6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2: Difference between revisions

Copy-paste the 1/3rd of the google site page, Inserting the hyperlinks and spacing between the lines.
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती)
 
(Copy-paste the 1/3rd of the google site page, Inserting the hyperlinks and spacing between the lines.)
Line 1:
<big>ध्वनिमुद्रणानि -</big>
<please replace this with content from corresponding Google Sites page>
 
<big>2018 वर्गः</big>
 
<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/119_dhatupathe-hal-sandhih-1---abhyasah___dhatupathe-hal-sandhih-2---paricayah_2018-05-30.mp3 dhAtupAThe-hal-sandhiH-1---abhyAsaH_वरीवृत्‌ → चरीकृष्‌_+_dhAtupAThe-hal-sandhiH-2---paricayaH_2018-05-30]</big>
 
<big>२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/120_dhatupathe-hal-sandhih-1-----__dhatupathe-hal-sandhih-2---kakara-cakarantadhatavah_2018-06-06.mp3 dhAtupAThe-hal-sandhiH-1---रो रि-ढ्रलोपे पूर्वस्य दीर्घोऽणः-पूर्वत्रासिद्धम्‌_+_dhAtupAThe-hal-sandhiH-2---kakAra-cakArAntadhAtavaH_2018-06-06]</big>
 
<big>३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/121_dhatupathe-hal-sandhih-2---sadipratyayePare--cavarga-tavarga-tavarga-pavarga-y-v-l-r-s-sh-sh_2018-06-13.mp3 dhAtupAThe-hal-sandhiH-2---sAdipratyaye pare--cavarga-Tavarga-tavarga-pavarga-y-v-l-r-s-sh-Sh_2018-06-13]</big>
 
<big>४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/122_dhatupathe-hal-sandhih-2---sadipratyayePare--vakaranta-cintanam__hakarantah__abhyasah_2018-06-20.mp3 dhAtupAThe-hal-sandhiH-2---sAdipratyaye pare--vakArAnta-cintanam_+_hakArAntAH_+_abhyAsaH_2018-06-20]</big>
 
<big>५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/123_dhatupathe-hal-sandhih-2---..-__sadipratyayePare_abhyasah_2018-06-27.mp3 dhAtupAThe-hal-sandhiH-2---च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रे क्ङिति-?_+_sAdipratyaye pare_abhyAsaH_2018-06-27]</big>
 
<big>६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/124_dhatupathe-hal-sandhih-2---..-__tuk-sahita-chakarah_2018-07-04.mp3 dhAtupAThe-hal-sandhiH-2---च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रे क्ङिति-?_+_tuk-sahita-chakAraH_2018-07-04]</big>
 
<big>७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/125_dhAtupAThe-hal-sandhiH-2---abhyAsaH__dhAtupAThe-hal-sandhiH-3---paricayaH_2018-07-11.mp3 dhAtupAThe-hal-sandhiH-2---abhyAsaH_+_dhAtupAThe-hal-sandhiH-3---paricayaH_2018-07-11]</big>
 
 
<big>2015 वर्गः -</big>
 
 
<big>1. [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/38_dhAtupAThe_hal-sandhiH---apadAnte-sakArAdi-pratyaye-pare_2015-05-13.mp3 dhAtupAThe_hal-sandhiH---apadAnte-sakArAdi-pratyaye-pare_2015-05-13]</big>
 
<big>2. [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/73_dhAtupAThe-hal-sandhiH-2_cintanam-abhyAsaH-ca_2016-06-19.mp3 dhAtupAThe-hal-sandhiH-2_cintanam-abhyAsaH-ca_2016-06-19]</big>
 
 
<big>यथा उक्तं गते पाठे, यावन्तः प्रत्ययाः धातुभ्यः विहिताः सन्ति, ते सर्वे आरभ्यन्ते एभिः अच्‌-वर्णैः (नाम अ, आ, इ, ई, उ, ऊ, ए, ऐ इत्येभिः) अथवा एभिः हल्‌-वर्णैः— य्‌, र्‍ / व्‌, म्‌, न्‌ / त्‌, थ्‌, ध्‌, स् | यदा प्रत्ययः अज्भिः वर्णैः आरभ्यते अथवा य्‌, र्‍ इत्येभिः हल्‌-वर्णैः आरभ्यते, तदा धातुः हलन्तः चेदपि हल्‌-सन्धिः न भवति (केवलं वर्ण-सम्मेलनं भवति) | धातुः हलन्तः अस्ति चेत्‌ अथवा प्रक्रियायां हलन्तः भवति (यथा धा-धातुः, दधा + तः → दध्‌ + तः → धत्तः), अपि च प्रत्ययः त्‌, थ्‌, ध्‌, स् इत्येभिः वर्णैः आरभ्यते, तस्यां दशायां हल्‌-सन्धिः प्रचुरः लभ्यते | व्‌, म्‌, न् इत्येभिः वर्णैः आरभ्यते चेत्‌, विशिष्टस्थलेषु लभ्यते | सन्धिः नाम यत्र द्वयोः वर्णयोः मेलनेन वर्णविकारः भवति | हल्‌-सन्धिः नाम यत्र द्वयोः हल्‌-वर्णयोः मेलनेन वर्णविकारः भवति, इति तु जानीमः |</big>
 
