दस्य अनुवृत्तिः आवश्यकी ६.३.११२ इत्यस्मात्‌ आरभ्य ६.४.१८ इति यावत्‌ |</big>
 
 
<big>तुर्वी → तोतुर्व्‌</big>
deletepagepermission, page_and_link_managers, teachers
1,046

edits