6---sArvadhAtukaprakaraNam-anadantam-aGgam/10---dhAtupAThe-hal-sandhiH-3: Difference between revisions

no edit summary
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती)

No edit summary

(13 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE: 10 - धातुपाठे हल्‌-सन्धिः ३}}
<please replace this with content from corresponding Google Sites page>
{| class="wikitable mw-collapsible mw-collapsed"
|'''ध्वनिमुद्रणानि'''

|'''2018 वर्गः'''

|१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/125_dhAtupAThe-hal-sandhiH-2---abhyAsaH__dhAtupAThe-hal-sandhiH-3---paricayaH_2018-07-11.mp3 dhAtupAThe-hal-sandhiH-2---abhyAsaH_+_dhAtupAThe-hal-sandhiH-3---paricayaH_2018-07-11]

|२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/126_dhAtupAThe-hal-sandhiH-3---ku-cu-Tu-tu-pu-m-n-iti-dhAtvantAH__tAdi-thAdi-pratyaye-pare_2018-07-18.mp3 dhAtupAThe-hal-sandhiH-3---ku-cu-Tu-tu-pu-m-n-iti-dhAtvantAH_+_tAdi-thAdi-pratyaye-pare_2018-07-18]

|३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/127_dhAtupAThe-hal-sandhiH-3---anunAsika-y-sh-Sh-s-h-iti-dhAtvantAH__tAdi-thAdi-pratyaye-pare_2018-07-25.mp3 dhAtupAThe-hal-sandhiH-3---anunAsika-y-sh-Sh-s-h-iti-dhAtvantAH_+_tAdi-thAdi-pratyaye-pare_2018-07-25]

|४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/128_dhAtupAThe-hal-sandhiH-3---anunAsikAntebhyaH-ca-hakArAntebhyaH_tAdi-thAdi-pratyaye-pare_2018-08-01.mp3 dhAtupAThe-hal-sandhiH-3---anunAsikAntebhyaH-ca-hakArAntebhyaH_tAdi-thAdi-pratyaye-pare_2018-08-01]

|५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/129_dhAtupAThe-hal-sandhiH-3---hakArAntebhyaH_tAdi-thAdi-pratyaye-pare__hal-sandhiH-4-dhAdi-pratyaye-paricayaH_2018-08-08.mp3 dhAtupAThe-hal-sandhiH-3---hakArAntebhyaH_tAdi-thAdi-pratyaye-pare_+_hal-sandhiH-4-dhAdi-pratyaye-paricayaH_2018-08-08]

|'''2015 वर्गः'''

|१) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/39_dhAtupAThe_hal-sandhiH---apadAnte-takArAdi-thakArAdi-ca-pratyaye-pare_2015-05-20.mp3 dhAtupAThe_hal-sandhiH---apadAnte-takArAdi-thakArAdi-ca-pratyaye-pare_2015-05-20]

|२)  [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/40_dhAtupAThe_hal-sandhiH---jhaShantAnAm_nakAra-makArAntAnAm_tAdi-thAdi-ca--pare_2015-05-27.mp3 dhAtupAThe_hal-sandhiH---jhaShantAnAm_nakAra-makArAntAnAm_tAdi-thAdi-ca--pare_2015-05-27]

|३)  [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/41_dhAtupAThe_hal-sandhiH---nakAra-makArAntAnAm_kvi-pare__hakArAntebhyaH_tAdi-thAdi-ca--pare_2015-06-03.mp3 dhAtupAThe_hal-sandhiH---nakAra-makArAntAnAm_kvi-pare_+_hakArAntebhyaH_tAdi-thAdi-ca--pare_2015-06-03]

|४)  [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/42_dhAtupAThe_hal-sandhiH---hakArAntebhyaH_tAdi-thAdi-ca-pratyaye-pare_2015-06-10.mp3 dhAtupAThe_hal-sandhiH---hakArAntebhyaH_tAdi-thAdi-ca-pratyaye-pare_2015-06-10]

|'''2016 वर्गः'''

|१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/74_dhAtupAThe-hal-sandhiH-3_cintanam-abhyAsaH-ca_2016-06-26.mp3 dhAtupAThe-hal-sandhiH-3_cintanam-abhyAsaH-ca_2016-06-26]

एतावता अस्माभिर्दृष्टं यत्‌ धातुपाठे हलन्तधातुभ्यः सादिः, तादिः, थादिः, धादिः च प्रत्ययः विहितः चेत्‌ हल्‌-सन्धिर्भवति; प्रत्ययः वादिः, मादिः, नादिः चेदपि कुत्रचित्‌ भवति | प्रथमे पाठे हलन्तेभ्यो धातुभ्यो लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययश्चेत्यनयोः योजनविधिः अवलोकितः | द्वितीये पाठे हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां योजनविधिः (लङ्‌-लकारस्य स्‌-प्रत्ययम्‌ अतिरिच्य) अवलोकितः | अधुना तृतीये पाठे हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्‌-लकारस्य त्‌-प्रत्ययम्‌ अतिरिच्य) परिशीलयाम |

A. विधयः चतुर्षु विभागेषु विभक्तः

१. हलन्तेभ्यो धातुभ्यो लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययश्चेत्यनयोः योजनविधिः

२. हलन्तेभ्यो धातुभ्यस्‌ सकारादिप्रत्ययानां योजनविधिः (लङ्‌-लकारस्य स्‌-प्रत्ययम्‌ अतिरिच्य)

३. हलन्तेभ्यो धातुभ्यस्‌ तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्‌-लकारस्य त्‌-प्रत्ययम्‌ अतिरिच्य)

४. हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः

तर्हि चतुर्षु अयं पाठः तृतीयः | हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्‌-लकारस्य त्‌-प्रत्ययम्‌ अतिरिच्य) परिशील्यते |

B. हलन्तधातुभ्यः तादिप्रत्ययः थादिप्रत्ययः चेत्‌ अष्ट सम्भावनाः

एषु अष्टसु विभागेषु स्मरणीयं यत्‌— (१) तकारथकारौ खर्-प्रत्याहारे स्तः, अतः बहुत्र '''खरि च''' (८.४.५५) इत्यनेन चर्त्वसन्धेः प्रसङ्गः; (२) तकारथकारौ झल्‌-प्रत्याहारे स्तः, अतः यत्र 'झलि' इति सूत्रेषु अनुवर्तते, तत्र तकारे थकारे च परे सूत्रस्य प्रसङ्गः |

