6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2
6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2
ध्वनिमुद्रणानि -
2018 वर्गः
४) dhAtupAThe-hal-sandhiH-2---sAdipratyaye pare--vakArAnta-cintanam_+_hakArAntAH_+_abhyAsaH_2018-06-20
७) dhAtupAThe-hal-sandhiH-2---abhyAsaH_+_dhAtupAThe-hal-sandhiH-3---paricayaH_2018-07-11
2015 वर्गः -
1. dhAtupAThe_hal-sandhiH---apadAnte-sakArAdi-pratyaye-pare_2015-05-13
2. dhAtupAThe-hal-sandhiH-2_cintanam-abhyAsaH-ca_2016-06-19
यथा उक्तं गते पाठे, यावन्तः प्रत्ययाः धातुभ्यः विहिताः सन्ति, ते सर्वे आरभ्यन्ते एभिः अच्-वर्णैः (नाम अ, आ, इ, ई, उ, ऊ, ए, ऐ इत्येभिः) अथवा एभिः हल्-वर्णैः— य्, र् / व्, म्, न् / त्, थ्, ध्, स् | यदा प्रत्ययः अज्भिः वर्णैः आरभ्यते अथवा य्, र् इत्येभिः हल्-वर्णैः आरभ्यते, तदा धातुः हलन्तः चेदपि हल्-सन्धिः न भवति (केवलं वर्ण-सम्मेलनं भवति) | धातुः हलन्तः अस्ति चेत् अथवा प्रक्रियायां हलन्तः भवति (यथा धा-धातुः, दधा + तः → दध् + तः → धत्तः), अपि च प्रत्ययः त्, थ्, ध्, स् इत्येभिः वर्णैः आरभ्यते, तस्यां दशायां हल्-सन्धिः प्रचुरः लभ्यते | व्, म्, न् इत्येभिः वर्णैः आरभ्यते चेत्, विशिष्टस्थलेषु लभ्यते | सन्धिः नाम यत्र द्वयोः वर्णयोः मेलनेन वर्णविकारः भवति | हल्-सन्धिः नाम यत्र द्वयोः हल्-वर्णयोः मेलनेन वर्णविकारः भवति, इति तु जानीमः |
सम्प्रति चत्वारः पाठाः क्रियमाणास्सन्ति येषु हलन्तेभ्यो धातुभ्यः कथं तकारादिप्रत्ययाः, थकारादिप्रत्ययाः, धकारादिप्रत्ययाः, सकारादिप्रत्ययाश्च संयुज्यन्ते इति परिशील्यमानम् | चतुर्षु पाठेषु, अयं पाठो द्वितीयः |
A. विधयः चतुर्षु विभागेषु विभक्तः
१. हलन्तेभ्यो धातुभ्यो लङ्-लकारस्य त्-प्रत्ययः स्-प्रत्ययश्चेत्यनयोः योजनविधिः
२. हलन्तेभ्यो धातुभ्यस् सकारादिप्रत्ययानां योजनविधिः (लङ्-लकारस्य स्-प्रत्ययम् अतिरिच्य)
३. हलन्तेभ्यो धातुभ्यस् तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्-लकारस्य त्-प्रत्ययम् अतिरिच्य)
४. हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः
तर्हि चतुर्षु अयं पाठः द्वितीयः | अत्र हलन्तेभ्यो धातुभ्यस् सकारादिप्रत्ययानां योजनविधिः अवलोक्यमानः (लङ्-लकारस्य स्-प्रत्ययम् अतिरिच्य) इति | अत्र मार्गः षट्प्रकारकः—
B. हलन्तधातुभ्यः सादिप्रत्ययः चेत् अधः प्रदर्शिताः सम्भावनाः
एषु सर्वत्र स्मरणीयं यत्— (१) सकारः खर्-प्रत्याहारे अस्ति, अतः बहुत्र खरि च (८.४.५५) इत्यनेन चर्त्वसन्धेः प्रसङ्गः; (२) सकारः झल्-प्रत्याहारे अस्ति, अतः यत्र यत्र 'झलि' इति सूत्रेषु अनुवर्तते, तत्र तत्र सकारे परे तस्य प्रसङ्गः |
१. धातोरन्तिमो वर्णः क्, ख्, ग्, घ्; च्, छ्, ज्, झ्; श्, ष् एषु अन्यतमः चेत्, तस्य वर्णस्य स्थाने ककारो भवति | (खरि च इत्यनेन, चोः कुः इत्यनेन च | शकारषकारयोः कृते षढोः कः सि) | अपि च नह्-धातुम् अतिरिच्य हकारस्यापि ककारः भवति |
२. धातोरन्तिमो वर्णः ट्, ठ्, ड्, ढ् एषु अन्यतमश्चेत्, तर्हि तस्य वर्णस्य स्थाने टकारो भवति (खरि च इत्यनेन), तदा सकारस्य ष्टुत्वम् |
३. धातोरन्तिमो वर्णः त्, थ्, द्, ध् एषु अन्यतमश्चेत्, तर्हि तस्य वर्णस्य स्थाने तकारो भवति | (खरि च इत्यनेन |)
४. धातोरन्तिमो वर्णः प्, फ्, ब्, भ् एषु अन्यतमश्चेत्, तर्हि तस्य वर्णस्य स्थाने पकारो भवति | (खरि च इत्यनेन |)
५. धातोरन्तिमो वर्णः न्, म् अनयोः अन्यतमश्चेत्, तर्हि तस्य वर्णस्य स्थाने अनुस्वारो भवति | (नश्चापदान्तस्य झलि इत्यनेन |)
६. धातोरन्तिमो वर्णः यकारः चेत् तस्य लोपः लोपो व्योर्वलि (६.१.६६) इति सूत्रेण | वकारान्तस्य हल्-सन्धि-अवसरो नास्ति |
७. धातोरन्तिमो वर्णः लकारो वा रेफो वा चेत्, तस्य विकारः नास्ति |
