6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2: Difference between revisions

Paragraph spacing
No edit summary
(Paragraph spacing)
Line 119:
 
<big>'''आदेशप्रत्यययोः''' (८.३.५९) = इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तस्य सकारस्य स्थाने षकारादेशो भवति | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं '''स्थानेऽन्तरतमः''' इत्यनेन ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्‌, अतः षकारः एव आदिष्टः भवति | नुम्‌, विसर्गः, शर्‍-प्रत्याहारस्थ-वर्णः एषु अन्यतमः मध्ये अस्ति चेदपि कार्यं भवति | इण्‌-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | अस्य कार्यस्य नाम षत्वविधिः | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम्‌ एकपदमिदं सूत्रम्‌ | '''सहे साडः सः''' (८.३.५६) इत्यस्मात्‌ '''सः''' इत्यस्य अनुवृत्तिः | '''नुंविसर्जनीयशर्व्यवायेऽपि''' (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्‌''' इत्यस्य अधिकारः | '''इण्कोः''' (८.३.५७), '''अपदान्तस्य''' '''मूर्धन्यः''' (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—'''इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां,''' '''नुंविसर्जनीयशर्व्यवायेऽपि'''* |</big>
 
 
<big>सम्प्रति '''खरि च''' (८.४.५५) इत्यनेन चर्त्वादेशः—</big>
 
 
 
Line 150 ⟶ 152:
 
<big>व्यवाये विसर्गस्य दृष्टान्ताः एते— सर्पिःषु, यजुःषु, हविःषु | नपुंसके सप्तमीविभक्तौ बहुवचने सर्पिस्‌ + सुप्‌ → सर्पिस्‌ इत्यस्य सकारस्य विसर्गादेशः, विसर्गस्य व्यवायेऽपि षत्वम्‌ → सर्पिःषु | एवमेव यजुःषु, हविःषु |</big>
 
 
<big>व्यवाये शर्‌-प्रत्याहारस्य दृष्टान्ताः एते— सर्पिष्षु, यजुष्षु, हविष्षु | नपुंसके सप्तमीविभक्तौ बहुवचने सर्पिस्‌ + सुप्‌ → '''वा शरि''' (८.३.३६) इत्यनेन विकल्पेन विसर्गादेशः; पक्षे सकार एव → सकारपक्षे सकारस्य व्यवायेऽपि षत्वम्‌ → सर्पिस्‌ + षु → '''ष्टुना ष्टुः''' (८.४.४१) → सर्पिष्षु | एवमेव यजुष्षु, हविष्षु |</big>
 
 
 
<big>२. च्‌, छ्‌, ज्‌, झ्‌ → क्‌</big>
 
 
<big>'''चोः कुः''' (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''चोः कुः झलि पदस्य अन्ते च''' |</big>
 
 
 
<big>गते पाठे अस्य सूत्रस्य प्रयोगः अस्माभिः दृष्टः पदान्ते, लङ्‌-लकारप्रसङ्गे | परन्तु झलि अपि भवति इत्युक्तम्‌ | सकारः झलि अस्ति, अतः अत्रापि इदं कार्यं प्रसक्तम्‌ | [त्‌, थ्‌, ध्‌, स्‌ एते सर्वे हल्‌-सन्धिनिमित्तकवर्णाः झलि सन्ति |]</big>
 
 
<big>'''चोः कुः''' इत्यनेन सकारे परे कुत्वं विहितम्‌—</big>
Line 173 ⟶ 180:
 
<big>चकारस्य प्रकारद्वयम्‌—</big>
 
 
<big>अ) सामान्यम्‌ = '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌</big>
 
 
 
<big>वच्‌ + स्यति → '''चोः कुः''' (८.२.३०) → वक्‌ + स्यति → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम्‌ → वक्‌ + ष्यति → वक्ष्यति</big>
 
 
<big>आ) व्रश्च्‌-धातुः</big>
 
 
 
<big>अत्र '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्‌ |</big>
 
 
<big>वाव्रश्च्‌ + सि‌ → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन संयोगे पूर्वसकारलोपः → वाव्रच्‌ + सि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्‌ → वाव्रष्‌ + सि → '''षढोः कः सि''' (८.२.४१) इत्यनेन सकारे परे षकारस्य ककारादेशः → वाव्रक्‌ + सि → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम्‌ → वाव्रक्षि</big>
 