 
<big>सम्प्रति चत्वारः पाठाः क्रियमाणास्सन्ति येषु हलन्तेभ्यो धातुभ्यः कथं तकारादिप्रत्ययाः, थकारादिप्रत्ययाः, धकारादिप्रत्ययाः, सकारादिप्रत्ययाश्च संयुज्यन्ते इति परिशील्यमानम्‌ | चतुर्षु पाठेषु, अयं पाठो द्वितीयः |</big>
 
 
<big>A. विधयः चतुर्षु विभागेषु विभक्तः</big>
 
 
<big>१. हलन्तेभ्यो धातुभ्यो लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययश्चेत्यनयोः योजनविधिः</big>
 
<big>२. हलन्तेभ्यो धातुभ्यस्‌ सकारादिप्रत्ययानां योजनविधिः (लङ्‌-लकारस्य स्‌-प्रत्ययम्‌ अतिरिच्य)</big>
 
<big>३. हलन्तेभ्यो धातुभ्यस्‌ तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्‌-लकारस्य त्‌-प्रत्ययम्‌ अतिरिच्य)</big>
 
<big>४. हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः</big>
 
 
<big>तर्हि चतुर्षु अयं पाठः द्वितीयः | अत्र हलन्तेभ्यो धातुभ्यस्‌ सकारादिप्रत्ययानां योजनविधिः अवलोक्यमानः (लङ्‌-लकारस्य स्‌-प्रत्ययम्‌ अतिरिच्य) इति | अत्र मार्गः षट्‌प्रकारकः—</big>
 
 
<big>B. हलन्तधातुभ्यः सादिप्रत्ययः चेत्‌ अधः प्रदर्शिताः सम्भावनाः</big>
 
 
<big>एषु सर्वत्र स्मरणीयं यत्‌— (१) सकारः खर्‍-प्रत्याहारे अस्ति, अतः बहुत्र '''खरि च''' (८.४.५५) इत्यनेन चर्त्वसन्धेः प्रसङ्गः; (२) सकारः झल्‌-प्रत्याहारे अस्ति, अतः यत्र यत्र 'झलि' इति सूत्रेषु अनुवर्तते, तत्र तत्र सकारे परे तस्य प्रसङ्गः |</big>
 
 
<big>१. धातोरन्तिमो वर्णः क्‌, ख्‌, ग्‌, घ्‌; च्‌, छ्‌, ज्‌, झ्‌; श्‌, ष्‌ एषु अन्यतमः चेत्‌‌, तस्य वर्णस्य स्थाने ककारो भवति | ('''खरि च''' इत्यनेन, '''चोः कुः''' इत्यनेन च | शकारषकारयोः कृते '''षढोः कः सि''') | अपि च नह्‌-धातुम्‌ अतिरिच्य हकारस्यापि ककारः भवति |</big>
 
<big>२. धातोरन्तिमो वर्णः ट्‌, ठ्‌, ड्‌, ढ्‌ एषु अन्यतमश्चेत्‌‌, तर्हि तस्य वर्णस्य स्थाने टकारो भवति ('''खरि च''' इत्यनेन), तदा सकारस्य ष्टुत्वम्‌ |</big>
 
<big>३. धातोरन्तिमो वर्णः त्‌, थ्‌, द्‌, ध्‌ एषु अन्यतमश्चेत्‌‌, तर्हि तस्य वर्णस्य स्थाने तकारो भवति | ('''खरि च''' इत्यनेन |)</big>
 
<big>४. धातोरन्तिमो वर्णः प्‌, फ्‌, ब्‌, भ्‌ एषु अन्यतमश्चेत्‌‌, तर्हि तस्य वर्णस्य स्थाने पकारो भवति | ('''खरि च''' इत्यनेन |)</big>
 