८. धातोरन्तिमो वर्णः सकारश्चेत्, सार्वधातुकप्रत्यये परे केवलं वर्णमेलनम्; आर्धधातुकप्रत्यये परे धात्वङ्गसकारस्य तकारादेशो भवति | (सः स्यार्धधातुके इत्यनेन |)
९. धातोरन्तिमो वर्णः हकारश्चेत्, नह्-धातुम् अतिरिच्य हकारस्य ककारः | (हो ढः + षढोः कः सि अथवा दादेर्धातोर्घः + खरि च |)
C. कवर्गः, चवर्गः, षकारः, शकारः
धातोः अन्तिमो वर्णः क्, ख्, ग्, घ्; च्, छ्, ज्, झ्; श्, ष् एषु अन्यतमः चेत्, तर्हि सादिप्रत्यये परे तस्य वर्णस्य स्थाने ककारो भवति | अपि च सादिप्रत्ययस्य सकारस्य स्थाने षकारादेशो भवति आदेशप्रत्यययोः (८.३.५९) इति सूत्रेण | तदा ककारषकारयोः मेलनेन क्ष् इति भवति |
शक् + स्यति → शक् + ष्यति → शक्ष्यति
लेलेख् + सि → लेलेक् + षि → लेलेक्षि
तात्वङ्ग् + सि → तात्वङ्क् + षि → तात्वङ्क्षि
जाघघ् + सि → जाघक् + षि → जाघक्षि
लालङ्घ् + सि → लालङ्क् + षि → लालङ्क्षि
वच् + सि → वक् + षि → वक्षि
प्रच्छ् + स्यति → प्रक् + ष्यति → प्रक्ष्यति
योज् + स्यति → योक् + ष्यति → योक्ष्यति
याझर्झ् + सि → याझर्क् + षि → याझर्क्षि
क्रोश् + स्यति → क्रोक् + ष्यति → क्रोक्ष्यति
कर्ष् + स्यति → कर्क् + ष्यति → कर्क्ष्यति
१. क्, ख्, ग्, घ् → क्
प्रत्ययस्य प्रथमवर्णः त्, थ्, ध्, स् चेत् हल्-सन्धिः भवतीति उक्तम् | तेषु वर्णेषु त्, थ्, स् च खर्-प्रत्याहारे सन्ति, अतः तेषु वर्णेषु परेषु खरि च इत्यनेन चर्त्वसन्धिः (तत्तत् वर्गस्य प्रथमादेशो) भवति | अत्र सादिप्रत्ययः परः अस्ति, अतः चर्त्वसन्धिः भवतु |
तस्मात् पूर्वं किन्तु आदेशप्रत्यययोः (८.३.५९) इत्यनेन कवर्गीयवर्णात् परस्य प्रत्ययावयवस्य सकारस्य षत्वादेशः | (खरि च (८.४.५५) तदपेक्षया परत्रिपादिसूत्रम् अतः असिद्धम् |)
यथा—
त्यग् + स्यति → आदेशप्रत्ययोः → त्यग् + ष्यति
घोग् + सि → आदेशप्रत्ययोः → घोग् + षि
आदेशप्रत्यययोः (८.३.५९) = इण्-प्रत्याहारात् कवर्गीयात् च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्, तस्य सकारस्य स्थाने षकारादेशो भवति | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं स्थानेऽन्तरतमः इत्यनेन ट्, ठ्, ड्, ढ्, ण्, ष् इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्, अतः षकारः एव आदिष्टः भवति | नुम्, विसर्गः, शर्-प्रत्याहारस्थ-वर्णः एषु अन्यतमः मध्ये अस्ति चेदपि कार्यं भवति | इण्-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | अस्य कार्यस्य नाम षत्वविधिः | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम् एकपदमिदं सूत्रम् | सहे साडः सः (८.३.५६) इत्यस्मात् सः इत्यस्य अनुवृत्तिः | नुंविसर्जनीयशर्व्यवायेऽपि (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | इण्कोः (८.३.५७), अपदान्तस्य मूर्धन्यः (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्—इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि* |
सम्प्रति खरि च (८.४.५५) इत्यनेन चर्त्वादेशः—
त्यग् + ष्यति → त्यक् + ष्यति → त्यक्ष्यति
घोग् + षि → घोक् + षि → घोक्षि
खरि च (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | झलां जश् झशि (८.४.५३) इत्यस्मात् झलां इत्यस्य अनुवृत्तिः; अभ्यासे चर्च (८.४.५४) इत्यस्मात् चर्च इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— झलां चर् खरि च संहितायाम् |
अन्यानि उदाहरणानि—
शशक् + सि → शशक् + षि → शशक्षि
लेलेख् + सि → लेलेख् + षि → लेलेक् + षि → लेलेक्षि
तात्वङ्ग् + सि → तात्वङ्ग् + षि → तात्वङ्क् + षि → तात्वङ्क्षि
जाघग् + सि → जाघग् + षि → जाघक् + षि → जाघक्षि
लालङ्घ् + सि → लालङ्घ् + षि → लालङ्क् + षि → लालङ्क्षि
*प्रश्नः उदेति यत् नुम्, विसर्गः, शर् व्यवाये चेदपि षत्वमित्यस्य दृष्टान्तः कः ?