1. धात्वन्ते वर्गस्य प्रथमः, द्वितीयः, तृतीयः वर्णः एषु अन्यतमश्चेत्‌‌, धात्वन्ते चर्त्वम्‌ ['''खरि च'''] |

* क्‌, ख्‌, ग्‌ → क् ['''खरि च''']
** लेलेख्‌ + ति → लेलेक्‌ + ति → लेलेक्ति
* च्‌, ज्‌ → क्‌ ['''चोः कुः, खरि च'''] |
** भुंज्‌ + तः → भुङ्ग्‌‌ + तः → भुङ्क्‌ + तः → भुङ्क्तः
** किन्तु व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌ → ष्‌ ['''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''']
*** यायज्‌ + ति → यायष्‌ + ति → यायष्टि
*** वाव्रश्च्‌ + ति → वाव्रच्‌ + ति → वाव्रष्‌ + ति → वाव्रष्टि
* ट्‌, ठ्‌, ड्‌ → ट् ['''खरि च''']
** ईड्‌ + ते → ईड्‌ + टे → ईट्‌ + टे → ईट्टे
* त्‌, थ्‌, द्‌ → त् ['''खरि च''']
** अद्‌ + ति → अत्‌ + ति → अत्ति
** '''झरो झरि सवर्णे''' इत्यनेन हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे |
*** छिंद्‌ + तः → '''खरि च''' → छिन्त्‌ + तः → छिन्त्तः / छिन्तः]
* प्‌, फ्‌, ब्‌ → प् ['''खरि च''']
** तेप्‌ + ता → तेप्ता

2. धात्वन्ते वर्गस्य चतुर्थवर्णः चेत्‌, प्रत्ययादौ त्‌, थ्‌ इत्यनयोः धकारः ['''झषस्तथोर्धोऽधः'''], धात्वन्ते जश्त्वम्‌ ['''झलां जश्‌ झशि'''] |

* दोघ्‌ + ति → '''झषस्तथोर्धोऽधः''' → दोघ्‌ + धि → '''झलां जश्‌ झशि''' → दोग्‌ + धि → दोग्धि

3. नकारान्त-मकारान्त-धातुभ्यः कित्‌-ङित्‌-प्रत्ययः चेत्‌ धातोः उपधायाः दीर्घत्वम्‌ ['''अनुनासिकस्य क्विझलोः क्ङिति'''] |

* शम्‌ + क्त → शाम्‌ + त → शान्त
* किन्तु पञ्चदशानां धातूनां अनुनासिकलोपः ['''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति'''] |
** हन्‌ + तः → हतः | गम्‌ + तः → गतः |
* सन्धिकार्यम्‌ ['''नश्चापदान्तस्य झलि''', '''अनुस्वारस्य ययि परसवर्णः'''] | शाम्‌ + तः → शान्तः | गम्‌ + ता → गन्ता |

4. यकारान्तधातूनां यकारलोपः ['''लोपो व्योर्वलि''']

* जाहय्‌ + ति → जाहति

5. धात्वन्ते शकारः चेत्‌ श्‌ → ष्‌ ['''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः'''], तदा तकारथकारयोः ष्टुत्वम्‌ |

* वश्‌‌ + ति → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' → वष्‌ + ति → '''ष्टुना ष्टुः''' → वष्टि

6. धात्वन्ते षकारः चेत्‌ ष्टुत्वम्‌ एव |

* द्वेष्‌ + ति → '''ष्टुना ष्टुः''' → द्वेष्‌ + टि → द्वेष्टि

7. धात्वन्ते सकारः चेत्‌ वर्णमेलनम्‌ |

* आस्‌ + ते → आस्ते

8. धात्वन्ते हकारः चेत्‌ ह्‌ → ढ्‌ → लोपः, तकारथकारयोः ढकारः ['''हो ढः''', '''झषस्तथोर्धोऽधः''', '''ष्टुना ष्टुः''', '''ढो ढे लोपः'''] | लिह्‌ + ता → लेढा |

* ढकारस्य लोपानन्तरं‌ पूर्वस्थितस्य अण्‌ (अ, इ, उ) इत्यस्य दीर्घादेशः ['''ढ्रलोपे पूर्वस्य दीर्घोऽणः''']
** लिह्‌ + तः → लिढ्‌ + तः → लिढ्‌ + धः → लिढ्‌ + ढः → लि + ढः → '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' → ली + ढः → लीढः
* दकारादि-हकारान्तधातोः ह्‌ → ग्, तकारथकारयोः धकारः ['''दादेर्धातोर्घः''', '''झषस्तथोर्धोऽधः''', '''झलां जश्‌ झशि''']
** दुह्‌ + ति → दोह्‌ + ति → दोघ्‌ + ति → दोघ्‌ + धि → दोग्‌ + धि → दोग्धि
* द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌ इत्येषां वा ह्‌ → ग्, तकारथकारयोः धकारः ['''वा द्रुहमुहष्णुहष्णिहाम्''', '''झषस्तथोर्धोऽधः''', '''झलां जश्‌ झशि'''] | घ्‌-अभावे ह्‌ → ढ्‌ → लोपः |
** द्रुह्‌ + ता → द्रोह्‌ + ता → द्रोघ्‌‌ + ता → द्रोघ्‌ + धा → द्रोग्‌ + धा → द्रोग्धा
* सह्‌ वह्‌ इति धात्वोः ह्‌ → ढ्‌ → लोपः, तकारथकारयोः ढकारः, अ → ओ | [सामान्यं + '''सहिवहोरोदवर्णस्य]'''
** सह्‌ + तुमुन्‌ → सह्‌ + तुम्‌ → सढ्‌ + तुम्‌ → सढ्‌ + धुम्‌ → सढ्‌ + ढुम्‌ → स + ढुम्‌ → सो + ढुम्‌ → सोढुम्‌
* नह्‌-धातोः ह्‌ → द्‌, तकारथकारयोः धकारः ['''नहो धः''', '''झषस्तथोर्धोऽधः''', '''झलां जश्‌ झशि''']
** नह्‌ + ता → '''नहो धः''' → नध्‌ + ता → '''झषस्तथोर्धोऽधः''' → नध्‌ + धा → '''झलां जश्‌ झशि''' → नद्‌ + धा → नद्धा

C. अग्रे खण्डशः प्रत्येकं विभागं परिशील्यते—

'''1.''' वर्गस्य प्रथमः, द्वितीयः, तृतीयः वर्णः प्राक्‌ अपि च त्‌ थ्‌ वा परे चेत्‌, '''खरि च'''

