6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2

Revision as of 17:01, 9 May 2021 by Shubhada V (talk | contribs) (Copy-paste the 1/3rd of the google site page, Inserting the hyperlinks and spacing between the lines.)

6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2

ध्वनिमुद्रणानि -

2018 वर्गः

१) dhAtupAThe-hal-sandhiH-1---abhyAsaH_वरीवृत्‌ → चरीकृष्‌_+_dhAtupAThe-hal-sandhiH-2---paricayaH_2018-05-30

२) dhAtupAThe-hal-sandhiH-1---रो रि-ढ्रलोपे पूर्वस्य दीर्घोऽणः-पूर्वत्रासिद्धम्‌_+_dhAtupAThe-hal-sandhiH-2---kakAra-cakArAntadhAtavaH_2018-06-06

३) dhAtupAThe-hal-sandhiH-2---sAdipratyaye pare--cavarga-Tavarga-tavarga-pavarga-y-v-l-r-s-sh-Sh_2018-06-13

४) dhAtupAThe-hal-sandhiH-2---sAdipratyaye pare--vakArAnta-cintanam_+_hakArAntAH_+_abhyAsaH_2018-06-20

५) dhAtupAThe-hal-sandhiH-2---च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रे क्ङिति-?_+_sAdipratyaye pare_abhyAsaH_2018-06-27

६) dhAtupAThe-hal-sandhiH-2---च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रे क्ङिति-?_+_tuk-sahita-chakAraH_2018-07-04

७) dhAtupAThe-hal-sandhiH-2---abhyAsaH_+_dhAtupAThe-hal-sandhiH-3---paricayaH_2018-07-11


2015 वर्गः -


1. dhAtupAThe_hal-sandhiH---apadAnte-sakArAdi-pratyaye-pare_2015-05-13

2. dhAtupAThe-hal-sandhiH-2_cintanam-abhyAsaH-ca_2016-06-19


यथा उक्तं गते पाठे, यावन्तः प्रत्ययाः धातुभ्यः विहिताः सन्ति, ते सर्वे आरभ्यन्ते एभिः अच्‌-वर्णैः (नाम अ, आ, इ, ई, उ, ऊ, ए, ऐ इत्येभिः) अथवा एभिः हल्‌-वर्णैः— य्‌, र्‍ / व्‌, म्‌, न्‌ / त्‌, थ्‌, ध्‌, स् | यदा प्रत्ययः अज्भिः वर्णैः आरभ्यते अथवा य्‌, र्‍ इत्येभिः हल्‌-वर्णैः आरभ्यते, तदा धातुः हलन्तः चेदपि हल्‌-सन्धिः न भवति (केवलं वर्ण-सम्मेलनं भवति) | धातुः हलन्तः अस्ति चेत्‌ अथवा प्रक्रियायां हलन्तः भवति (यथा धा-धातुः, दधा + तः → दध्‌ + तः → धत्तः), अपि च प्रत्ययः त्‌, थ्‌, ध्‌, स् इत्येभिः वर्णैः आरभ्यते, तस्यां दशायां हल्‌-सन्धिः प्रचुरः लभ्यते | व्‌, म्‌, न् इत्येभिः वर्णैः आरभ्यते चेत्‌, विशिष्टस्थलेषु लभ्यते | सन्धिः नाम यत्र द्वयोः वर्णयोः मेलनेन वर्णविकारः भवति | हल्‌-सन्धिः नाम यत्र द्वयोः हल्‌-वर्णयोः मेलनेन वर्णविकारः भवति, इति तु जानीमः |


सम्प्रति चत्वारः पाठाः क्रियमाणास्सन्ति येषु हलन्तेभ्यो धातुभ्यः कथं तकारादिप्रत्ययाः, थकारादिप्रत्ययाः, धकारादिप्रत्ययाः, सकारादिप्रत्ययाश्च संयुज्यन्ते इति परिशील्यमानम्‌ | चतुर्षु पाठेषु, अयं पाठो द्वितीयः |


A. विधयः चतुर्षु विभागेषु विभक्तः


१. हलन्तेभ्यो धातुभ्यो लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययश्चेत्यनयोः योजनविधिः

२. हलन्तेभ्यो धातुभ्यस्‌ सकारादिप्रत्ययानां योजनविधिः (लङ्‌-लकारस्य स्‌-प्रत्ययम्‌ अतिरिच्य)

३. हलन्तेभ्यो धातुभ्यस्‌ तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्‌-लकारस्य त्‌-प्रत्ययम्‌ अतिरिच्य)

४. हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः


तर्हि चतुर्षु अयं पाठः द्वितीयः | अत्र हलन्तेभ्यो धातुभ्यस्‌ सकारादिप्रत्ययानां योजनविधिः अवलोक्यमानः (लङ्‌-लकारस्य स्‌-प्रत्ययम्‌ अतिरिच्य) इति | अत्र मार्गः षट्‌प्रकारकः—


B. हलन्तधातुभ्यः सादिप्रत्ययः चेत्‌ अधः प्रदर्शिताः सम्भावनाः


एषु सर्वत्र स्मरणीयं यत्‌— (१) सकारः खर्‍-प्रत्याहारे अस्ति, अतः बहुत्र खरि च (८.४.५५) इत्यनेन चर्त्वसन्धेः प्रसङ्गः; (२) सकारः झल्‌-प्रत्याहारे अस्ति, अतः यत्र यत्र 'झलि' इति सूत्रेषु अनुवर्तते, तत्र तत्र सकारे परे तस्य प्रसङ्गः |


१. धातोरन्तिमो वर्णः क्‌, ख्‌, ग्‌, घ्‌; च्‌, छ्‌, ज्‌, झ्‌; श्‌, ष्‌ एषु अन्यतमः चेत्‌‌, तस्य वर्णस्य स्थाने ककारो भवति | (खरि च इत्यनेन, चोः कुः इत्यनेन च | शकारषकारयोः कृते षढोः कः सि) | अपि च नह्‌-धातुम्‌ अतिरिच्य हकारस्यापि ककारः भवति |

२. धातोरन्तिमो वर्णः ट्‌, ठ्‌, ड्‌, ढ्‌ एषु अन्यतमश्चेत्‌‌, तर्हि तस्य वर्णस्य स्थाने टकारो भवति (खरि च इत्यनेन), तदा सकारस्य ष्टुत्वम्‌ |

३. धातोरन्तिमो वर्णः त्‌, थ्‌, द्‌, ध्‌ एषु अन्यतमश्चेत्‌‌, तर्हि तस्य वर्णस्य स्थाने तकारो भवति | (खरि च इत्यनेन |)

४. धातोरन्तिमो वर्णः प्‌, फ्‌, ब्‌, भ्‌ एषु अन्यतमश्चेत्‌‌, तर्हि तस्य वर्णस्य स्थाने पकारो भवति | (खरि च इत्यनेन |)

५. धातोरन्तिमो वर्णः न्‌‍, म्‌ अनयोः अन्यतमश्चेत्‌, तर्हि तस्य वर्णस्य स्थाने अनुस्वारो भवति | (नश्चापदान्तस्य झलि इत्यनेन |)

६. धातोरन्तिमो वर्णः यकारः चेत्‌ तस्य लोपः लोपो व्योर्वलि (६.१.६६) इति सूत्रेण | वकारान्तस्य हल्‌-सन्धि-अवसरो नास्ति |

७. धातोरन्तिमो वर्णः लकारो वा रेफो वा चेत्‌, तस्य विकारः नास्ति |

८. धातोरन्तिमो वर्णः सकारश्चेत्‌, सार्वधातुकप्रत्यये परे केवलं वर्णमेलनम्‌‌; आर्धधातुकप्रत्यये परे धात्वङ्गसकारस्य तकारादेशो भवति | (सः स्यार्धधातुके इत्यनेन |)

९. धातोरन्तिमो वर्णः हकारश्चेत्‌, नह्‌-धातुम्‌ अतिरिच्य हकारस्य ककारः | (हो ढः + षढोः कः सि अथवा दादेर्धातोर्घः + खरि च |)


C. कवर्गः, चवर्गः, षकारः, शकारः


धातोः अन्तिमो वर्णः क्‌, ख्‌, ग्‌, घ्‌; च्‌, छ्‌, ज्‌, झ्‌; श्‌, ष् एषु अन्यतमः चेत्‌‌, तर्हि सादिप्रत्यये परे तस्य वर्णस्य स्थाने ककारो भवति | अपि च सादिप्रत्ययस्य सकारस्य स्थाने षकारादेशो भवति आदेशप्रत्यययोः (८.३.५९) इति सूत्रेण | तदा ककारषकारयोः मेलनेन क्ष्‌ इति भवति |


