6---sArvadhAtukaprakaraNam-anadantam-aGgam/10---dhAtupAThe-hal-sandhiH-3: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(One intermediate revision by the same user not shown)
Line 396:
 
<big><br />
अन्यः प्रश्नः उदेति यत्‌ '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इति सूत्रम्‌ '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्य अपवादः वा ? '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इति सामान्यम्‌, '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इति विशेषः | यत्र यत्र '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्य प्रसक्तिः, तत्र तत्र '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्य अपि प्रसक्तिः; '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्य अन्यत्र लब्धावकाशः, '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्य अन्यत्र लब्धावकाशो नास्ति यतोहि पञ्चदशानां धातूनां स्थले '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्यापि प्रसक्तिः; तेषु पञ्चदशसु अपि यदि अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इति सूत्रं कार्यं कुर्यात्‌, '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इति सूत्रं निरवकाशं स्यात्‌ | इति भाति; नाम अपवादभूतसूत्रम् अस्ति इति भाति | किन्तु वस्तुतस्तु नास्ति तथा | किमर्थम्‌ ? द्वयोः सूत्रयोः एकत्र प्राप्तिः इति यदा कथ्यते, तदा द्वयोः कार्यस्थलं समानं भवेत्‌; अत्र किन्तु तथा नास्ति | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यनेन उपधा दीर्घः, '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यनेन अनुनासिकलोपः | '''कर्यस्थलभिन्नत्वात्‌कार्यस्थलभिन्नत्वात्‌ अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्य कार्यानन्तरम्‌ '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्य अवकाशो भवति | यथा गम्‌ + तः → उपधादीर्घः → गाम्‌ + तः → अनुनासिकलोपः → गातः इति अनिष्टं रूपं जायते | किन्तु अवकाशस्तु जातः | अनेन अपवादः वक्तुं न शक्यते | अतः गम्‌ + तः इति स्थितौ '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) भवति परत्वात्‌ न तु अपवादत्वात्‌ | तथा सर्वत्र | शिक्षा अत्र एवं यत्‌ अपवादस्य कृते कार्यं केवलं युगपत्‌ इति न; कार्यस्थलं समानमपि भवेत्‌ |</big>
 
<big><br />
Line 573:
 
<big><br />
'''दादेर्धातोर्घः''' (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ट्यन्तंषष्ठ्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दादेः धातोः हः घः झलि पदस्य अन्ते च''' |</big>
 
<big><br />
page_and_link_managers, Administrators
5,097

edits