धातोः अन्तिमवर्णः वर्गस्य प्रथमः, द्वितीयः, तृतीयः वा चेत्‌, अपि च प्रत्ययादौ त्‌ थ्‌ वा चेत्‌, चर्त्वसन्धिं करोतु |

'''खरि च''' (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' इत्यस्मात्‌ '''झलां''' इत्यस्य अनुवृत्तिः; '''अभ्यासे चर्च''' इत्यस्मात्‌ '''चर्च''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रमेवम्‌— '''झलां चर् खरि च''' '''संहितायाम् ‌'''|

वयं जानीमः यत्‌ '''खरि च''' इत्यनेन खर् (त्‌, थ्‌, स्‌) परे अस्ति चेत्‌, पूर्वतनवर्गीयव्यञ्जनस्य प्रथमसदस्यादेशः (चर् आदेशो) भवति | यत्र प्राक्‌ प्रथमो द्वितीयस्तृतीयो वा वर्णोऽस्ति, अपि च परे त्‌, थ्‌ वा अस्ति, तत्र अस्माकं प्रथमं कार्यं चर्त्वम्‌ एव | (चतुर्थो वर्णश्चेत्‌ कार्यं भिन्नम्‌; तद्‌ अनन्तरम्‌ अवलोकयाम |) अत्र क्रमेण सर्वान्‌ वर्गान्‌ परिशीलयाम—

* क्‌, ख्‌, ग्‌ → क् ['''खरि च''']

'''खरि च''' (८.४.५५) इत्यनेन प्रथमादेशो भवति | यथा—

शशक्‌ + ति → शशक्‌ + ति → शशक्ति

शशक्‌ + थः → शशक्‌ + थः → शशक्थः

लेलेख्‌ + ति → लेलेक्‌ + ति → लेलेक्ति

लेलेख्‌ + थः → लेलेक्‌ + थः → लेलेक्थः

तात्वङ्ग्‌ + ति → तात्वङ्क्‌‌ + ति → तात्वङ्क्ति

तात्वङ्ग्‌ + थः → तात्वङ्क्‌‌ + थः → तात्वङ्क्थः

* चवर्गस्य समूहत्रयम्‌ १)

१. चकारजकारयोः सामान्यम्‌ = च्‌, ज्‌ → क्‌ ['''चोः कुः, खरि च''']

रिंच्‌ + तः → '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌ → रिङ्क्‌‌ + तः → रिङ्क्तः

रिंच्‌ + थः → '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌ → रिङ्क्‌‌ + थः → रिङ्क्थः

भुंज्‌ + तः → '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌ → भुंग्‌ + तः → '''खरि च''' (८.४.५५) → भुंक्‌ + तः → भुङ्क्‌ + तः → भुङ्क्तः

भंज्‌ + थः → '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌ → भुंग्‌ + थः → '''खरि च''' (८.४.५५) → भुंक्‌ + थः → भुङ्क्‌ + थः → भुङ्क्थः

'''चोः कुः''' (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''चोः कुः झलि पदस्य अन्ते च''' |

२. व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌ इति चवर्गान्तधातवः चेत्, षकारादेशो भवति

उपरितनेषु विशिष्टोक्तेषु धातुषु अन्यतमः चेत्‌, षकारादेशो भवति | तदा '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन प्रत्ययादौ त्‌-स्थाने ट्‌, अपि च थ्‌-स्थाने ठ्‌ | यथा—

यायज्‌ + ति → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्‌ → यायष्‌ + ति → '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्टुत्वम्‌ → यायष्टि

व्रश्च्‌, भ्रस्ज्‌ इति धात्वोः अन्ते संयोगः अस्ति अपि च संयोगस्य प्रथमसदस्यः सकारः, अतः '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन सकारस्य लोपो भवति | धेयं यत्‌ वाव्रश्च्‌-धातोः उपधायां यः शकारः सः मूले सकारः | तदा '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन चकारस्य प्रभावेन सकारस्य श्चुत्वेन शकारः जातः | मूले सकारः इति कारणतः '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्य प्रसक्तिरस्ति |

वाव्रश्च्‌ + ति → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन झलि परे संयोगस्य आदौ स्थितस्य सकारस्य लोपः → वाव्रच्‌ + ति → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्‌ → वाव्रष्‌ + ति → '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्टुत्वम्‌ → वाव्रष्टि

वाव्रश्च्‌ + थः → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन स्‌-लोपः → वाव्रच्‌ + थः → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्‌ → वाव्रष्‌ + थः → '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्टुत्वम्‌ → वाव्रष्ठः

एवमेव—

वाव्रश्च्‌ + ति → वाव्रष्टि           वाव्रश्च्‌ + थः → वाव्रष्ठः

बाभ्रस्ज्‌ + ति → बाभ्रष्टि         बाभ्रस्ज्‌ + थः → बाभ्रष्ठः

यायज्‌ + ति → यायष्टि          यायज्‌ + थः → यायष्ठः

राराज्‌ + ति → राराष्टि           राराज्‌ + थः → राराष्ठः

बाभ्राज्‌ + ति → बाभ्राष्टि        बाभ्राज्‌ + थः → बाभ्राष्ठः

मृज्‌-सृज्‌-धात्वोः अपि कार्यं तदेव; मृज्‌-धातोः वृद्धिः अपि भवति, सृज्‌-धातोः अम्‌-आगमः—

मृज्‌ + ति → '''मृजेर्वृद्धिः''' (७.२.११४) → मार्ज्‌ + ति → मार्ष्टि

मृज्‌ + थः → अपित्त्वात्‌ गुणनिषेधः → मृष्ठः

सरीसृज्‌‌ + ति → '''सृजिदृशेर्झल्यमकिति''' (६.१.५८) इत्यनेन अम्‌-आगमः → सरीसृ-अ-ज्‌ → '''इको यणचि''' इत्यनेन यण्‌ → सरीस्रज्‌ + ति → सरीस्रष्टि

सरीसृज्‌‌ + थः → सरीस्रज्‌ + थः → सरीस्रष्ठः

३. छकारान्तधातोः वर्गद्वयम्‌—

a) तुक्‌-सहित-छकारान्तधातुः इति चेत्‌, '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन शत्वं, तदा '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' इत्यनेन षत्वम्‌ |

पाप्रच्छ्‌ + ति → '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) → पाप्रश्‌ + ति → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) → पाप्रष्‌ + ति → पाप्रष्टि

एवमेव— पाप्रच्छ्‌ + थः → पाप्रष्ठः

b) तुक्‌-सहित-छकारान्तधातुः नास्ति चेत्‌, '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌ |

वावाञ्छ्‌ + ति → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे तुक्‌-सहित-छकारः आवश्यकः अतः अस्य सूत्रस्य प्रसक्तिर्नास्ति → वावाञ्छ्‌ + ति → '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌ → '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन झलि नकारस्य अनुस्वारादेशः → वावांख्‌ + ति → '''खरि च''' (८.४.५५) → वावांक्‌ + ति → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → वावाङ्क्ति

'''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) = व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌, तुक्‌-सहित-छकारान्ताः शकारान्ताः चैषां धातूनाम्‌ अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श्‌ च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम्‌ | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र '<nowiki/>'''जच्छशां'''<nowiki/>' इति भागे '''छे च''' (६.१.७३) इत्यनेन तुक्‌-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' '''झलि पदस्य अन्ते च''' |

'''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) = तुक्‌-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्‌-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ्‌ च व्‌ च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श्‌ च ऊठ्‌ च तयोः समाहारद्वन्द्वः शूड्‌ | '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड्‌ प्रथमान्तम्‌, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात्‌ '''क्विझलोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''च्छ्वोः अङ्गस्य शूड्‌''' '''क्विझलोः''' '''अनुनासिके च''' |

'''ष्टुना ष्टुः''' (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | '''यथासंख्यमनुदेशः समानाम्‌''' (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम्‌ अनुदेशिनां च यथाक्रमम्‌ उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | ष्‌ च टुश्च ष्टुः, तेन ष्टुना, समाहारद्वन्द्वः | ष्‌ च टुश्च ष्टुः, समाहारद्वन्द्वः | ष्टुना तृतीयान्तं, ष्टुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यस्मात्‌ '''स्तोः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''स्तोः''' '''ष्टुना ष्टुः संहितायाम्'''‌ |

'''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्‌, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स्‌ च क्‌ च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च''' |

* ट्‌, ठ्‌, ड्‌ → ट् ['''खरि च''']

'''ष्टुना ष्टुः''' इत्यनेन प्रत्ययादौ त्‌-स्थाने ट्‌, अपि च थ्‌-स्थाने ठ्‌ | तदा '''खरि च''' इत्यनेन प्रथमादेशो भवति | यथा—

ईड्‌ + ते → '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्टुत्वम्‌ → ईड्‌ + टे → '''खरि च''' (८.४.५५) इत्यनेन चर्त्वम्‌ → ईट्‌ + टे → ईट्टे

* त्‌, थ्‌, द्‌ → त् ['''खरि च''']

'''खरि च''' इत्यनेन प्रथमादेशो भवति | प्रत्ययादौ स्थितस्य त्‌ थ्‌ इत्यनयोः कोऽपि विकारो नास्ति | यथा—

अद्‌ + ति → '''खरि च''' → अत्‌ + ति → अत्ति

अद्‌ + थः → '''खरि च''' → अत्‌ + थः → अत्थः

छिंद्‌ + तः → '''खरि च''' → छिन्त्‌ + तः → छिन्त्तः / छिन्तः

छिंद्‌ + थः → '''खरि च''' → छिन्त्‌ + थः → छिन्त्थः / छिन्थः

अत्र छिन्त्तः, छिन्त्थः इत्यनयोः विकल्पेन तलोपं कृत्वा छिन्तः, छिन्थः भवतः | सूत्रमस्ति '''झरो झरि सवर्णे''' |

'''झरो झरि सवर्णे''' (८.४.६५) = हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''हलो यमां यमि लोपः''' (८.४.६४) इत्यस्मात्‌ '''हलः''', '''लोपः''' चेत्यनयोः अनुवृत्तिः | '''झयो होऽन्यतरस्याम्'''‌ (८.४.६२) इत्यस्मात्‌ '''अन्यतरस्याम्‌''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हलः झरः लोपः अन्यतरस्यां सवर्णे झरि''' '''संहितायाम्''' |

उपरितनस्य सूत्रस्य कृते सावर्ण्यं नाम किमिति स्मरणीयम्‌ |

'''तुल्यास्यप्रयत्नं सवर्णम्‌''' (१.१.९) = तालु-आदीनि स्थानानि, आभ्यन्तर-प्रयत्नाः, आभ्यां मानाभ्यां यस्य वर्णस्य येन वर्णेन सह तौल्यं, तयोः वर्णयोः सवर्णसंज्ञा स्यात्‌ | सवर्णसंज्ञा विधायक-सूत्रम्‌ | तुल्यः नाम सदृशः | आस्यम्‌ [अस्‌ + ण्यत्‌] नाम मुखे सञ्जायते यत्‌ | तुल्यं च तुल्यश्च तुल्यौ, आस्यञ्च प्रयत्नश्च आस्यप्रयत्नौ, तुल्यौ आस्यप्रयत्नौ ययोः तत्तुल्यास्यपयत्नं, द्वन्द्वगर्भः बहुव्रीहिः | तुल्यास्यप्रयत्नं प्रथमान्तं, स्वर्णं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''तुल्यास्यप्रयत्नं सवर्णम्‌''' |

वर्णद्वयं यदा मुखस्य समाने स्थाने, समानेन आभ्यन्तरप्रयत्नेन च उच्चार्यते, तदा तस्य वर्णद्वयस्य सवर्णसंज्ञा भवति | कस्यचित्‌ वर्णस्य उच्चारणार्थं मुखे किञ्चन स्थानं भवति, मुखस्य अन्तः कश्चन प्रयत्नः भवति (आभ्यन्तरप्रयत्नः इति), अपि च मुखात्‌ बहिः कश्चन प्रयत्नः भवति (बाह्यप्रयत्नः इति) | स्थानानि = कण्ठः, तालु, मूर्धा, दन्ताः, ओष्ठौ इत्यादिकम्‌ | आभ्यन्तरप्रयत्नाः इत्युक्ते स्पृष्टः, ईषत्स्पृष्टः, ईषद्विवृतः, विवृतः संवृतः चेति | बाह्यप्रयत्नाः इत्युक्ते विवारः, संवारः, श्वासः, नादः, घोषः, अघोषः, अल्पप्राणः, महाप्राणः, उदात्तः, अनुदात्तः, स्वरितः चेति | धेयं यत् सावर्ण्यार्थं केवलं मुखस्य अन्तः यत्‌ स्थानम्‌ अपि च यः आभ्यन्तरप्रयत्नः सः, एते एव द्वे तत्त्वे अपेक्ष्येते | बाह्यप्रयत्नः अस्मिन्‌ विषये नैवान्तर्भूतः | अनेन अ, आ अपि च सर्वे अष्टादश अकाराः इत्येषां सावर्ण्यं भवति | एषां वर्णानां स्थानं कण्ठः, आभ्यन्तरप्रयत्नः विवृतश्च |