 
 
<big>प्रश्नः उदेति कथं '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन शकारलोपः यदा सूत्रेण सकारलोपस्य विधानम्‌ | सामान्यतया वदामः यत्‌ 'वस्तुतः अत्र मूले सकारः आसीत्‌; श्चुत्वसन्धिना एव शकारः जातः' | अस्तु, तत्तु सत्यं; किन्तु अधुना शकारः अस्ति किल न तु सकारः | इति चेत्‌ कथं वा '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन सकारलोपः स्यात्‌ ? '''अकृतव्यूहाः पाणिनीयाः''' (५६) इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम्‌ इत्यस्मात्‌ '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन श्चुत्वसन्धेः निमित्तचकारस्य जायमानात्‌ नाशात्‌ '''स्तोः श्चुना श्चुः''' (८.४.४०) इति सूत्रं न प्रवर्तनीयमेव | अतः स्कारः तिष्ठति | वाव्रस्च्‌ + सि‌ → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) → वाव्रच्‌ + सि |</big>
 
 
<big>'''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्‌, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स्‌ च क्‌ च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च''' |</big>
 
 
 
<big>'''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) = व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌, छकारान्ताः शकारान्ताः चैषां धातूनाम्‌ अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श्‌ च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम्‌ | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र ''''जच्छशां'''<nowiki/>' इति भागे '''छे च''' (६.१.७३) इत्यनेन तुक्‌-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' '''झलि पदस्य अन्ते च''' |</big>
 
 
<big>'''षढोः कः सि''' (८.२.४१) = षकारस्य ढकारस्य च ककारादेशो भवति सकारे परे | '''ष्टुना ष्टुः''' (८.४.४१) इत्यस्य अपवादः | षश्च ढश्च तयोः इतरेतरद्वन्द्वः षढौ, तयोः षढोः | षढोः षष्ठ्यन्तं, कः प्रथमान्तं, सि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— '''षढोः कः सि''' |</big>
 
 
 
<big>छकारस्य प्रकारद्वयम्‌—</big>
 
<big>अ) सामान्यम्‌ = '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन शत्वं, तदा '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्‌</big>
 
<big>अ) सामान्यम्‌ = '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन शत्वं, तदा '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्‌</big>
 
<big>पाप्रच्छ्‌ + सि → '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) → पाप्रश्‌ + सि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) → पाप्रष्‌ + सि → '''षढोः कः सि''' (८.२.४१) → पाप्रक्‌ + सि → पाप्रक्‌ + षि → पाप्रक्षि</big>
Line 208 ⟶ 225:
 
<big>आ) रेफपूर्वक-छकारान्तधातुः = '''राल्लोपः''' (६.४.२१) इत्यनेन छकारलोपः</big>
 
 
<big>मोमुर्छ्‌ + सि → '''राल्लोपः''' (६.४.२१) इत्यनेन झलादि-प्रत्यये छकारलोपः → मोमुर्‍ + सि → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधा-गुणः → मोमोर्‍ + सि → षत्वम्‌ → मोमोर्षि</big>
 
 
 
Line 216 ⟶ 235:
 
<big>जकारस्य प्रकारद्वयम्‌—</big>
 
 
 
<big>अ) सामान्यम्‌ = '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌</big>
 
 
<big>त्यज्‌ + स्यति → '''चोः कुः''' (८.२.३०) इत्यनेन सकारे (झलि) परे कुत्वम् → त्यग्‌ + स्यति → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम्‌ → त्यग्‌ + ष्यति → '''खरि च''' (८.४.५५) इत्यनेन चर्त्वं → त्यक्‌ + ष्यति → त्यक्ष्यति</big>
 
 
 
<big>योज्‌ + स्यति → योग्‌ + स्यति → योग्‌ + ष्यति → योक्‌ + ष्यति → योक्ष्यति</big>
 
 
<big>आ) भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌ इत्येषां षत्वम्‌</big>
 
 
 
Line 245 ⟶ 266:
<big>बाभ्राज्‌ + सि →</big>
 
<big>झकारान्तस्य एकः प्रकारः— '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌</big>
 