व्यवाये नुम् इत्यस्य दृष्टान्ताः एते— सर्पींषि, यजूंषि, हवींषि | सर्पिस् (घृतं), यजुस् (पूजा), हविस् (हव्यम्) इति प्रातिपदिकानि | अत्र बोध्यं कथं निष्पन्नं सर्पिस् इति प्रातिपदिकम् | सृप गतौ, लटि सर्पति | सृप्-धातुः + इसि इति उणादिप्रत्ययः | सृप + इसि → अनुबन्धलोपे → सृप् + इस् → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणः → सर्पिस् इति प्रातिपदिकम् | नपुंसके प्रथमाविभक्तौ बहुवचने सर्पिस् + इ → नुम्-आगमः → सर्पिंस् + इ → → नुम्-व्यवायेऽपि षत्वम् → सर्पींषि | अतः अयं सकारः प्रत्ययस्य एव | एवमेव यजूंषि, हवींषि |
व्यवाये विसर्गस्य दृष्टान्ताः एते— सर्पिःषु, यजुःषु, हविःषु | नपुंसके सप्तमीविभक्तौ बहुवचने सर्पिस् + सुप् → सर्पिस् इत्यस्य सकारस्य विसर्गादेशः, विसर्गस्य व्यवायेऽपि षत्वम् → सर्पिःषु | एवमेव यजुःषु, हविःषु |
व्यवाये शर्-प्रत्याहारस्य दृष्टान्ताः एते— सर्पिष्षु, यजुष्षु, हविष्षु | नपुंसके सप्तमीविभक्तौ बहुवचने सर्पिस् + सुप् → वा शरि (८.३.३६) इत्यनेन विकल्पेन विसर्गादेशः; पक्षे सकार एव → सकारपक्षे सकारस्य व्यवायेऽपि षत्वम् → सर्पिस् + षु → ष्टुना ष्टुः (८.४.४१) → सर्पिष्षु | एवमेव यजुष्षु, हविष्षु |
२. च्, छ्, ज्, झ् → क्
चोः कुः (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चोः कुः झलि पदस्य अन्ते च |
गते पाठे अस्य सूत्रस्य प्रयोगः अस्माभिः दृष्टः पदान्ते, लङ्-लकारप्रसङ्गे | परन्तु झलि अपि भवति इत्युक्तम् | सकारः झलि अस्ति, अतः अत्रापि इदं कार्यं प्रसक्तम् | [त्, थ्, ध्, स् एते सर्वे हल्-सन्धिनिमित्तकवर्णाः झलि सन्ति |]
चोः कुः इत्यनेन सकारे परे कुत्वं विहितम्—
च् → क्
छ् → ख्
ज् → ग्
झ् → घ्
चकारस्य प्रकारद्वयम्—
अ) सामान्यम् = चोः कुः (८.२.३०) इत्यनेन कुत्वम्
वच् + स्यति → चोः कुः (८.२.३०) → वक् + स्यति → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम् → वक् + ष्यति → वक्ष्यति
आ) व्रश्च्-धातुः
अत्र व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन षत्वम् |
वाव्रश्च् + सि → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन संयोगे पूर्वसकारलोपः → वाव्रच् + सि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन षत्वम् → वाव्रष् + सि → षढोः कः सि (८.२.४१) इत्यनेन सकारे परे षकारस्य ककारादेशः → वाव्रक् + सि → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम् → वाव्रक्षि
प्रश्नः उदेति कथं स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन शकारलोपः यदा सूत्रेण सकारलोपस्य विधानम् | सामान्यतया वदामः यत् 'वस्तुतः अत्र मूले सकारः आसीत्; श्चुत्वसन्धिना एव शकारः जातः' | अस्तु, तत्तु सत्यं; किन्तु अधुना शकारः अस्ति किल न तु सकारः | इति चेत् कथं वा स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन सकारलोपः स्यात् ? अकृतव्यूहाः पाणिनीयाः (५६) इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम् इत्यस्मात् व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन श्चुत्वसन्धेः निमित्तचकारस्य जायमानात् नाशात् स्तोः श्चुना श्चुः (८.४.४०) इति सूत्रं न प्रवर्तनीयमेव | अतः स्कारः तिष्ठति | वाव्रस्च् + सि → स्कोः संयोगाद्योरन्ते च (८.२.२९) → वाव्रच् + सि |
स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स् च क् च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च |
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्, छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श् च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम् | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र 'जच्छशां' इति भागे छे च (६.१.७३) इत्यनेन तुक्-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |
षढोः कः सि (८.२.४१) = षकारस्य ढकारस्य च ककारादेशो भवति सकारे परे | ष्टुना ष्टुः (८.४.४१) इत्यस्य अपवादः | षश्च ढश्च तयोः इतरेतरद्वन्द्वः षढौ, तयोः षढोः | षढोः षष्ठ्यन्तं, कः प्रथमान्तं, सि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णं— षढोः कः सि |
छकारस्य प्रकारद्वयम्—
अ) सामान्यम् = च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यनेन शत्वं, तदा व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन षत्वम्
पाप्रच्छ् + सि → च्छ्वोः शूडनुनासिके च (६.४.१९) → पाप्रश् + सि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → पाप्रष् + सि → षढोः कः सि (८.२.४१) → पाप्रक् + सि → पाप्रक् + षि → पाप्रक्षि
च्छ्वोः शूडनुनासिके च (६.४.१९) = तुक्-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ् च व् च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श् च ऊठ् च तयोः समाहारद्वन्द्वः शूड् | झलां जशोऽन्ते (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड् प्रथमान्तम्, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात् क्विझलोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— च्छ्वोः अङ्गस्य शूड् क्विझलोः अनुनासिके च |
आ) रेफपूर्वक-छकारान्तधातुः = राल्लोपः (६.४.२१) इत्यनेन छकारलोपः
मोमुर्छ् + सि → राल्लोपः (६.४.२१) इत्यनेन झलादि-प्रत्यये छकारलोपः → मोमुर् + सि → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधा-गुणः → मोमोर् + सि → षत्वम् → मोमोर्षि
राल्लोपः (६.४.२१) = रेफात् परस्य छकारस्य वकारस्य च लोपो भवति क्वि, झलादि-प्रत्ययः, अनुनासिकः च परे अस्ति चेत् | रात् पञ्चम्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यस्मात् च्छ्वोः इत्यस्य अनुवृत्तिः; अत्र धेयं यत् अनुवृत्तौ 'तक्-सहितः छकारः' सत्यपि व्याख्याने तुगागमो नापेक्षितः अतः न स्वीकृतः | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात् अनुनासिकस्य, क्विझलोः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य रात् च्छ्वोः लोपः अनुनासिके क्विझलोः |
जकारस्य प्रकारद्वयम्—
अ) सामान्यम् = चोः कुः (८.२.३०) इत्यनेन कुत्वम्
त्यज् + स्यति → चोः कुः (८.२.३०) इत्यनेन सकारे (झलि) परे कुत्वम् → त्यग् + स्यति → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम् → त्यग् + ष्यति → खरि च (८.४.५५) इत्यनेन चर्त्वं → त्यक् + ष्यति → त्यक्ष्यति
योज् + स्यति → योग् + स्यति → योग् + ष्यति → योक् + ष्यति → योक्ष्यति
आ) भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज् इत्येषां षत्वम्
एतेषां षत्वं भवति व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रेण यतोहि एते धातवः असिन् सूत्रे साक्षात् उक्ताः |
बाभ्रस्ज् + सि → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन झलि परे संयोगस्य प्रथमसदस्यस्थ-सकारस्य लोपः → बाभ्रज् + सि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन जकारस्य षत्वम् → बाभ्रष् + सि → षढोः कः सि (८.२.४१) इत्यनेन सकारे परे षकारस्य ककारादेशः → बाभ्रक् + सि → आदेशप्रत्यययोः (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम् → बाभ्रक्षि
सरीस्रज् + सि →
मरीमार्ज् + सि →
यायज् + सि →
राराज् + सि →
बाभ्राज् + सि →
झकारान्तस्य एकः प्रकारः— चोः कुः (८.२.३०) इत्यनेन कुत्वम्
जाझर्झ् + सि → चोः कुः (८.२.३०) इत्यनेन कुत्वम् → जाझर्घ् + सि → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम् → जाझर्घ् + षि → खरि च (८.४.५५) इत्यनेन खरि परे झलः स्थाने चरादेशः → जाझर्क् + षि → जाझर्क्षि
३. ष् → क्
षढोः कः सि (८.२.४१) = षकारस्य ढकारस्य च ककारादेशो भवति सकारे परे | ष्टुना ष्टुः (८.४.४१) इत्यस्य अपवादः | षश्च ढश्च तयोः इतरेतरद्वन्द्वः षढौ, तयोः षढोः | षढोः षष्ठ्यन्तं, कः प्रथमान्तं, सि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णं— षढोः कः सि |