यद्यपि कस्यचित्‌ अवर्णस्य उदात्तसंज्ञा, कस्यचित्‌ अनुदात्तसंज्ञा, तथापि स भेदः केवलं बाह्यप्रयत्नस्य अतः सावर्ण्यविषये नैव आयाति | तथैव क्‌, ख्‌, ग्‌, घ्‌, ङ्‌ एतेषां पञ्चानां सवर्णसंज्ञा भवति | यद्यपि 'क'कारस्य बाह्यप्रयत्नः विवारः, श्वासः, अघोषः, अल्पप्राणः च अपि तु 'घ'कारस्य बाह्यप्रयत्नः संवारः, नादः, घोषः, महाप्राणः च—नाम द्वयोः वर्णयोः बाह्यप्रयत्नः नितरां भिन्नः, तथापि ककारघकारयोः सवर्णसंज्ञा भवति एव यतोहि मुखे स्थानं समानं (कण्ठः), आभ्यन्तरप्रयत्नः समानः (स्पृष्टः ) च | 'क'कारः 'च'कारः इत्यनयोः सवर्णसंज्ञा तु न भवति यतः यद्यपि आभ्यन्तरप्रयत्नः समानः (स्पृष्टः), तथापि मुखे स्थानं भिन्नं ('क‌'कारस्य कण्ठः, 'च'कारस्य तालु इति) | ककारङकारयोः सवर्णसंज्ञा भवति यतः मुखे स्थानं समानं (कण्ठः), आभ्यन्तरप्रयत्नः समानः (स्पृष्टः ) च | तयोः बाह्यप्रयत्नः भिन्नः यतः ङकारस्य कृते नासिकायाः प्रयोगो भवति, परञ्च स च भेदः मुखात्‌ बहिर्वर्तते अतोऽत्र अप्रासङ्गिको विषय इति | 'अ'कारः 'क'कारः इत्यनयोः सवर्णसंज्ञा भवति वा ? नैव | द्वयोस्स्थानं समानं, परन्तु आभ्यन्तरप्रयत्नः भिन्नः ('अ'कारस्य विवृतः, 'क'कारस्य स्पृष्टः इति) |

अत्र सारांशः एवं यत्‌ तकारथकारयोः सावर्ण्यम्‌ अस्ति, अतः अधःस्थिते उदाहरणे तकारस्य विकल्पेन लोपो भवति—

छिंद्‌ + थः → '''खरि च''' → छिन्त्‌ + थः → छिन्त्थः / छिन्थः

* प्‌, फ्‌, ब्‌ → प् ['''खरि च''']

'''खरि च''' इत्यनेन प्रथमादेशो भवति | प्रत्ययादौ स्थितस्य त्‌ थ्‌ इत्यनयोः कोऽपि विकारो नास्ति | यथा—

छोप्‌ + ता → '''खरि च''' → छोप्ता

तेप्‌ + ता → तेप्ता

'''2.''' धात्वन्ते वर्गस्य चतुर्थवर्णः अपि च प्रत्ययादौ त्‌ थ्‌ वा चेत्‌, कार्यद्वयं वर्तते

धातोः अन्तिमवर्णः वर्गस्य चतुर्थसदस्यः चेत्‌ झषन्तधातुरिति उच्यते | अत्र झषन्तधातुभ्यः तादि थादि च प्रत्ययानां योजनविधिः |

१) '''झषस्तथोर्धोऽधः''' इत्यनेन प्रत्ययादौ त्‌, थ्‌ इत्यनयोः स्थाने धकारादेशो भवति |

'''झषस्तथोर्धोऽधः''' (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ्‌ च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम्‌ अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथा | न धा, अधा नञ्‌तत्पुरुषः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''झषः तथोः धः अधः''' |

२) तदा '''झलां जश्‌ झशि''' इत्यनेन धात्वन्ते चतुर्थवर्णस्य स्थाने तृतीयादेशो भवति |

'''झलां जश्‌ झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''झलां जश्‌ झशि संहितायाम्''' |

यथा—

दोघ्‌ + ति → '''झषस्तथोर्धोऽधः''' इत्यनेन प्रत्यये स्थितस्य तकारस्य स्थाने धकारः → दोघ्‌ + धि → '''झलां जश्‌ झशि''' इत्यनेन धात्वन्ते चतुर्थवर्णस्य स्थाने तृतीयादेशः → दोग्‌ + धि → दोग्धि

तथैव—

लालभ्‌ + ति → लालभ्‌ + धि → लालब्‌ + धि → लालब्धि

रुणध्‌ + ति → रुणध्‌ + धि → रुणद्‌ + धि → रुणद्धि

जझर्झ्‌ + ति → '''चोः कुः''' इत्यनेन कुत्वम्‌‌ → जझर्घ्‌ + ति → '''झषस्तथोर्धोऽधः →''' जझर्घ्‌ + धि → '''झलां जश्‌ झशि''' → जझर्ग्‌ + धि → जझर्ग्धि

'''3.''' नकारान्त-मकारान्त-धातुभ्यः तकारादि-थकारादि-प्रत्ययानां योजनविधिः

नकारान्तधातुः मकारान्तधातुः वा चेत्‌, स च धातुः अनुनासिकधातुरिति उच्यते |

अत्र सोपानत्रयं वर्तते—

१. सर्वप्रथमं स च तकारादिप्रत्ययः / थकारादिप्रत्ययः कित्‌, ङित्‌ वा अस्ति न वा इति निर्णेतव्यम्‌ |

कित्‌-ङित्‌ प्रत्ययाः यथा— क्त, क्तवतु, क्तिन्‌, तः (नाम तस्‌ [तिप्‌, तस्‌, झि इत्येषु तस्‌] | तस्‌ अपित्‌ सार्वधातुकम्‌ अतः ङिद्वत्‌)

कित्‌-ङित्‌-भिन्नाः यथा— तुमुन्‌, तव्य, ति |

तकारादिः/थकारादिः प्रत्ययः कित्‌-ङित्‌ चेत्‌, द्वितीयसोपानम्‌ आरोढव्यम्‌ | तकारादिः/थकारादिः प्रत्ययः कित्‌-ङित्‌ नास्ति चेत्‌, साक्षात्‌ तृतीयसोपानं‌ गन्तव्यम्‌ |