 
<big>झकारान्तस्य एकः प्रकारः— '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌</big>
 
<big>जाझर्झ्‌ + सि → '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌ → जाझर्घ्‌ + सि → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम्‌ → जाझर्घ्‌ + षि → '''खरि च''' (८.४.५५) इत्यनेन खरि परे झलः स्थाने चरादेशः → जाझर्क्‌ + षि → जाझर्क्षि</big>
 
 
 
Line 256 ⟶ 277:
 
<big>'''षढोः कः सि''' (८.२.४१) = षकारस्य ढकारस्य च ककारादेशो भवति सकारे परे | '''ष्टुना ष्टुः''' (८.४.४१) इत्यस्य अपवादः | षश्च ढश्च तयोः इतरेतरद्वन्द्वः षढौ, तयोः षढोः | षढोः षष्ठ्यन्तं, कः प्रथमान्तं, सि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— '''षढोः कः सि''' |</big>
 
 
<big>यथा— कर्ष्‌ + स्यति → '''षढोः कः सि''' (८.२.४१) इत्यनेन षकारस्य ककारादेशः → कर्क्‌ + स्यति → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम्‌ → कर्क्‌ + ष्यति → कर्क्ष्यति</big>
 
<big>४. श्‌ → ष्‌‌ → क्‌</big>
 
 
<big>प्रत्ययस्य आदौ सकारः झलि, अतः धात्वन्तस्य शकारस्य स्थाने षकारादेशो भवति |</big>
 
<big>'''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) = व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌, छकारान्ताः शकारान्ताः चैषां धातूनाम्‌ अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अनुवृत्ति-सहितसूत्रम्‌— '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' '''झलि पदस्य अन्ते च''' |</big>
 
 
<big>यथा—</big>
Line 271 ⟶ 293:
 
<big>वश्‌ + सि → वष्‌ + सि</big>
 
 
<big>अधुना ष्‌ → क्‌</big>
Line 277 ⟶ 300:
 
<big>वष्‌ + सि → '''षढोः कः सि''' (८.२.४१) इत्यनेन षकारस्य ककारादेशः → वक्‌ + सि → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम्‌ → वक्‌ + षि → वक्षि</big>
 
 
<big>D. टवर्गः</big>
 
<big>१. टकारः, ठकारः, डकारः</big>
 
 
<big>टकारस्य, ठकारस्य, डकारस्य च प्रभावेन अग्रे स्थितस्य सकारस्य '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्टुत्वादेशः | तदा स च षकारः खरि अस्ति इति कृत्वा टकार-ठकार-डकाराणां चरादेशः '''खरि च''' (८.४.५५) इत्यनेन |</big>
Line 289 ⟶ 314:
 
<big>चाकड्‌ + सि → '''ष्टुना ष्टुः''' (८.४.४१) → '''खरि च''' (८.४.५५) → चाकट्‌षि</big>
 
 
<big>'''ष्टुना ष्टुः''' (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | अनुवृत्ति-सहितसूत्रं— '''स्तोः''' '''ष्टुना ष्टुः संहितायाम्'''‌ |</big>
 
<big>२. ढकारः</big>
 
 
<big>ढकारस्य '''षढोः कः सि''' (८.२.४१) इत्यनेन ककारादेशः, तदा '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम्‌ |</big>
 
<big>वावढ्‌ + सि → '''षढोः कः सि''' (८.२.४१) → वावक्‌ + सि → '''आदेशप्रत्यययोः''' (८.३.५९) → वावक्षि</big>
 
 
<big>३. णकारः</big>
 
<big>रंरण्‌ + सि → णकारस्य प्रभावेन '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन अग्रे स्थितस्य सकारस्य ष्टुत्वादेशः → रंरण्षि</big>
 
 
<big>E. तवर्गः</big>
 
<big>तकारः, थकारः, दकारः, धकारः</big>
 
 
<big>धातोः अन्तिमो वर्णः त्‌, थ्‌, द्‌, ध्‌ एषु अन्यतमश्चेत्‌‌, सकारे परे '''खरि च''' (८.४.५५) इत्यनेन खरि परे झलः स्थाने चरादेशः → एषां स्थाने तकारादेशः |</big>
 