यथा— कर्ष् + स्यति → षढोः कः सि (८.२.४१) इत्यनेन षकारस्य ककारादेशः → कर्क् + स्यति → आदेशप्रत्यययोः (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम् → कर्क् + ष्यति → कर्क्ष्यति
४. श् → ष् → क्
प्रत्ययस्य आदौ सकारः झलि, अतः धात्वन्तस्य शकारस्य स्थाने षकारादेशो भवति |
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्, छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अनुवृत्ति-सहितसूत्रम्— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |
यथा—
क्रोश् + स्यति → क्रोष् + स्यति
वश् + सि → वष् + सि
अधुना ष् → क्
क्रोष् + स्यति → षढोः कः सि (८.२.४१) इत्यनेन षकारस्य ककारादेशः → क्रोक् + स्यति → आदेशप्रत्यययोः (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम् → क्रोक् + ष्यति → क्रोक्ष्यति
वष् + सि → षढोः कः सि (८.२.४१) इत्यनेन षकारस्य ककारादेशः → वक् + सि → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम् → वक् + षि → वक्षि
D. टवर्गः
१. टकारः, ठकारः, डकारः
टकारस्य, ठकारस्य, डकारस्य च प्रभावेन अग्रे स्थितस्य सकारस्य ष्टुना ष्टुः (८.४.४१) इत्यनेन ष्टुत्वादेशः | तदा स च षकारः खरि अस्ति इति कृत्वा टकार-ठकार-डकाराणां चरादेशः खरि च (८.४.५५) इत्यनेन |
रारट् + सि → ष्टुना ष्टुः (८.४.४१) इत्यनेन ष्टुत्वादेशः → रारट् + षि → खरि च (८.४.५५) इत्यनेन खरि परे झलः स्थाने चरादेशः → रारट् + षि → रारट्षि
लोलोठ् + सि → ष्टुना ष्टुः (८.४.४१) → खरि च (८.४.५५) → लोलोट्षि
चाकड् + सि → ष्टुना ष्टुः (८.४.४१) → खरि च (८.४.५५) → चाकट्षि
ष्टुना ष्टुः (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | अनुवृत्ति-सहितसूत्रं— स्तोः ष्टुना ष्टुः संहितायाम् |
२. ढकारः
ढकारस्य षढोः कः सि (८.२.४१) इत्यनेन ककारादेशः, तदा आदेशप्रत्यययोः (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम् |
वावढ् + सि → षढोः कः सि (८.२.४१) → वावक् + सि → आदेशप्रत्यययोः (८.३.५९) → वावक्षि
३. णकारः
रंरण् + सि → णकारस्य प्रभावेन ष्टुना ष्टुः (८.४.४१) इत्यनेन अग्रे स्थितस्य सकारस्य ष्टुत्वादेशः → रंरण्षि
E. तवर्गः
तकारः, थकारः, दकारः, धकारः
धातोः अन्तिमो वर्णः त्, थ्, द्, ध् एषु अन्यतमश्चेत्, सकारे परे खरि च (८.४.५५) इत्यनेन खरि परे झलः स्थाने चरादेशः → एषां स्थाने तकारादेशः |
त्, थ्, द्, ध् → त् | खरि च (८.४.५५) इत्यनेन सकारे परे, तवर्गीयाणां प्रथमसदस्यादेशः | सकारस्य कोऽपि विकारो न भवति |
यथा—
चाचत् + सि → खरि च (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → चाचत् + सि → चाचत्सि
वाव्यथ् + सि → खरि च (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → वाव्यत् + सि → वाव्यत्सि
अद् + स्यति → खरि च (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → अत् + स्यति → अत्स्यति
क्रोध् + स्यति → खरि च (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → क्रोत् + स्यति → क्रोत्स्यति
विशेषः—
अस्मिन् समूहे बशो भष् (३४ → ४४) इत्यस्य सम्भावना वर्तते |
एकाचो बशो भष् झषन्तस्य स्ध्वोः (८.२.३७) = बशः भषादेशः
यथा—
बन्ध् + स्यति → एकाचो बशो भष् झषन्तस्य स्ध्वोः (८.२.३७) इत्यनेन धातोरवयवो यो झषन्त एकाच्, तस्य बशः भषादेशः सकारे परे → भन्ध् + स्यति → खरि च (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → भन्त् + स्यति → भन्त्स्यति
बुध् + स्यते → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणः → बोध् + स्यते → एकाचो बशो भष् झषन्तस्य स्ध्वोः (८.२.३७) इत्यनेन भषादेशः → भोध् + स्यते → खरि च (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → भोत् + स्यते → भोत्स्यते