२. तकारादिः/थकारादिः प्रत्ययः कित्‌-ङित्‌ चेत्‌, अधस्तनम्‌ अङ्गकार्यं करणीयम्‌ |

a) सामान्यनियमः

'''अनुनासिकस्य क्विझलोः क्ङिति''' इत्यनेन झलादि-कित्‌-ङित्‌-प्रतये परे, अनुनासिकधातोः उपधायाः दीर्घत्वं भवति |

यथा—

शम्‌ + क्त → शाम्‌ + त → शान्त

वम्‌ + क्त → वाम्‌ + त → वान्त

'''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) = अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशो भवति क्वि च झलादि कित्‌ङित्‌-प्रत्यये परे | क्विश्च झल्‌ तयोरितरेतरद्वन्द्वः क्विझलौ, तयोः क्विझलोः | क्‌ च ङ्‌ तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत्‌ क्ङित्‌, तस्मिन्‌ क्ङिति | अनुनासिकस्य षष्ठ्यन्तं, क्विझलोः सप्तम्यन्तं, क्ङिति च सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''नोपधायाः''' (६.४.७) इत्यस्मात्‌ '''उपधायाः''' इत्यस्य अनुवृत्तिः | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात्‌ '''दीर्घः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति; '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन '''क्विझलोः क्ङिति''' इत्युक्तौ क्वि + झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल्‌ स्यात्‌) | अनुवृत्ति-सहितसूत्रम्‌— '''अनुनासिकस्य अङ्गस्य उपधायाः दीर्घः''' '''क्विझलोः क्ङिति''' |

हल्‌-सन्धि-पाठे क्वि इत्यस्य प्रसङ्गो नास्ति, किन्तु तस्य दृष्टान्तः दास्यते येन पूर्णसूत्रार्थः स्पष्टः स्यात्‌ | केचन प्रत्ययाः सन्ति ये यदा प्रातिपदिकेभ्यः सुबन्तेभ्यः च विधीयन्ते, तदा नाम-धातुः निष्पद्यते | एषु क्विप्‌-प्रत्ययः अन्यतमः | क्विप्‌-प्रत्ययस्य सर्वापहार-लोपः भवति, नाम पूर्णप्रत्ययस्य लोपः | ककार: '''लशक्वतद्धिते''' (१.३.८) इत्यनेन, पकार: '''हलन्त्यम्''' (१.३.३) इत्यनेन तयोः इत्‌-संज्ञा भवति, तदा '''तस्य लोपः''' (१.३.९) इति सूत्रेण लोपः | इकारः केवलम्‌ उच्चारनार्थम्‌ | तदा वकारः एकाकी; तस्य च '''वेरपृक्तस्य''' (६.१.६७) इत्यनेन लोपः | तदानीं किमपि नावशिष्यते; किन्तु '''प्रत्ययलोपे''' '''प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन तस्य लक्षणं भवति एव | अतः यद्यपि तस्य लोपो जातः, किञ्च क्वि परे अस्ति इति बुध्यते |

इदम्‌ + क्विप्‌ → क्विप्‌ इत्यस्य सर्वापहार-लोपः → इदम्‌ → '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यनेन अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशः → इदाम्‌ → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन तस्य धातु-संज्ञा → लटि इदाम्‌ + शप्‌ + तिप्‌ → इदामति [= “he behaves like this one”]

राजन्‌ + क्विप्‌ → क्विप्‌ इत्यस्य सर्वापहार-लोपः → राजन्‌ → '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यनेन अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशः → राजान्‌ → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन तस्य धातु-संज्ञा → लटि राजान्‌ + शप्‌ + तिप्‌ → राजानति [= “he behaves like a king”]

b) विशेषनियमः

'''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) = वन्‌-धातोः, अनुनासिकान्त-अनुदात्तोपदेश-धातोः, अनुनासिकान्त-तनादि-धातोः अनुनासिकस्य लोपो भवति झलादि-कित्‌ङित्‌-प्रत्यये परे | अनुदात्तः उपदेशे येषां ते, अनुदात्तोपदेशाः बहुव्रीहिः | तनोतिः आदिः येषां ते, तनोत्यादयः बहुव्रीहिः | अनुदात्तोपदेशाश्च वनतिश्च तनोत्यादयश्च तेषामितरेतरद्वन्द्वः अनुदात्तोपदेशवनतितनोत्यादयः, तेषाम्‌ अनुदात्तोपदेशवनतितनोत्यादीनाम्‌ | क्‌ च ङ्‌ तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत्‌ क्ङित्‌, तस्मिन्‌ क्ङिति | अनुदात्तोपदेशवनतितनोत्यादीनां षष्ठ्यन्तम्‌, अनुनासिक इति लुप्तष्ठीकं पदं, लोपः प्रथमान्तं, झलि सप्तम्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति (वनतिं विहाय 'अनुनासिक' इति पदं सर्वेषां विशेषणम्‌); '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्ते स्थितस्य अनुनासिकवर्णस्य लोपः; '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन '''झलि क्ङिति''' इत्युक्तौ झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल्‌ स्यात्‌) | अनुवृत्ति-सहितसूत्रम्‌— '''अनुनासिक-अनुदात्तोपदेशवनतितनोत्यादीनाम्‌ अङ्गस्य लोपः झलि क्ङिति''' |

अनेन आहत्य पञ्चदश धातवः निर्दिष्टाः | वन्‌ धातुः (भ्वादिगणे), अनुनासिकान्त-अनुदात्तोपदेश-धातवः (यम्‌, रम्‌, नम्‌, गम्‌, हन्‌, मन्‌), अनुनासिकान्त-तनादि-धातवः (तनु, क्षिणु, क्षणु, ऋणु, तृणु, घृणु, वनु, मनु) | एषु धातुषु मन्-धातुः दिवादिगणे अस्ति; हन्‌-धातुः अदादिगणे अस्ति; अष्ट धातवः तनादिगणे सन्ति; अवशिष्टाः भ्वादौ एव | एषां धातूनां अन्ते स्थितस्य अनुनासिकस्य लोपो भवति झलादि-कित्‌ङित्‌-प्रत्यये परे | यथा—

हन्‌ + तः → हतः      हन्‌ + थः → हथः [अदादिगणे विकरणं नास्ति]

गम्‌ + तः → गतः      जङ्गम्‌ + थः → जङ्गथः [यङ्‌लुकि विकरणं नास्ति]