<big>५. धातोरन्तिमो वर्णः न्‌‍, म्‌ अनयोः अन्यतमश्चेत्‌, तर्हि तस्य वर्णस्य स्थाने अनुस्वारो भवति | ('''नश्चापदान्तस्य झलि''' इत्यनेन |)</big>
 
<big>६. धातोरन्तिमो वर्णः यकारः चेत्‌ तस्य लोपः '''लोपो व्योर्वलि''' (६.१.६६) इति सूत्रेण | वकारान्तस्य हल्‌-सन्धि-अवसरो नास्ति |</big>
 
<big>७. धातोरन्तिमो वर्णः लकारो वा रेफो वा चेत्‌, तस्य विकारः नास्ति |</big>
 
<big>८. धातोरन्तिमो वर्णः सकारश्चेत्‌, सार्वधातुकप्रत्यये परे केवलं वर्णमेलनम्‌‌; आर्धधातुकप्रत्यये परे धात्वङ्गसकारस्य तकारादेशो भवति | ('''सः स्यार्धधातुके''' इत्यनेन |)</big>
 
<big>९. धातोरन्तिमो वर्णः हकारश्चेत्‌, नह्‌-धातुम्‌ अतिरिच्य हकारस्य ककारः | ('''हो ढः''' + '''षढोः कः सि''' अथवा '''दादेर्धातोर्घः''' + '''खरि च''' |)</big>
 
 
<big>C. कवर्गः, चवर्गः, षकारः, शकारः</big>
 
 
<big>धातोः अन्तिमो वर्णः क्‌, ख्‌, ग्‌, घ्‌; च्‌, छ्‌, ज्‌, झ्‌; श्‌, ष् एषु अन्यतमः चेत्‌‌, तर्हि सादिप्रत्यये परे तस्य वर्णस्य स्थाने ककारो भवति | अपि च सादिप्रत्ययस्य सकारस्य स्थाने षकारादेशो भवति '''आदेशप्रत्यययोः''' (८.३.५९) इति सूत्रेण | तदा ककारषकारयोः मेलनेन क्ष्‌ इति भवति |</big>
 
 
<big>शक्‌ + स्यति → शक्‌ + ष्यति → शक्ष्यति</big>
 
<big>लेलेख्‌ + सि → लेलेक् + षि → लेलेक्षि</big>
 
<big>तात्वङ्ग्‌‌‌ + सि → तात्वङ्क्‌‌ + षि → तात्वङ्क्षि</big>
 
<big>जाघघ्‌‌ + सि → जाघक्‌ + षि → जाघक्षि</big>
 
<big>लालङ्घ् + सि → लालङ्क्‌‌ + षि → लालङ्क्षि</big>
 
<big>वच्‌ + सि → वक्‌ + षि → वक्षि</big>
 
<big>प्रच्छ्‌ + स्यति → प्रक्‌ + ष्यति → प्रक्ष्यति</big>
 
<big>योज्‌ + स्यति → योक्‌ + ष्यति → योक्ष्यति</big>
 
<big>याझर्झ्‌ + सि → याझर्क्‌ + षि → याझर्क्षि</big>
 
<big>क्रोश्‌ + स्यति → क्रोक्‌ + ष्यति → क्रोक्ष्यति</big>
 
<big>कर्ष्‌ + स्यति → कर्क्‌ + ष्यति → कर्क्ष्यति</big>
 
<big>१. क्‌, ख्‌, ग्‌, घ्‌ → क्‌</big>
 
<big>प्रत्ययस्य प्रथमवर्णः त्‌, थ्‌, ध्‌, स्‌ चेत्‌ हल्‌-सन्धिः भवतीति उक्तम्‌ | तेषु वर्णेषु त्‌, थ्‌, स्‌ च खर्‍-प्रत्याहारे सन्ति, अतः तेषु वर्णेषु परेषु '''खरि च''' इत्यनेन चर्त्वसन्धिः (तत्तत्‌ वर्गस्य प्रथमादेशो) भवति | अत्र सादिप्रत्ययः परः अस्ति, अतः चर्त्वसन्धिः भवतु |</big>
 
<big>तस्मात्‌ पूर्वं किन्तु '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन कवर्गीयवर्णात्‌ परस्य प्रत्ययावयवस्य सकारस्य षत्वादेशः | ('''खरि च''' (८.४.५५) तदपेक्षया परत्रिपादिसूत्रम्‌ अतः असिद्धम्‌ |)</big>
 