<big>त्‌, थ्‌, द्‌, ध्‌ → त्‌ | '''खरि च''' (८.४.५५) इत्यनेन सकारे परे, तवर्गीयाणां प्रथमसदस्यादेशः | सकारस्य कोऽपि विकारो न भवति |</big>
 
 
<big>यथा—</big>
Line 319 ⟶ 350:
 
<big>क्रोध्‌ + स्यति → '''खरि च''' (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → क्रोत्‌ + स्यति → क्रोत्स्यति</big>
 
 
<big>विशेषः—</big>
 
<big>अस्मिन्‌ समूहे बशो भष्‌ (३४ → ४४) इत्यस्य सम्भावना वर्तते |</big>
 
 
<big>'''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' (८.२.३७) = बशः भषादेशः</big>
Line 331 ⟶ 364:
 
<big>बुध्‌ + स्यते → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणः → बोध्‌ + स्यते → '''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' (८.२.३७) इत्यनेन भषादेशः → भोध्‌ + स्यते → '''खरि च''' (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → भोत्‌ + स्यते → भोत्स्यते</big>
 
 
<big>परिचयः— धातोः आदौ बश्‌ (ब, ग, ड, द) अपि च अन्ते झष्‌ (झ, भ, घ, ढ, ध), तस्य धातोः नाम एकाच्‌-बशादि-झषन्तधातुः | यथा बन्ध्‌-धातुः, बुध्‌-धातुः च | यदि उपर्युक्त-हकारान्तधातुसम्बद्ध-सूत्रैः हकारस्य स्थाने झषादेशः सञ्जातः (दृष्टान्ते— दुह्‌ → दुघ्‌) तर्हि सोऽपि तादृशो धातुः | एकाच्‌-बशादि-झषन्तधातोः आदौ स्थितस्य बशः स्थाने भषादेशो भवति (भ, घ, ढ, ध) सकारादि-प्रत्यये परे, ध्व-शब्दे परे, पदान्ते च | अतः वदामः यत्‌ '३४ → ४४' इत्युक्तौ यत्र धातोः आदौ वर्गस्य तृतीयसदस्यः (३), अन्ते च वर्गस्य चतुर्थसदस्यः (४), तत्र आदौ स्थितस्य तृतीयसदस्यस्य स्थाने चतुर्थसदस्यादेशो भवति (३ → ४) | आहत्य ३४ → ४४ इति विकारः | धेयं यत्‌ अयं बश्‌-वर्णः धातोः अन्तिम-अंशस्य आदौ अपि भवितुमर्हति | अनेन धातुः अनेकाच्‌ चेदपि, तस्य धातोः एकाच्‌-बशादि-झषन्तधात्वंशः अस्ति चेत्‌, अत्रापि ३४ → ४४ इति विकारो भवति |</big>
 
 
<big>'''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' (८.२.३७) = धातोरवयवो यो झषन्त एकाच्‌, तस्य बशः भषादेशो भवति सकारे परे, ध्व-शब्दे परे, पदान्ते च | अनुवृत्तिसहितसूत्रे ''''एकाचः झषन्तस्य'''<nowiki/>' इत्यनयोरेव विशेषणविशेष्यभावः; धातोः तादृशांशः इति तात्पर्यम्‌ | अनेन धातोः एकाच्‌ वा तदधिकाः वा अर्हाः | एकोऽच्‌ यस्मिन्‌ स एकाच्‌ बहुव्रीहिः, तस्य एकाचः | झष्‌ अन्ते यस्य स झषन्तः बहुव्रीहिः, तस्य झषन्तस्य | स्‌ च ध्व्‌‌ च स्ध्वौ इतरेतरद्वन्द्वः, तयोः स्ध्वोः | एकाचः षष्ठ्यन्तं, बशः षष्ठ्यन्तं, भष्‌ प्रथमान्तं, झषन्तस्य षष्ठ्यन्तं, स्ध्वोः सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''धातोः एकाचः झषन्तस्य बशः भष्‌ स्ध्वोः पदस्य अन्ते च''' |</big>
 
<big>नकारः</big>
 
 
<big>सकारः झलि अतः '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः |</big>
Line 343 ⟶ 379:
 