मन्‌ + तः → मतः     तन्‌ + तः → ततः

रम्‌ + तः → रतः      यम्‌ + तः → यतः

अत्र प्रश्नः उदेति, तनादिगणे नव अनुनासिकान्तधातवः सन्ति, किन्तु तेषु केवलम्‌ अष्टौ धातवः अनेन सूत्रेण अनुनासिकलोपो भवति इत्युक्तम्‌ | अन्तिमधातुः षणु (सन्‌) इति धातोः का गतिः ? अस्य धातोः अपि अनेन सूत्रेण कार्यं भवति स्म, किन्तु अपरेण सूत्रेण अयं धातुः साक्षात्‌ उक्तः —

'''जनसनखनां सञ्झलोः''' (६.४.४२) = जन्‌, सन्‌, खन्‌ एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्‌-प्रत्यये परे झलादि-कित्‌ङित्‌-प्रत्यये परे च | अनुवृत्ति-सहितसूत्रम्‌— '''जनसनखनाम्‌ अङ्गानाम्‌ आत् झलि सञ्झलोः‌ क्ङिति''' |

सन्‌-धातोः आत्त्वं भवति इति कारणतः '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यनेन तस्य अनुनासिकलोपो न भवति |

अन्यः प्रश्नः उदेति यत्‌ '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इति सूत्रम्‌ '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्य अपवादः वा ? '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इति सामान्यम्‌, '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इति विशेषः | यत्र यत्र '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्य प्रसक्तिः, तत्र तत्र '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्य अपि प्रसक्तिः; '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्य अन्यत्र लब्धावकाशः, '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्य अन्यत्र लब्धावकाशो नास्ति यतोहि पञ्चदशानां धातूनां स्थले '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्यापि प्रसक्तिः; तेषु पञ्चदशसु अपि यदि अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इति सूत्रं कार्यं कुर्यात्‌, '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इति सूत्रं निरवकाशं स्यात्‌ | इति भाति; नाम अपवादभूतसूत्रम् अस्ति इति भाति | किन्तु वस्तुतस्तु नास्ति तथा | किमर्थम्‌ ? द्वयोः सूत्रयोः एकत्र प्राप्तिः इति यदा कथ्यते, तदा द्वयोः कार्यस्थलं समानं भवेत्‌; अत्र किन्तु तथा नास्ति | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यनेन उपधा दीर्घः, '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यनेन अनुनासिकलोपः | '''कार्यस्थलभिन्नत्वात्‌ अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्य कार्यानन्तरम्‌ '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्य अवकाशो भवति | यथा गम्‌ + तः → उपधादीर्घः → गाम्‌ + तः → अनुनासिकलोपः → गातः इति अनिष्टं रूपं जायते | किन्तु अवकाशस्तु जातः | अनेन अपवादः वक्तुं न शक्यते | अतः गम्‌ + तः इति स्थितौ '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) भवति परत्वात्‌ न तु अपवादत्वात्‌ | तथा सर्वत्र | शिक्षा अत्र एवं यत्‌ अपवादस्य कृते कार्यं केवलं युगपत्‌ इति न; कार्यस्थलं समानमपि भवेत्‌ |

तर्हि येषां धातूनाम्‌ अत्र नकारलोपो भवति, तेभ्यः इदम्‌ अङ्गकार्यं कृत्वा अधस्तनं सन्धिकार्यं करणीयम्‌ | (तकारादि / थकारादि प्रत्ययः कित्ङित्‌ नास्ति चेत्‌, अङ्गकार्यम्‌ अकृत्वा साक्षात्‌ अधस्तनं सन्धिकार्यं करणीयम्‌ |)

३) सन्धिकार्यम्‌

नकारान्तधातूनां मकारान्तधातूनां च तकारादि थकारादि च प्रत्यये परे, सन्धिद्वयं करणीयम्‌—

a) '''नश्चापदान्तस्य झलि''' (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | '''मो‍ऽनुस्वारः''' (८.३.२३) इत्यस्मात्‌ '''मः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अपदान्तस्य मः नः च अनुस्वारः''' '''झलि संहितायाम्''' |

b) '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनुस्वारस्य ययि परसवर्णः संहितायाम्''' |

शाम्‌ + तः → शान्तः

वाम्‌ + तः → वान्तः

गम्‌ + तुम्‌ → गन्तुम्‌

दाम्‌ + तः → दान्तः

गम्‌ + ता → गन्ता

रम्‌ + तुम्‌ → रन्तुम्‌

'''4.''' यकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः

यकारान्तधातुभ्यः तकारादि थकारादि वा प्रत्ययः परे अस्ति चेत्‌, यकारस्य लोपो भवति '''लोपो व्योर्वलि''' इति सूत्रेण | यथा—

जाहय्‌ + ति → जाहति

जाहय्‌ + तः → जाहतः

जाहय्‌ + थः → जाहथः

'''लोपो व्योर्वलि''' (६.१.६६) = वकारयकारयोः लोपो भवति वल्‌-प्रत्याहारे परे | व्‌ च य्‌ च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः | लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''व्योः लोपः वलि''' |

वकारान्तधातोः तकारादि थकारादि च प्रत्यये परे हल्सन्धिकार्यस्य अवसरः नास्ति | तत्र ऊठभावो भवति; स च ऊठ्भावः अङ्गकार्यं न तु सन्धिकार्यम्‌ | इतोऽपि बोधनार्थं गतपाठः द्रष्टव्यः (सकारादिप्रत्यये परे ) |

'''5.''' शकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः

शकारान्तधातुभ्यः तादि थादि वा प्रत्यये परे—

१. शकारस्य स्थाने षकारादेशो भवति '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' इति सूत्रेण |

२. प्रत्ययादौ स्थितस्य तकारथकारयोः ष्टुत्वसन्धिना त्‌-स्थाने ट्‌, अपि च थ्‌-स्थाने ठ्-आदेशो भवतः |

यथा—

वश्‌‌ + ति → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' इत्यनेन षत्वम्‌ → वष्‌ + ति → '''ष्टुना ष्टुः''' इत्यनेन ष्टुत्वम्‌ → वष्टि

उश्‌+ थः → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' इत्यनेन षत्वम्‌ → उष्‌ + थः → '''ष्टुना ष्टुः''' इत्यनेन ष्टुत्वम्‌ → उष्ठः