परिचयः— धातोः आदौ बश् (ब, ग, ड, द) अपि च अन्ते झष् (झ, भ, घ, ढ, ध), तस्य धातोः नाम एकाच्-बशादि-झषन्तधातुः | यथा बन्ध्-धातुः, बुध्-धातुः च | यदि उपर्युक्त-हकारान्तधातुसम्बद्ध-सूत्रैः हकारस्य स्थाने झषादेशः सञ्जातः (दृष्टान्ते— दुह् → दुघ्) तर्हि सोऽपि तादृशो धातुः | एकाच्-बशादि-झषन्तधातोः आदौ स्थितस्य बशः स्थाने भषादेशो भवति (भ, घ, ढ, ध) सकारादि-प्रत्यये परे, ध्व-शब्दे परे, पदान्ते च | अतः वदामः यत् '३४ → ४४' इत्युक्तौ यत्र धातोः आदौ वर्गस्य तृतीयसदस्यः (३), अन्ते च वर्गस्य चतुर्थसदस्यः (४), तत्र आदौ स्थितस्य तृतीयसदस्यस्य स्थाने चतुर्थसदस्यादेशो भवति (३ → ४) | आहत्य ३४ → ४४ इति विकारः | धेयं यत् अयं बश्-वर्णः धातोः अन्तिम-अंशस्य आदौ अपि भवितुमर्हति | अनेन धातुः अनेकाच् चेदपि, तस्य धातोः एकाच्-बशादि-झषन्तधात्वंशः अस्ति चेत्, अत्रापि ३४ → ४४ इति विकारो भवति |
एकाचो बशो भष् झषन्तस्य स्ध्वोः (८.२.३७) = धातोरवयवो यो झषन्त एकाच्, तस्य बशः भषादेशो भवति सकारे परे, ध्व-शब्दे परे, पदान्ते च | अनुवृत्तिसहितसूत्रे 'एकाचः झषन्तस्य' इत्यनयोरेव विशेषणविशेष्यभावः; धातोः तादृशांशः इति तात्पर्यम् | अनेन धातोः एकाच् वा तदधिकाः वा अर्हाः | एकोऽच् यस्मिन् स एकाच् बहुव्रीहिः, तस्य एकाचः | झष् अन्ते यस्य स झषन्तः बहुव्रीहिः, तस्य झषन्तस्य | स् च ध्व् च स्ध्वौ इतरेतरद्वन्द्वः, तयोः स्ध्वोः | एकाचः षष्ठ्यन्तं, बशः षष्ठ्यन्तं, भष् प्रथमान्तं, झषन्तस्य षष्ठ्यन्तं, स्ध्वोः सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | दादेर्धातोर्घः (८.२.३२) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— धातोः एकाचः झषन्तस्य बशः भष् स्ध्वोः पदस्य अन्ते च |
नकारः
सकारः झलि अतः नश्चापदान्तस्य झलि (८.३.२४) इत्यनेन अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः |
हन् + सि → हंसि
मन् + स्यते → मंस्यते
नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | मोऽनुस्वारः (८.३.२३) इत्यस्मात् मः, अनुस्वारः इत्यनयोः अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |
F. पवर्गः
पकारः, फकारः, बकारः, भकारः
धातोः अन्तिमो वर्णः प्, फ्, ब्, भ् एषु अन्यतमश्चेत्, सादिप्रत्यये परे तस्य वर्णस्य स्थाने पकारो भवति |
प्, फ्, ब्, भ् → प् | खरि च (८.४.५५) इत्यनेन सकारे परे, पवर्गीयवर्णानामपि प्रथमसदस्यादेशो भवति | सकारस्य कोऽपि विकारो न भवति |
यथा—
आप् + स्यति → खरि च (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → आप् + स्यति → आप्स्यति
रारफ् + सि → खरि च (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → रारप् + सि → रारप्सि
चाकब् + सि → खरि च (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → चाकप् + सि → चाकप्सि
लालभ् + सि → खरि च (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → लालप् + सि → लालप्सि
भष्-भावः
दादम्भ् + सि → एकाचो बशो भष् झषन्तस्य स्ध्वोः (८.२.३७) इत्यनेन धातोरवयवो यो झषन्त एकाच्, तस्य बशः भषादेशः सकारे परे → दाधम्भ् + सि → खरि च (८.४.५५) इत्यनेन चर्त्वादेशः → दाधम्प् + सि → दाधम्प्सि
अत्र नश्चापदान्तस्य झलि (८.३.२४) इत्यनेन नकारस्य अनुस्वारः, अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनेन अनुस्वारस्य मकारः इति यथासामान्यं भवति |
मकारः
सकारः झलि अतः नश्चापदान्तस्य झलि (८.३.२४) इत्यनेन अपदान्तस्य मकारस्य स्थाने अनुस्वारादेशः |
रम् + स्यते → नश्चापदान्तस्य झलि (८.३.२४) → रंस्यते
नम् + स्यति → नश्चापदान्तस्य झलि (८.३.२४) → नंस्यति
संगम् + स्यते → नश्चापदान्तस्य झलि (८.३.२४) → संगंस्यते
G. यकारः, वकारः
यकारस्य लोपः भवति सकारे परे | सकारः वल्-प्रत्याहारे विद्यमानत्वात् |
जहाय् + सि → जहासि