<big>मन्‌ + स्यते → मंस्यते</big>
 
 
<big>'''नश्चापदान्तस्य झलि''' (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | '''मो‍ऽनुस्वारः''' (८.३.२३) इत्यस्मात्‌ '''मः''', '''अनुस्वारः''' इत्यनयोः अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अपदान्तस्य मः नः च अनुस्वारः''' '''झलि संहितायाम्''' |</big>
 
<big>F. पवर्गः</big>
 
 
<big>पकारः, फकारः, बकारः, भकारः</big>
 
<big>धातोः अन्तिमो वर्णः प्‌, फ्‌, ब्‌, भ्‌ एषु अन्यतमश्चेत्‌‌, सादिप्रत्यये परे तस्य वर्णस्य स्थाने पकारो भवति |</big>
 
 
<big>प्‌, फ्‌, ब्‌, भ्‌ → प्‌ | '''खरि च''' (८.४.५५) इत्यनेन सकारे परे, पवर्गीयवर्णानामपि प्रथमसदस्यादेशो भवति | सकारस्य कोऽपि विकारो न भवति |</big>
Line 363 ⟶ 402:
 
<big>लालभ्‌ + सि → '''खरि च''' (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → लालप्‌ + सि → लालप्सि</big>
 
 
<big>भष्‌-भावः</big>
 
<big>दादम्भ्‌ + सि → '''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' (८.२.३७) इत्यनेन धातोरवयवो यो झषन्त एकाच्‌, तस्य बशः भषादेशः सकारे परे → दाधम्भ्‌ + सि → '''खरि च''' (८.४.५५) इत्यनेन चर्त्वादेशः → दाधम्प्‌ + सि → दाधम्प्सि</big>
 
 
<big>अत्र '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन नकारस्य अनुस्वारः, '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनेन अनुस्वारस्य मकारः इति यथासामान्यं भवति |</big>
 
 
<big>मकारः</big>
<big><u>मकारः</u></big>
 
<big>सकारः झलि अतः '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन अपदान्तस्य मकारस्य स्थाने अनुस्वारादेशः |</big>
 
 
<big>रम्‌ + स्यते → '''नश्चापदान्तस्य झलि''' (८.३.२४) → रंस्यते</big>
Line 379 ⟶ 422:
 
<big>संगम्‌ + स्यते → '''नश्चापदान्तस्य झलि''' (८.३.२४) → संगंस्यते</big>
 
 
<big>G. यकारः, वकारः</big>
 
<big>यकारस्य लोपः भवति सकारे परे | सकारः वल्‌-प्रत्याहारे विद्यमानत्वात्‌ |</big>
 
 
<big>जहाय्‌ + सि → जहासि</big>
 
<big>'''लोपो व्योर्वलि''' (६.१.६६) = वकारयकारयोः लोपो भवति वल्‌-प्रत्याहारे परे | व्‌ च य्‌ च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः | लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— '''व्योः लोपः वलि''' |</big>
 
 
<big>वकारस्य अपि '''लोपो व्योर्वलि''' (६.१.६६) इत्यनेन लोपो भवति | किन्तु वस्तुतस्तु समग्रसंस्कृतभाषायां द्वयोः धात्वोः एव उदाहरणं भवति, तच्च यङ्लुकि एव | अन्यत्र सर्वत्र सार्वधातुकप्रक्रियायां विकरणप्रत्ययः मध्ये आयाति; आर्धधातुकप्रक्रियायाम्‌ इडागमः मध्ये आयाति | अतः वकारसम्बद्ध-हल्‌-सन्धेः अवसरः नास्ति |</big>
 
<big>यङ्लुकि आधिक्येन ये वकारान्तधातवः भवन्ति, तेषां सकारे परे '''राल्लोपः''' (६.४.२१) इत्यनेन वकारलोपो भवति | अपि च येषां वकारान्तधातूनां '''राल्लोपः''' (६.४.२१) इत्यनेन वकारलोपः न भवति स्म, नाम येषां धातूनां वकारात्‌ पूर्वं रेफः नास्ति, तेषां धातूनां यङ्लुक्‌-धातुः एव न भवति महाभाषस्य ज्ञापनात्‌ | यथा दिव्‌-धातुः; महाभाषस्य ज्ञापकत्वात्‌ तस्य यङ्लुगन्तधातुः न भवति | ष्ठिवु (ष्ठिव्‌)-धातुः अपि तथा |</big>
 