<big>यथा—</big>
 
<big>त्यग्‌ + स्यति → '''आदेशप्रत्ययोः''' → त्यग्‌ + ष्यति</big>
 
<big>घोग्‌ + सि → '''आदेशप्रत्ययोः''' → घोग्‌ + षि</big>
 
<big>'''आदेशप्रत्यययोः''' (८.३.५९) = इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तस्य सकारस्य स्थाने षकारादेशो भवति | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं '''स्थानेऽन्तरतमः''' इत्यनेन ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्‌, अतः षकारः एव आदिष्टः भवति | नुम्‌, विसर्गः, शर्‍-प्रत्याहारस्थ-वर्णः एषु अन्यतमः मध्ये अस्ति चेदपि कार्यं भवति | इण्‌-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | अस्य कार्यस्य नाम षत्वविधिः | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम्‌ एकपदमिदं सूत्रम्‌ | '''सहे साडः सः''' (८.३.५६) इत्यस्मात्‌ '''सः''' इत्यस्य अनुवृत्तिः | '''नुंविसर्जनीयशर्व्यवायेऽपि''' (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्‌''' इत्यस्य अधिकारः | '''इण्कोः''' (८.३.५७), '''अपदान्तस्य''' '''मूर्धन्यः''' (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—'''इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां,''' '''नुंविसर्जनीयशर्व्यवायेऽपि'''* |</big>
 
<big>सम्प्रति '''खरि च''' (८.४.५५) इत्यनेन चर्त्वादेशः—</big>
 
<big>त्यग्‌ + ष्यति → त्यक्‌ + ष्यति → त्यक्ष्यति</big>
 
<big>घोग्‌ + षि → घोक्‌ + षि → घोक्षि</big>
 
<big>'''खरि च''' (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां''' इत्यस्य अनुवृत्तिः; '''अभ्यासे चर्च''' (८.४.५४) इत्यस्मात्‌ '''चर्च''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''झलां चर्‍‌ खरि च''' '''संहितायाम् ‌'''|</big>
 
<big>अन्यानि उदाहरणानि—</big>
 
<big>शशक्‌ + सि → शशक्‌ + षि‌ → शशक्षि</big>
 
<big>लेलेख्‌ + सि → लेलेख्‌ + षि → लेलेक्‌ + षि → लेलेक्षि</big>
 
<big>तात्वङ्ग्‌ + सि → तात्वङ्ग्‌ + षि → तात्वङ्क्‌ + षि → तात्वङ्क्षि</big>
 
<big>जाघग्‌ + सि → जाघग्‌ + षि → जाघक्‌ + षि → जाघक्षि</big>
 
<big>लालङ्घ्‌ + सि → लालङ्घ्‌ + षि → लालङ्क्‌ + षि → लालङ्क्षि</big>
 
<big>*प्रश्नः उदेति यत्‌ नुम्‌, विसर्गः, शर्‍ व्यवाये चेदपि षत्वमित्यस्य दृष्टान्तः कः ?</big>
 
<big>व्यवाये नुम्‌ इत्यस्य दृष्टान्ताः एते— सर्पींषि, यजूंषि, हवींषि | सर्पिस्‌ (घृतं), यजुस्‌ (पूजा), हविस्‌ (हव्यम्‌) इति प्रातिपदिकानि | अत्र बोध्यं कथं निष्पन्नं सर्पिस्‌ इति प्रातिपदिकम्‌ | सृप गतौ, लटि सर्पति | सृप्-धातुः + इसि इति उणादिप्रत्ययः | सृप + इसि → अनुबन्धलोपे → सृप्‌ + इस्‌ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणः → सर्पिस्‌ इति प्रातिपदिकम्‌ | नपुंसके प्रथमाविभक्तौ बहुवचने सर्पिस्‌ + इ → नुम्‌-आगमः → सर्पिंस्‌ + इ → → नुम्‌-व्यवायेऽपि षत्वम्‌ → सर्पींषि | अतः अयं सकारः प्रत्ययस्य एव | एवमेव यजूंषि, हवींषि |</big>
 
<big>व्यवाये विसर्गस्य दृष्टान्ताः एते— सर्पिःषु, यजुःषु, हविःषु | नपुंसके सप्तमीविभक्तौ बहुवचने सर्पिस्‌ + सुप्‌ → सर्पिस्‌ इत्यस्य सकारस्य विसर्गादेशः, विसर्गस्य व्यवायेऽपि षत्वम्‌ → सर्पिःषु | एवमेव यजुःषु, हविःषु |</big>
 