शक्‌ + स्यति → शक्‌ + ष्यति → शक्ष्यति

लेलेख्‌ + सि → लेलेक् + षि → लेलेक्षि

तात्वङ्ग्‌‌‌ + सि → तात्वङ्क्‌‌ + षि → तात्वङ्क्षि

जाघघ्‌‌ + सि → जाघक्‌ + षि → जाघक्षि

लालङ्घ् + सि → लालङ्क्‌‌ + षि → लालङ्क्षि

वच्‌ + सि → वक्‌ + षि → वक्षि

प्रच्छ्‌ + स्यति → प्रक्‌ + ष्यति → प्रक्ष्यति

योज्‌ + स्यति → योक्‌ + ष्यति → योक्ष्यति

याझर्झ्‌ + सि → याझर्क्‌ + षि → याझर्क्षि

क्रोश्‌ + स्यति → क्रोक्‌ + ष्यति → क्रोक्ष्यति

कर्ष्‌ + स्यति → कर्क्‌ + ष्यति → कर्क्ष्यति

१. क्‌, ख्‌, ग्‌, घ्‌ → क्‌

प्रत्ययस्य प्रथमवर्णः त्‌, थ्‌, ध्‌, स्‌ चेत्‌ हल्‌-सन्धिः भवतीति उक्तम्‌ | तेषु वर्णेषु त्‌, थ्‌, स्‌ च खर्‍-प्रत्याहारे सन्ति, अतः तेषु वर्णेषु परेषु खरि च इत्यनेन चर्त्वसन्धिः (तत्तत्‌ वर्गस्य प्रथमादेशो) भवति | अत्र सादिप्रत्ययः परः अस्ति, अतः चर्त्वसन्धिः भवतु |

तस्मात्‌ पूर्वं किन्तु आदेशप्रत्यययोः (८.३.५९) इत्यनेन कवर्गीयवर्णात्‌ परस्य प्रत्ययावयवस्य सकारस्य षत्वादेशः | (खरि च (८.४.५५) तदपेक्षया परत्रिपादिसूत्रम्‌ अतः असिद्धम्‌ |)

यथा—

त्यग्‌ + स्यति → आदेशप्रत्ययोः → त्यग्‌ + ष्यति

घोग्‌ + सि → आदेशप्रत्ययोः → घोग्‌ + षि

आदेशप्रत्यययोः (८.३.५९) = इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तस्य सकारस्य स्थाने षकारादेशो भवति | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं स्थानेऽन्तरतमः इत्यनेन ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्‌, अतः षकारः एव आदिष्टः भवति | नुम्‌, विसर्गः, शर्‍-प्रत्याहारस्थ-वर्णः एषु अन्यतमः मध्ये अस्ति चेदपि कार्यं भवति | इण्‌-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | अस्य कार्यस्य नाम षत्वविधिः | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम्‌ एकपदमिदं सूत्रम्‌ | सहे साडः सः (८.३.५६) इत्यस्मात्‌ सः इत्यस्य अनुवृत्तिः | नुंविसर्जनीयशर्व्यवायेऽपि (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम्‌ इत्यस्य अधिकारः | इण्कोः (८.३.५७), अपदान्तस्य मूर्धन्यः (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि* |

सम्प्रति खरि च (८.४.५५) इत्यनेन चर्त्वादेशः—

त्यग्‌ + ष्यति → त्यक्‌ + ष्यति → त्यक्ष्यति

घोग्‌ + षि → घोक्‌ + षि → घोक्षि

खरि च (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | झलां जश्‌ झशि (८.४.५३) इत्यस्मात्‌ झलां इत्यस्य अनुवृत्तिः; अभ्यासे चर्च (८.४.५४) इत्यस्मात्‌ चर्च इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— झलां चर्‍‌ खरि च संहितायाम् ‌|

अन्यानि उदाहरणानि—

शशक्‌ + सि → शशक्‌ + षि‌ → शशक्षि

लेलेख्‌ + सि → लेलेख्‌ + षि → लेलेक्‌ + षि → लेलेक्षि

तात्वङ्ग्‌ + सि → तात्वङ्ग्‌ + षि → तात्वङ्क्‌ + षि → तात्वङ्क्षि

जाघग्‌ + सि → जाघग्‌ + षि → जाघक्‌ + षि → जाघक्षि

लालङ्घ्‌ + सि → लालङ्घ्‌ + षि → लालङ्क्‌ + षि → लालङ्क्षि

*प्रश्नः उदेति यत्‌ नुम्‌, विसर्गः, शर्‍ व्यवाये चेदपि षत्वमित्यस्य दृष्टान्तः कः ?