 
<big>येषां वकारान्तधातूनाम्‌ अन्तिमवकारात्‌ प्राक्‌ रेफः अस्ति, यथा धुर्व्‌, तुर्व्‌, थुर्व्‌, दुर्व्‌, मूर्व्‌, पूर्व्‌, खर्व्‌, गर्व्‌, चर्व्‌, पर्व्‌, भर्व्‌, मर्व्‌, शर्व्‌, षर्व्‌, एतादृशेभ्यः वकारान्तधातुभ्यः यङः लुक्‌ भवति | किन्तु एषाम्‌ अन्तिमवकारस्य लोपो भवति '''राल्लोपः''' (६.४.२१) इति सूत्रेण |</big>
 
<big>तोतुर्व्‌ + सि → '''राल्लोपः''' (६.४.२१) इत्यनेन झलादि-प्रत्यये परे वकारलोपः → तोतुर्‍ + सि → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधा-गुणः → तोतोर्‍ + सि → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम्‌ → तोतोर्षि</big>
 
 
<big>'''राल्लोपः''' (६.४.२१) = रेफात्‌ परस्य छकारस्य वकारस्य च लोपो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | रात्‌ पञ्चम्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इत्यस्मात्‌ '''च्छ्वोः''' इत्यस्य अनुवृत्तिः; अत्र धेयं यत्‌ अनुवृत्तौ 'तक्‌-सहितः छकारः' सत्यपि व्याख्याने तुगागमो नापेक्षितः अतः न स्वीकृतः | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात्‌ '''अनुनासिकस्य''', '''क्विझलोः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य रात्‌ च्छ्वोः''' '''लोपः अनुनासिके क्विझलोः''' |</big>
 
<big>महाभाष्ये दत्तम्‌ अस्ति यत्‌ '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इत्यनेन ये ऊठ्‌-भाविनः वकारान्तधातवः सन्ति, तेषां यङ्लुक्‌ न भवति | ऊठ्‌-भावी धातुः इत्युक्ते तादृशधातुः यस्य '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इति सूत्रेण ऊठ्‌-आदेशः सम्भवति |</big>
 
 
<big>'''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) = तुक्‌-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्‌-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ्‌ च व्‌ च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श्‌ च ऊठ्‌ च तयोः समाहारद्वन्द्वः शूड्‌ | '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड्‌ प्रथमान्तम्‌, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात्‌ '''क्विझलोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''च्छ्वोः अङ्गस्य शूड्‌''' '''क्विझलोः''' '''अनुनासिके च''' |</big>
 
<big>तर्हि द्वयोः धात्वोः एव यङ्लुकि हल्‌-सन्धेः अवसरो भवति, तौ च कौ ? स्रिव्‌, मव्‌ इति द्वौ धातू ऊठ्‌-भाविनौ, किन्तु '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इति सूत्रेण न तु '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इति सूत्रेण | अस्मिन्‌ सूत्रे एतौ द्वौ वकारान्तधातू साक्षात्‌ उल्लेखितौ, अतः एतौ द्वावेव ययोः यङ्लुक्‌ रूपं भवति | (अस्मिन्‌ सूत्रे अव्‌-धातुः अपि पठितः, किन्तु स च धातुः अजादिः इति कारणतः यङ्‌-प्रत्ययः न विधीयते; तदर्थं तस्य यङ्लुक्‌ अपि न भवति |)</big>
 
 
<big>'''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) = ज्वर्‍, त्वर्‍, स्रिव्‌, अव्‌, मव्‌ इत्येषां धातूनाम्‌ उपधा च वकारः चेत्यनयोः मिलित्वा स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | ज्वरश्च त्वरश्च स्रिविश्च अविश्च मव्‌ च तेषामितरेतरद्वन्द्वः ज्वरत्वरस्रिव्यविमवः, तेषां ज्वरत्वरस्रिव्यविमवाम्‌ | ज्वरत्वरस्रिव्यविमवाम्‌ षष्ठ्यन्तम्‌, उपधायाः षष्ठ्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इत्यस्मात्‌ '''वः''', '''ऊठ्‌''', '''अनुनासिके''' इत्येषाम्‌ अनुवृत्तिः | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात्‌ '''क्विझलोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ज्वरत्वरस्रिव्यविमवाम्‌ अङ्गस्य उपधायाः वः च ऊठ्‌''' '''क्विझलोः अनुनासिके च''' |</big>
 