<big>व्यवाये शर्‌-प्रत्याहारस्य दृष्टान्ताः एते— सर्पिष्षु, यजुष्षु, हविष्षु | नपुंसके सप्तमीविभक्तौ बहुवचने सर्पिस्‌ + सुप्‌ → '''वा शरि''' (८.३.३६) इत्यनेन विकल्पेन विसर्गादेशः; पक्षे सकार एव → सकारपक्षे सकारस्य व्यवायेऽपि षत्वम्‌ → सर्पिस्‌ + षु → '''ष्टुना ष्टुः''' (८.४.४१) → सर्पिष्षु | एवमेव यजुष्षु, हविष्षु |</big>
 
<big>२. च्‌, छ्‌, ज्‌, झ्‌ → क्‌</big>
 
<big>'''चोः कुः''' (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''चोः कुः झलि पदस्य अन्ते च''' |</big>
 
<big>गते पाठे अस्य सूत्रस्य प्रयोगः अस्माभिः दृष्टः पदान्ते, लङ्‌-लकारप्रसङ्गे | परन्तु झलि अपि भवति इत्युक्तम्‌ | सकारः झलि अस्ति, अतः अत्रापि इदं कार्यं प्रसक्तम्‌ | [त्‌, थ्‌, ध्‌, स्‌ एते सर्वे हल्‌-सन्धिनिमित्तकवर्णाः झलि सन्ति |]</big>
 
<big>'''चोः कुः''' इत्यनेन सकारे परे कुत्वं विहितम्‌—</big>
 
<big>च्‌ → क्‌</big>
 
<big>छ्‌ → ख्‌‌</big>
 
<big>ज्‌ → ग्‌</big>
 
<big>झ्‌ → घ्‌</big>
 
<big>चकारस्य प्रकारद्वयम्‌—</big>
 
<big>अ) सामान्यम्‌ = '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌</big>
 
<big>वच्‌ + स्यति → '''चोः कुः''' (८.२.३०) → वक्‌ + स्यति → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम्‌ → वक्‌ + ष्यति → वक्ष्यति</big>
 
<big>आ) व्रश्च्‌-धातुः</big>
 
<big>अत्र '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्‌ |</big>
 
<big>वाव्रश्च्‌ + सि‌ → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन संयोगे पूर्वसकारलोपः → वाव्रच्‌ + सि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्‌ → वाव्रष्‌ + सि → '''षढोः कः सि''' (८.२.४१) इत्यनेन सकारे परे षकारस्य ककारादेशः → वाव्रक्‌ + सि → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम्‌ → वाव्रक्षि</big>
 
<big>प्रश्नः उदेति कथं '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन शकारलोपः यदा सूत्रेण सकारलोपस्य विधानम्‌ | सामान्यतया वदामः यत्‌ 'वस्तुतः अत्र मूले सकारः आसीत्‌; श्चुत्वसन्धिना एव शकारः जातः' | अस्तु, तत्तु सत्यं; किन्तु अधुना शकारः अस्ति किल न तु सकारः | इति चेत्‌ कथं वा '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन सकारलोपः स्यात्‌ ? '''अकृतव्यूहाः पाणिनीयाः''' (५६) इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम्‌ इत्यस्मात्‌ '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन श्चुत्वसन्धेः निमित्तचकारस्य जायमानात्‌ नाशात्‌ '''स्तोः श्चुना श्चुः''' (८.४.४०) इति सूत्रं न प्रवर्तनीयमेव | अतः स्कारः तिष्ठति | वाव्रस्च्‌ + सि‌ → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) → वाव्रच्‌ + सि |</big>
 
<big>'''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्‌, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स्‌ च क्‌ च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च''' |</big>
 
<big>'''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) = व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌, छकारान्ताः शकारान्ताः चैषां धातूनाम्‌ अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श्‌ च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम्‌ | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र ''''जच्छशां'''<nowiki/>' इति भागे '''छे च''' (६.१.७३) इत्यनेन तुक्‌-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' '''झलि पदस्य अन्ते च''' |</big>
 
<big>'''षढोः कः सि''' (८.२.४१) = षकारस्य ढकारस्य च ककारादेशो भवति सकारे परे | '''ष्टुना ष्टुः''' (८.४.४१) इत्यस्य अपवादः | षश्च ढश्च तयोः इतरेतरद्वन्द्वः षढौ, तयोः षढोः | षढोः षष्ठ्यन्तं, कः प्रथमान्तं, सि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— '''षढोः कः सि''' |</big>
 
