6---sArvadhAtukaprakaraNam-anadantam-aGgam/08---dhAtupAThe-hal-sandhiH-1: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/08---dhAtupAThe-hal-sandhiH-1 (view source)
Revision as of 16:57, 8 June 2021
, 2 years agono edit summary
No edit summary |
No edit summary |
||
Line 144:
<big>समग्रदृष्ट्या अस्य सूत्रस्य प्रसक्तिः कुत्र ?</big>
<big>(१) हलन्तधातुतः लङ्-लकारस्य सि, ति च प्रत्यययोः परयोः | अत्र स्, त् इत्यनयोः लोपो भवति |</big>
Line 307 ⟶ 309:
<big>1. पदस्य अन्ते संयोगोऽस्ति चेत्, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति |</big>
<big>'''संयोगान्तस्य लोपः''' (८.२.२३) = यस्य पदस्य अन्ते संयोगोऽस्ति, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः न तु पूर्णपदस्य | संयोगः अन्ते अस्ति यस्य तत् संयोगान्तं, बहुव्रीहिः, तस्य संयोगान्तस्य | संयोगान्तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''संयोगान्तस्य पदस्य लोपः''' |</big>
Line 379 ⟶ 383:
<big>अत्र प्रश्नः उदेति, अमोमुर्छ् + त् इति स्थितौ '''रात्सस्य''' (८.२.२४) इत्यपि आगत्य प्रसक्तं भूत्वा असिद्धम् इति वा ? पदसंज्ञा अस्ति, पदान्ते संयोगोऽपि अस्ति | किन्तु अत्र पदान्ते कः संयोगः अस्ति ? छकारतकारयोः एव | भाष्यकारः प्रतिपादयति यत् संयोगो भवति द्वयोः हल्वर्णयोरेव*** | अतः अत्र रेफछकारयोः संयोगः यद्यपि अस्ति तथापि पदान्ते न; अनेन कारणेन अत्र '''रात्सस्य''' (८.२.२४) इत्यस्य प्रसक्तिरेव नास्ति |</big>
<big>(***काशिकाकारो वदति यत् तदधिकानामपि संयोगसंज्ञा भवति | किन्तु तथा कुर्मश्चेत् कुत्रचित् रूपं न सिध्यति | यथा अधः 'असन्' इति अवलोक्यताम् | अतः महाभाष्ये यत्प्रतिपादितं, तदेव मन्तव्यम् |)</big>
<big>[अग्रे अमोमोर् → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशः → अमोमोः]</big>
<big>4. पदान्ते संयोगस्य प्रथमसदस्यः सकारः ककारो वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति |</big>
Line 396 ⟶ 404:
<big>अबरीभ्रस्ज् + त् → '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' (६.१.६७) इत्यनेन त्-लोपः → अबरीभ्रस्ज् → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन सकारलोपः → अबरीभ्रज्</big>
<big>षस्ति → सन्स्त् धातुः अदादिगणे |</big>
Line 414 ⟶ 423:
<big>पुनः अन्यप्रश्नः— '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन यः सकारलोपः, सः तु '''संयोगान्तस्य लोपः''' (८.२.२३) इयनेन न दृश्येत ननु कार्यासिद्धत्वात् ? उत्तरमस्ति यत् तथा नास्ति यतोहि '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) अपवादत्वात् प्रथमतया प्रवर्तितम् | अपवादस्य बलेन तस्य कार्यं '''संयोगान्तस्य लोपः''' (८.२.२३) इयनेन दृश्यते एव | अत्र '''पूर्वत्रासिद्धम्''' (८.२.१) इत्यस्य एव अपवादः अतः तस्य इह किमपि कार्यं नास्ति |</big>
<big>व्रश्च् इति औपदेशिकधातुः | तस्य यङ्लुगन्तधातुः वाव्रश्च् |</big>
Line 424 ⟶ 434:
<big>'''b)''' चवर्गान्तधातवः</big>
<big>1. चवर्गान्तधातूनाम् अन्तिमचवर्गीयवर्णस्य स्थाने कवर्गीयादेशो भवति पदान्ते |</big>
Line 442 ⟶ 454:
<big>'''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) = व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्, छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श् च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम् | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र ''''जच्छशां'''<nowiki/>' इति भागे '''छे च''' (६.१.७३) इत्यनेन तुक्-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | '''झलो झलि''' (८.२.२६) इत्यस्मात् '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात् '''अन्ते, च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च''' |</big>
<big>यथा—</big>
Line 476 ⟶ 489:
<big>पदान्ते लङि— अतृणेह् + त् → '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' इत्यनेन त्-लोपः → अतृणेह् → '''हो ढः''' इत्यनेन ढकारादेशः → अतृणेढ्</big>
<big>2. धातोरादौ दकारः, अन्ते हकारः चेत्, हकारस्थाने घकारादेशो भवति |</big>
<big>'''दादेर्धातोर्घः''' (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ट्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''हो ढः''' (८.२.३१) इत्यस्मात् '''हः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात् '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''दादेः धातोः हः घः झलि पदस्य अन्ते च''' |</big>
<big>यथा दुह प्रपूरणे अदादिगणे (लटि दोग्धि/दुग्धे)—</big>
Line 509 ⟶ 525:
<big>'''नहो धः''' (८.२.३४) = नह्-धातोः हकारस्य धकारादेशो भवति झलि पदान्ते च | नहः षष्ठ्यन्तं, धः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''हो ढः''' (८.२.३१) इत्यस्मात् '''हः''' इत्यस्य अनुवृत्तिः | '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात् '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात् '''अन्ते, च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''नहः धातोः हः धः झलि पदस्य अन्ते च''' |</big>
<big>पदान्ते लङि— अनानह् + त् → अनानह् → अनानध्</big>
<big>'''d)''' <u>भष्-भावः</u></big>
Line 532 ⟶ 550:
<big>'''e)''' <u>सकारान्तधातवः</u></big>
<big>सकारान्तधातूनां पदत्वे सति, तिपि दत्वं सिपि रुत्वं दत्वं वा |</big>
Line 573 ⟶ 593:
<big>'''f)''' <u>दकारान्तधातवः</u></big>
Line 817 ⟶ 837:
<big>Swarup – Sept 2013 (Updated April 2015 & May 2018)</big>▼
<big>[https://static.miraheze.org/samskritavyakaranamwiki/0/06/%E0%A5%AE_-_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A5%8D_-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83_%E0%A5%A7.pdf ८ - धातुपाठे हल्-सन्धिः १.pdf] (132k) Swarup Bhai, Jul 23, 2019, 11:25 PM v.1</big>
▲<big>Swarup – Sept 2013 (Updated April 2015 & May 2018)</big>
|