 
<big>द्वयोः वकारान्तधात्वोः हल्‌‍-सन्धौ वकारलोपः</big>
<big><u>द्वयोः वकारान्तधात्वोः हल्‌‍-सन्धौ वकारलोपः</u></big>
 
<big>मव्‌-धातोः यङ्लुकि मामव्‌ इति धातुरूपम्‌ | लटि‌ मामव्‌ रूपाणि इमानि—</big>
Line 425 ⟶ 476:
 
<big>मामव्‌ + मः → '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) → मामूमः</big>
 
 
<big>किन्तु 'मामव्‌ + वः' इति स्थले 'वः' प्रत्ययस्य आदौ वकारः न झल्‌-वर्णः न वा अनुनासिकः | किन्तु वल्‌-प्रत्याहारे तु अस्ति, अतः अत्र '''लोपो व्योर्वलि''' (६.१.६६) इत्यस्य अवसरो भवति |</big>
 
<big>मामव्‌ + वः → माम + वः → मामावः</big>
 
 
<big>लङि च— अमामव्‌ + व → अमामाव</big>
 
<big>'''अतो दीर्घो यञि''' (७.३.१०१) = अदन्ताङ्गस्य दीर्घत्वं यञादि-सार्वधातुकप्रत्यये परे | यञ्‌ प्रत्याहारः = य व र ल ञ म ङ ण न झ भ | अतः षष्ठ्यन्तं, दीर्घः प्रथमान्तं, यञि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''तुरुस्तुशम्यमः सार्वधातुके''' (७.३.९५) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते ह्रस्व-अकारः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः; '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन '''यञि सार्वधातुके''' इत्युक्तौ यञादि-सार्वधातुके | अनुवृत्ति-सहितसूत्रम्‌— '''अतः अङ्गस्य दीर्घः यञि सार्वधातुके''' |</big>
 
 
<big>अतः वकारान्तधातोः हल्सन्धेः उदाहरणं लभ्यते किन्तु केवलं वकारादिप्रत्यये परे | सकारादिप्रत्यये परे ऊठ्भावो भवति; स च ऊठ्भावः अङ्गकार्यं न तु सन्धिकार्यम्‌ |</big>
Line 438 ⟶ 492:
<big>एवमेव स्रिव्‌ → सेस्रिव्‌ इति यङ्लुगन्तधातुः | लटि रूपाणि कल्पनीयानि | पित्सु प्रत्ययेषु '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इत्यस्य नित्यत्वात्‌ सर्वप्रथमं भवति, न तु '''पुगन्तलघूपधस्य च''' (७.३.८६) |</big>
 
 
<big>H. लकारः</big>
<big>H. <u>लकारः</u></big>
 
<big>लकारस्य विकारो नास्ति; '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम्‌ |</big>
 
 
<big>गल्‌ → जागल्‌ + सि → '''आदेशप्रत्यययोः''' (८.३.५९) → जागल्‌षि</big>
Line 449 ⟶ 505:
 
 
<big>I. रेफः</big>
 
रेफस्य विकारो नास्ति; आदेशप्रत्यययोः (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम्‌ |
 
(जागृ + सि →) जागर्‍ + सि → आदेशप्रत्यययोः (८.३.५९) → जागर्षि
 
J. सकारः
 
धातोरन्तिमो वर्णः सकारश्चेत्‌, सार्वधातुकप्रत्यये परे केवलं वर्णमेलनम्‌‌; आर्धधातुकप्रत्यये परे धात्वङ्गसकारस्य तकारादेशो भवति, सः स्यार्धधातुके (७.४.४९) इति सूत्रेण |
 
धातुः सकारान्तः चेत्‌, तर्हि प्रत्ययः सार्वधातुको वा आर्धधातुको वा इति विचार्यताम्‌ |
 