व्यवाये नुम्‌ इत्यस्य दृष्टान्ताः एते— सर्पींषि, यजूंषि, हवींषि | सर्पिस्‌ (घृतं), यजुस्‌ (पूजा), हविस्‌ (हव्यम्‌) इति प्रातिपदिकानि | अत्र बोध्यं कथं निष्पन्नं सर्पिस्‌ इति प्रातिपदिकम्‌ | सृप गतौ, लटि सर्पति | सृप्-धातुः + इसि इति उणादिप्रत्ययः | सृप + इसि → अनुबन्धलोपे → सृप्‌ + इस्‌ → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणः → सर्पिस्‌ इति प्रातिपदिकम्‌ | नपुंसके प्रथमाविभक्तौ बहुवचने सर्पिस्‌ + इ → नुम्‌-आगमः → सर्पिंस्‌ + इ → → नुम्‌-व्यवायेऽपि षत्वम्‌ → सर्पींषि | अतः अयं सकारः प्रत्ययस्य एव | एवमेव यजूंषि, हवींषि |

व्यवाये विसर्गस्य दृष्टान्ताः एते— सर्पिःषु, यजुःषु, हविःषु | नपुंसके सप्तमीविभक्तौ बहुवचने सर्पिस्‌ + सुप्‌ → सर्पिस्‌ इत्यस्य सकारस्य विसर्गादेशः, विसर्गस्य व्यवायेऽपि षत्वम्‌ → सर्पिःषु | एवमेव यजुःषु, हविःषु |

व्यवाये शर्‌-प्रत्याहारस्य दृष्टान्ताः एते— सर्पिष्षु, यजुष्षु, हविष्षु | नपुंसके सप्तमीविभक्तौ बहुवचने सर्पिस्‌ + सुप्‌ → वा शरि (८.३.३६) इत्यनेन विकल्पेन विसर्गादेशः; पक्षे सकार एव → सकारपक्षे सकारस्य व्यवायेऽपि षत्वम्‌ → सर्पिस्‌ + षु → ष्टुना ष्टुः (८.४.४१) → सर्पिष्षु | एवमेव यजुष्षु, हविष्षु |

२. च्‌, छ्‌, ज्‌, झ्‌ → क्‌

चोः कुः (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— चोः कुः झलि पदस्य अन्ते च |

गते पाठे अस्य सूत्रस्य प्रयोगः अस्माभिः दृष्टः पदान्ते, लङ्‌-लकारप्रसङ्गे | परन्तु झलि अपि भवति इत्युक्तम्‌ | सकारः झलि अस्ति, अतः अत्रापि इदं कार्यं प्रसक्तम्‌ | [त्‌, थ्‌, ध्‌, स्‌ एते सर्वे हल्‌-सन्धिनिमित्तकवर्णाः झलि सन्ति |]

चोः कुः इत्यनेन सकारे परे कुत्वं विहितम्‌—

च्‌ → क्‌

छ्‌ → ख्‌‌

ज्‌ → ग्‌

झ्‌ → घ्‌

चकारस्य प्रकारद्वयम्‌—

अ) सामान्यम्‌ = चोः कुः (८.२.३०) इत्यनेन कुत्वम्‌

वच्‌ + स्यति → चोः कुः (८.२.३०) → वक्‌ + स्यति → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम्‌ → वक्‌ + ष्यति → वक्ष्यति

आ) व्रश्च्‌-धातुः

अत्र व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन षत्वम्‌ |

वाव्रश्च्‌ + सि‌ → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन संयोगे पूर्वसकारलोपः → वाव्रच्‌ + सि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन षत्वम्‌ → वाव्रष्‌ + सि → षढोः कः सि (८.२.४१) इत्यनेन सकारे परे षकारस्य ककारादेशः → वाव्रक्‌ + सि → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम्‌ → वाव्रक्षि

प्रश्नः उदेति कथं स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन शकारलोपः यदा सूत्रेण सकारलोपस्य विधानम्‌ | सामान्यतया वदामः यत्‌ 'वस्तुतः अत्र मूले सकारः आसीत्‌; श्चुत्वसन्धिना एव शकारः जातः' | अस्तु, तत्तु सत्यं; किन्तु अधुना शकारः अस्ति किल न तु सकारः | इति चेत्‌ कथं वा स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन सकारलोपः स्यात्‌ ? अकृतव्यूहाः पाणिनीयाः (५६) इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम्‌ इत्यस्मात्‌ व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन श्चुत्वसन्धेः निमित्तचकारस्य जायमानात्‌ नाशात्‌ स्तोः श्चुना श्चुः (८.४.४०) इति सूत्रं न प्रवर्तनीयमेव | अतः स्कारः तिष्ठति | वाव्रस्च्‌ + सि‌ → स्कोः संयोगाद्योरन्ते च (८.२.२९) → वाव्रच्‌ + सि |

स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्‌, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स्‌ च क्‌ च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च |

व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌, छकारान्ताः शकारान्ताः चैषां धातूनाम्‌ अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श्‌ च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम्‌ | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र 'जच्छशां' इति भागे छे च (६.१.७३) इत्यनेन तुक्‌-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |

षढोः कः सि (८.२.४१) = षकारस्य ढकारस्य च ककारादेशो भवति सकारे परे | ष्टुना ष्टुः (८.४.४१) इत्यस्य अपवादः | षश्च ढश्च तयोः इतरेतरद्वन्द्वः षढौ, तयोः षढोः | षढोः षष्ठ्यन्तं, कः प्रथमान्तं, सि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— षढोः कः सि |

छकारस्य प्रकारद्वयम्‌—

अ) सामान्यम्‌ = च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यनेन शत्वं, तदा व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन षत्वम्‌

पाप्रच्छ्‌ + सि → च्छ्वोः शूडनुनासिके च (६.४.१९) → पाप्रश्‌ + सि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → पाप्रष्‌ + सि → षढोः कः सि (८.२.४१) → पाप्रक्‌ + सि → पाप्रक्‌ + षि → पाप्रक्षि

च्छ्वोः शूडनुनासिके च (६.४.१९) = तुक्‌-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्‌-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ्‌ च व्‌ च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श्‌ च ऊठ्‌ च तयोः समाहारद्वन्द्वः शूड्‌ | झलां जशोऽन्ते (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड्‌ प्रथमान्तम्‌, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात्‌ क्विझलोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— च्छ्वोः अङ्गस्य शूड्‌ क्विझलोः अनुनासिके च |

आ) रेफपूर्वक-छकारान्तधातुः = राल्लोपः (६.४.२१) इत्यनेन छकारलोपः

मोमुर्छ्‌ + सि → राल्लोपः (६.४.२१) इत्यनेन झलादि-प्रत्यये छकारलोपः → मोमुर्‍ + सि → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधा-गुणः → मोमोर्‍ + सि → षत्वम्‌ → मोमोर्षि

राल्लोपः (६.४.२१) = रेफात्‌ परस्य छकारस्य वकारस्य च लोपो भवति क्वि, झलादि-प्रत्ययः, अनुनासिकः च परे अस्ति चेत्‌ | रात्‌ पञ्चम्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यस्मात्‌ च्छ्वोः इत्यस्य अनुवृत्तिः; अत्र धेयं यत्‌ अनुवृत्तौ 'तक्‌-सहितः छकारः' सत्यपि व्याख्याने तुगागमो नापेक्षितः अतः न स्वीकृतः | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात्‌ अनुनासिकस्य, क्विझलोः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य रात्‌ च्छ्वोः लोपः अनुनासिके क्विझलोः |

जकारस्य प्रकारद्वयम्‌—

अ) सामान्यम्‌ = चोः कुः (८.२.३०) इत्यनेन कुत्वम्‌

त्यज्‌ + स्यति → चोः कुः (८.२.३०) इत्यनेन सकारे (झलि) परे कुत्वम् → त्यग्‌ + स्यति → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम्‌ → त्यग्‌ + ष्यति → खरि च (८.४.५५) इत्यनेन चर्त्वं → त्यक्‌ + ष्यति → त्यक्ष्यति

योज्‌ + स्यति → योग्‌ + स्यति → योग्‌ + ष्यति → योक्‌ + ष्यति → योक्ष्यति

आ) भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌ इत्येषां षत्वम्‌

एतेषां षत्वं भवति व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रेण यतोहि एते धातवः असिन्‌ सूत्रे साक्षात्‌ उक्ताः |

बाभ्रस्ज्‌ + सि → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन झलि परे संयोगस्य प्रथमसदस्यस्थ-सकारस्य लोपः → बाभ्रज्‌ + सि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन जकारस्य षत्वम्‌ → बाभ्रष्‌ + सि → षढोः कः सि (८.२.४१) इत्यनेन सकारे परे षकारस्य ककारादेशः → बाभ्रक्‌ + सि → आदेशप्रत्यययोः (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम्‌ → बाभ्रक्षि

सरीस्रज्‌ + सि →

मरीमार्ज्‌ + सि →

यायज्‌ + सि →

राराज्‌ + सि →

बाभ्राज्‌ + सि →

झकारान्तस्य एकः प्रकारः— चोः कुः (८.२.३०) इत्यनेन कुत्वम्‌

जाझर्झ्‌ + सि → चोः कुः (८.२.३०) इत्यनेन कुत्वम्‌ → जाझर्घ्‌ + सि → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम्‌ → जाझर्घ्‌ + षि → खरि च (८.४.५५) इत्यनेन खरि परे झलः स्थाने चरादेशः → जाझर्क्‌ + षि → जाझर्क्षि