<big>छकारस्य प्रकारद्वयम्‌—</big>
 
<big>अ) सामान्यम्‌ = '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन शत्वं, तदा '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्‌</big>
 
<big>पाप्रच्छ्‌ + सि → '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) → पाप्रश्‌ + सि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) → पाप्रष्‌ + सि → '''षढोः कः सि''' (८.२.४१) → पाप्रक्‌ + सि → पाप्रक्‌ + षि → पाप्रक्षि</big>
 
<big>'''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) = तुक्‌-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्‌-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ्‌ च व्‌ च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श्‌ च ऊठ्‌ च तयोः समाहारद्वन्द्वः शूड्‌ | '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड्‌ प्रथमान्तम्‌, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात्‌ '''क्विझलोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''च्छ्वोः अङ्गस्य शूड्‌''' '''क्विझलोः''' '''अनुनासिके च''' |</big>
 
<big>आ) रेफपूर्वक-छकारान्तधातुः = '''राल्लोपः''' (६.४.२१) इत्यनेन छकारलोपः</big>
 
<big>मोमुर्छ्‌ + सि → '''राल्लोपः''' (६.४.२१) इत्यनेन झलादि-प्रत्यये छकारलोपः → मोमुर्‍ + सि → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधा-गुणः → मोमोर्‍ + सि → षत्वम्‌ → मोमोर्षि</big>
 
<big>'''राल्लोपः''' (६.४.२१) = रेफात्‌ परस्य छकारस्य वकारस्य च लोपो भवति क्वि, झलादि-प्रत्ययः, अनुनासिकः च परे अस्ति चेत्‌ | रात्‌ पञ्चम्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इत्यस्मात्‌ '''च्छ्वोः''' इत्यस्य अनुवृत्तिः; अत्र धेयं यत्‌ अनुवृत्तौ 'तक्‌-सहितः छकारः' सत्यपि व्याख्याने तुगागमो नापेक्षितः अतः न स्वीकृतः | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात्‌ '''अनुनासिकस्य''', '''क्विझलोः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य रात्‌ च्छ्वोः''' '''लोपः अनुनासिके क्विझलोः''' |</big>
 
<big>जकारस्य प्रकारद्वयम्‌—</big>
 
<big>अ) सामान्यम्‌ = '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌</big>
 
<big>त्यज्‌ + स्यति → '''चोः कुः''' (८.२.३०) इत्यनेन सकारे (झलि) परे कुत्वम् → त्यग्‌ + स्यति → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम्‌ → त्यग्‌ + ष्यति → '''खरि च''' (८.४.५५) इत्यनेन चर्त्वं → त्यक्‌ + ष्यति → त्यक्ष्यति</big>
 
<big>योज्‌ + स्यति → योग्‌ + स्यति → योग्‌ + ष्यति → योक्‌ + ष्यति → योक्ष्यति</big>
 
<big>आ) भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌ इत्येषां षत्वम्‌</big>
 
<big>एतेषां षत्वं भवति '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रेण यतोहि एते धातवः असिन्‌ सूत्रे साक्षात्‌ उक्ताः |</big>
 
<big>बाभ्रस्ज्‌ + सि → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन झलि परे संयोगस्य प्रथमसदस्यस्थ-सकारस्य लोपः → बाभ्रज्‌ + सि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन जकारस्य षत्वम्‌ → बाभ्रष्‌ + सि → '''षढोः कः सि''' (८.२.४१) इत्यनेन सकारे परे षकारस्य ककारादेशः → बाभ्रक्‌ + सि → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम्‌ → बाभ्रक्षि</big>
 
<big>सरीस्रज्‌ + सि →</big>
 
<big>मरीमार्ज्‌ + सि →</big>
 
<big>यायज्‌ + सि →</big>
 
<big>राराज्‌ + सि →</big>
 
<big>बाभ्राज्‌ + सि →</big>
 
<big>झकारान्तस्य एकः प्रकारः— '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌</big>
 
<big>जाझर्झ्‌ + सि → '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌ → जाझर्घ्‌ + सि → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम्‌ → जाझर्घ्‌ + षि → '''खरि च''' (८.४.५५) इत्यनेन खरि परे झलः स्थाने चरादेशः → जाझर्क्‌ + षि → जाझर्क्षि</big>
teachers
73

edits