प्रत्ययः सार्वधातुकः चेत्‌, केवलं वर्णमेलनम्‌—
 
आस्‌ + से → आस्से
 
<big>रेफस्य विकारो नास्ति; '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम्‌ |</big>
प्रत्ययः आर्धधातुकः चेत्‌, धात्वङ्गसकारस्य तकारादेशो भवति—
 
वस्‌ + स्यति → सः स्यार्धधातुके (७.४.४९) इत्यनेन सकारादि-आर्धधातुकप्रत्यये परे सकारस्य स्थाने तकारादेशः → वत्‌ + स्यति → वत्स्यति
 
<big>(जागृ + सि →) जागर्‍ + सि → '''आदेशप्रत्यययोः''' (८.३.५९) → जागर्षि</big>
घस्‌ + स्यति → सः स्यार्धधातुके (७.४.४९) → घत्‌ + स्यति → घत्स्यति
 
सः स्यार्धधातुके (७.४.४९) = सकारस्य स्थाने तकारादेशो भवति सकारादि-आर्धधातुकप्रत्यये परे | सः षष्ठ्यन्तं, सि सप्तम्यन्तम्‌, आर्धधातुके सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | अच उपसर्गात्तः (७.४.४७) इत्यस्मात्‌ तः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— सः अङ्गस्य तः सि आर्धधातुके |
 
<big>J. सकारः</big>
 
I. रेफः
 
<big>धातोरन्तिमो वर्णः सकारश्चेत्‌, सार्वधातुकप्रत्यये परे केवलं वर्णमेलनम्‌‌; आर्धधातुकप्रत्यये परे धात्वङ्गसकारस्य तकारादेशो भवति, '''सः स्यार्धधातुके''' (७.४.४९) इति सूत्रेण |</big>
रेफस्य विकारो नास्ति; '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम्‌ |
 
(जागृ + सि →) जागर्‍ + सि → '''आदेशप्रत्यययोः''' (८.३.५९) → जागर्षि
 
<big>धातुः सकारान्तः चेत्‌, तर्हि प्रत्ययः सार्वधातुको वा आर्धधातुको वा इति विचार्यताम्‌ |</big>
J. सकारः
 
धातोरन्तिमो वर्णः सकारश्चेत्‌, सार्वधातुकप्रत्यये परे केवलं वर्णमेलनम्‌‌; आर्धधातुकप्रत्यये परे धात्वङ्गसकारस्य तकारादेशो भवति, '''सः स्यार्धधातुके''' (७.४.४९) इति सूत्रेण |
 
<big>प्रत्ययः सार्वधातुकः चेत्‌, केवलं वर्णमेलनम्‌—</big>
धातुः सकारान्तः चेत्‌, तर्हि प्रत्ययः सार्वधातुको वा आर्धधातुको वा इति विचार्यताम्‌ |
 
<big>आस्‌ + से → आस्से</big>
प्रत्ययः सार्वधातुकः चेत्‌, केवलं वर्णमेलनम्‌—
 
आस्‌ + से → आस्से
 
<big>प्रत्ययः आर्धधातुकः चेत्‌, धात्वङ्गसकारस्य तकारादेशो भवति—</big>
 
वस्‌ + स्यति → '''सः स्यार्धधातुके''' (७.४.४९) इत्यनेन सकारादि-आर्धधातुकप्रत्यये परे सकारस्य स्थाने तकारादेशः → वत्‌ + स्यति → वत्स्यति
 
घस्‌<big>वस्‌ + स्यति → '''सः स्यार्धधातुके''' (७.४.४९) इत्यनेन सकारादि-आर्धधातुकप्रत्यये परे सकारस्य स्थाने तकारादेशःघत्‌वत्‌ + स्यति → घत्स्यतिवत्स्यति</big>
 
<big>घस्‌ + स्यति → '''सः स्यार्धधातुके''' (७.४.४९) → घत्‌ + स्यति → घत्स्यति</big>
'''सः स्यार्धधातुके''' (७.४.४९) = सकारस्य स्थाने तकारादेशो भवति सकारादि-आर्धधातुकप्रत्यये परे | सः षष्ठ्यन्तं, सि सप्तम्यन्तम्‌, आर्धधातुके सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''अच उपसर्गात्तः''' (७.४.४७) इत्यस्मात्‌ '''तः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ''''''सः''' अङ्गस्य तः सि आर्धधातुके''' |
teachers
73

edits