लोपो व्योर्वलि (६.१.६६) = वकारयकारयोः लोपो भवति वल्-प्रत्याहारे परे | व् च य् च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः | लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णं— व्योः लोपः वलि |
वकारस्य अपि लोपो व्योर्वलि (६.१.६६) इत्यनेन लोपो भवति | किन्तु वस्तुतस्तु समग्रसंस्कृतभाषायां द्वयोः धात्वोः एव उदाहरणं भवति, तच्च यङ्लुकि एव | अन्यत्र सर्वत्र सार्वधातुकप्रक्रियायां विकरणप्रत्ययः मध्ये आयाति; आर्धधातुकप्रक्रियायाम् इडागमः मध्ये आयाति | अतः वकारसम्बद्ध-हल्-सन्धेः अवसरः नास्ति |
यङ्लुकि आधिक्येन ये वकारान्तधातवः भवन्ति, तेषां सकारे परे राल्लोपः (६.४.२१) इत्यनेन वकारलोपो भवति | अपि च येषां वकारान्तधातूनां राल्लोपः (६.४.२१) इत्यनेन वकारलोपः न भवति स्म, नाम येषां धातूनां वकारात् पूर्वं रेफः नास्ति, तेषां धातूनां यङ्लुक्-धातुः एव न भवति महाभाषस्य ज्ञापनात् | यथा दिव्-धातुः; महाभाषस्य ज्ञापकत्वात् तस्य यङ्लुगन्तधातुः न भवति | ष्ठिवु (ष्ठिव्)-धातुः अपि तथा |
येषां वकारान्तधातूनाम् अन्तिमवकारात् प्राक् रेफः अस्ति, यथा धुर्व्, तुर्व्, थुर्व्, दुर्व्, मूर्व्, पूर्व्, खर्व्, गर्व्, चर्व्, पर्व्, भर्व्, मर्व्, शर्व्, षर्व्, एतादृशेभ्यः वकारान्तधातुभ्यः यङः लुक् भवति | किन्तु एषाम् अन्तिमवकारस्य लोपो भवति राल्लोपः (६.४.२१) इति सूत्रेण |
तोतुर्व् + सि → राल्लोपः (६.४.२१) इत्यनेन झलादि-प्रत्यये परे वकारलोपः → तोतुर् + सि → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधा-गुणः → तोतोर् + सि → आदेशप्रत्यययोः (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम् → तोतोर्षि
राल्लोपः (६.४.२१) = रेफात् परस्य छकारस्य वकारस्य च लोपो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | रात् पञ्चम्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यस्मात् च्छ्वोः इत्यस्य अनुवृत्तिः; अत्र धेयं यत् अनुवृत्तौ 'तक्-सहितः छकारः' सत्यपि व्याख्याने तुगागमो नापेक्षितः अतः न स्वीकृतः | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात् अनुनासिकस्य, क्विझलोः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य रात् च्छ्वोः लोपः अनुनासिके क्विझलोः |
महाभाष्ये दत्तम् अस्ति यत् च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यनेन ये ऊठ्-भाविनः वकारान्तधातवः सन्ति, तेषां यङ्लुक् न भवति | ऊठ्-भावी धातुः इत्युक्ते तादृशधातुः यस्य च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रेण ऊठ्-आदेशः सम्भवति |
च्छ्वोः शूडनुनासिके च (६.४.१९) = तुक्-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ् च व् च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श् च ऊठ् च तयोः समाहारद्वन्द्वः शूड् | झलां जशोऽन्ते (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड् प्रथमान्तम्, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात् क्विझलोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— च्छ्वोः अङ्गस्य शूड् क्विझलोः अनुनासिके च |
तर्हि द्वयोः धात्वोः एव यङ्लुकि हल्-सन्धेः अवसरो भवति, तौ च कौ ? स्रिव्, मव् इति द्वौ धातू ऊठ्-भाविनौ, किन्तु ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) इति सूत्रेण न तु च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रेण | अस्मिन् सूत्रे एतौ द्वौ वकारान्तधातू साक्षात् उल्लेखितौ, अतः एतौ द्वावेव ययोः यङ्लुक् रूपं भवति | (अस्मिन् सूत्रे अव्-धातुः अपि पठितः, किन्तु स च धातुः अजादिः इति कारणतः यङ्-प्रत्ययः न विधीयते; तदर्थं तस्य यङ्लुक् अपि न भवति |)
ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) = ज्वर्, त्वर्, स्रिव्, अव्, मव् इत्येषां धातूनाम् उपधा च वकारः चेत्यनयोः मिलित्वा स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | ज्वरश्च त्वरश्च स्रिविश्च अविश्च मव् च तेषामितरेतरद्वन्द्वः ज्वरत्वरस्रिव्यविमवः, तेषां ज्वरत्वरस्रिव्यविमवाम् | ज्वरत्वरस्रिव्यविमवाम् षष्ठ्यन्तम्, उपधायाः षष्ठ्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यस्मात् वः, ऊठ्, अनुनासिके इत्येषाम् अनुवृत्तिः | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात् क्विझलोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ज्वरत्वरस्रिव्यविमवाम् अङ्गस्य उपधायाः वः च ऊठ् क्विझलोः अनुनासिके च |
द्वयोः वकारान्तधात्वोः हल्-सन्धौ वकारलोपः
मव्-धातोः यङ्लुकि मामव् इति धातुरूपम् | लटि मामव् रूपाणि इमानि—
मामव् + ति → ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) → मामोति
मामव् + तः → ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) → मामूतः
मामव् + अति→ मामवति
मामव् + सि → ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) → मामोषि
मामव् + थः → ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) → मामूथः
मामव् + थ → ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) → मामूथ
मामव् + मि → ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) → मामोमि
मामव् + मः → ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) → मामूमः
किन्तु 'मामव् + वः' इति स्थले 'वः' प्रत्ययस्य आदौ वकारः न झल्-वर्णः न वा अनुनासिकः | किन्तु वल्-प्रत्याहारे तु अस्ति, अतः अत्र लोपो व्योर्वलि (६.१.६६) इत्यस्य अवसरो भवति |
मामव् + वः → माम + वः → मामावः
लङि च— अमामव् + व → अमामाव
अतो दीर्घो यञि (७.३.१०१) = अदन्ताङ्गस्य दीर्घत्वं यञादि-सार्वधातुकप्रत्यये परे | यञ् प्रत्याहारः = य व र ल ञ म ङ ण न झ भ | अतः षष्ठ्यन्तं, दीर्घः प्रथमान्तं, यञि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | तुरुस्तुशम्यमः सार्वधातुके (७.३.९५) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते ह्रस्व-अकारः अस्ति; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः; यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन यञि सार्वधातुके इत्युक्तौ यञादि-सार्वधातुके | अनुवृत्ति-सहितसूत्रम्— अतः अङ्गस्य दीर्घः यञि सार्वधातुके |
अतः वकारान्तधातोः हल्सन्धेः उदाहरणं लभ्यते किन्तु केवलं वकारादिप्रत्यये परे | सकारादिप्रत्यये परे ऊठ्भावो भवति; स च ऊठ्भावः अङ्गकार्यं न तु सन्धिकार्यम् |
एवमेव स्रिव् → सेस्रिव् इति यङ्लुगन्तधातुः | लटि रूपाणि कल्पनीयानि | पित्सु प्रत्ययेषु ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) इत्यस्य नित्यत्वात् सर्वप्रथमं भवति, न तु पुगन्तलघूपधस्य च (७.३.८६) |
H. लकारः
लकारस्य विकारो नास्ति; आदेशप्रत्यययोः (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम् |
गल् → जागल् + सि → आदेशप्रत्यययोः (८.३.५९) → जागल्षि
तल् → तातल् + सि → तातल्षि
दल् → दादल् + सि → दादल्षि
I. रेफः
रेफस्य विकारो नास्ति; आदेशप्रत्यययोः (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम् |
(जागृ + सि →) जागर् + सि → आदेशप्रत्यययोः (८.३.५९) → जागर्षि
J. सकारः
धातोरन्तिमो वर्णः सकारश्चेत्, सार्वधातुकप्रत्यये परे केवलं वर्णमेलनम्; आर्धधातुकप्रत्यये परे धात्वङ्गसकारस्य तकारादेशो भवति, सः स्यार्धधातुके (७.४.४९) इति सूत्रेण |
धातुः सकारान्तः चेत्, तर्हि प्रत्ययः सार्वधातुको वा आर्धधातुको वा इति विचार्यताम् |
प्रत्ययः सार्वधातुकः चेत्, केवलं वर्णमेलनम्—
आस् + से → आस्से
प्रत्ययः आर्धधातुकः चेत्, धात्वङ्गसकारस्य तकारादेशो भवति—
वस् + स्यति → सः स्यार्धधातुके (७.४.४९) इत्यनेन सकारादि-आर्धधातुकप्रत्यये परे सकारस्य स्थाने तकारादेशः → वत् + स्यति → वत्स्यति
घस् + स्यति → सः स्यार्धधातुके (७.४.४९) → घत् + स्यति → घत्स्यति