एवमेव—

ईश्‌ + ते → ईष्‌ + ते → ईष्‌ + टे → ईष्टे

ऐश्‌ + थाः → ऐष्‌ + थाः → ऐष्‌ + ठाः → ऐष्ठाः

'''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) = व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌, छकारान्ताः शकारान्ताः चैषां धातूनाम्‌ अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श्‌ च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम्‌ | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र '<nowiki/>'''जच्छशां'''<nowiki/>' इति भागे '''छे च''' (६.१.७३) इत्यनेन तुक्‌-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' '''झलि पदस्य अन्ते च''' |

'''ष्टुना ष्टुः''' (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | '''यथासंख्यमनुदेशः समानाम्‌''' (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम्‌ अनुदेशिनां च यथाक्रमम्‌ उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | ष्‌ च टुश्च ष्टुः, तेन ष्टुना, समाहारद्वन्द्वः | ष्‌ च टुश्च ष्टुः, समाहारद्वन्द्वः | ष्टुना तृतीयान्तं, ष्टुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यस्मात्‌ '''स्तोः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''स्तोः''' '''ष्टुना ष्टुः संहितायाम्'''‌ |

'''6.''' षकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः

धात्वन्ते षकारस्य कोऽपि विकारो नास्ति | प्रत्ययादौ स्थितस्य तकारथकारयोः ष्टुत्वसन्धिना त्‌-स्थाने ट्‌, अपि च थ्‌-स्थाने ठ्-आदेशो भवतः | यथा‌—

द्वेष्‌ + ति → '''ष्टुना ष्टुः''' इत्यनेन ष्टुत्वम्‌ → द्वेष्‌ + टि → द्वेष्टि

एवमेव—

द्विष्‌ + थः → द्विष्‌ + ठः → द्विष्ठः

अचष्‌ + त → अचष्‌ + ट → अचष्ट

अचष्‌ + थाः → अचष्‌ + ठाः → अचष्ठाः

'''7.''' सकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः

अत्र किमपि कार्यं नास्ति; केवलं वर्णमेलनम्‌ | यथा—

आस्‌ + ते → आस्ते

'''8.''' हकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः

अत्र मार्गः पञ्चप्रकारकः—सामान्यनियमः, चत्वारः विशेषाः च |

१. सामान्यनियमः

* तकारादि थकारादि च प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, '''हो ढः''' इत्यनेन सूत्रेण |
* प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्‌-आदेशो भवति '''झषस्तथोर्धोऽधः''' इति सूत्रेण |
* प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ्‌-आदेशो भवति '''ष्टुना ष्टुः''' इति सूत्रेण |
* पूर्वतनस्य ढ्‌-लोपो भवति '''ढो ढे लोपः''' इति सूत्रेण |

लिह्‌ + ता → '''पुगन्तलघूपधस्य च''' इत्यनेन गुणः → लेह्‌ + ता → '''हो ढः''' इत्यनेन झलि परे ह्‌-स्थाने ढ्‌-आदेशः → लेढ्‌ + ता → '''झषस्तथोर्धोऽधः''' इत्यनेन त्‌-स्थाने ध्‌-आदेशः → लेढ्‌ + धा → '''ष्टुना ष्टुः''' इत्यनेन ष्टुत्वम् → लेढ्‌ + ढा → '''ढो ढे लोपः''' इत्यनेन पूर्वतनस्य ढकारस्य लोपः → ले + ढा → लेढा

एवेमेव—

रुह्‌ + ता → '''पुगन्तलघूपधस्य च''' → रोह्‌ + ता → '''हो ढः''' → रोढ्‌ + ता → '''झषस्तथोर्धोऽधः''' → रोढ्‌ + धा → '''ष्टुना ष्टुः'''→ रोढ्‌ + ढा → '''ढो ढे लोपः''' → रोढा

मिह्‌ + ता → '''पुगन्तलघूपधस्य च''' → मेह्‌ + ता → '''हो ढः''' → मेढ्‌ + ता → '''झषस्तथोर्धोऽधः''' → मेढ्‌ + धा → '''ष्टुना ष्टुः'''→ मेढ्‌ + ढा → '''ढो ढे लोपः''' → मेढा

'''हो ढः''' (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हः ढः झलि पदस्य अन्ते च''' |

'''झषस्तथोर्धोऽधः''' (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ्‌ च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम्‌ अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्‌तत्पुरुषः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''झषः तथोः धः अधः''' |

'''ढो ढे लोपः''' (८.३.१३) = ढकारे परे पूर्वतनस्य ढकारस्य लोपो भवति | ढः षष्ठ्यन्तं, ढे सप्तम्यन्तं, लोपः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''ढः ढे लोपः''' |

विशेषः—

ढ्‌, र् इत्यनयोर्लोपानन्तरं‌ तयोः पूर्वस्थितस्य अण्‌ (अ, इ, उ) इत्यस्य दीर्घादेशो भवति | यथा—

लिह्‌ + तः → '''हो ढः''' → लिढ्‌ + तः → '''झषस्तथोर्धोऽधः''' → लिढ्‌ + धः → '''ष्टुना ष्टुः'''→ लिढ्‌ + ढः → '''ढो ढे लोपः''' → लि + ढः → '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' इत्यनेन ढ्‌ इत्यस्य लोपानन्तरं‌ पूर्वस्थितस्य अणः दीर्घादेशः → ली + ढः → लीढः

'''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) = ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः | ढकाररेफयोः लोपस्य निमित्तकढकाररेफे परे, अण्‌-प्रत्याहारे स्थितस्य दीर्घादेशो भवति | ढ्रलोपे इति द्वन्द्वगर्भ-उपपदतत्पुरुषसमासः— ढ्‌ च र् च ढ्रौ, इतरेतरद्वन्द्वः, ढ्रौ लोपयतीति ढ्रलोपः, तस्मिन्‌ ढ्रलोपे | ढ्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः | ढ्रलोपे सप्तम्यन्तं, पूर्वस्य षष्ठ्यन्तं, दीर्घः प्रथमान्तम्‌, अणः षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूरणम्‌— '''ढ्रलोपे पूर्वस्य अणः''' '''दीर्घः''' |

उपरि ढकारस्य उदाहरणं दृष्टम्‌ | विसर्गसन्धौ रेफस्य प्रसिद्धोदाहरणम्‌ | पुनः रमते → पुनर् + रमते → '''रो रि''' (८.३.१४, लघु० १११) इत्यनेन रेफस्य रेफे परे लोपः → पुन + रमते → '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' → पुना रमते | अस्मिन्‌ वृत्तान्ते रेफः एव रेफस्य लोपस्य निमित्तम्‌ | रेफलोपनिमित्तकरेफात्‌ प्राक्‌ अण्‌-प्रत्याहारे अन्यतमवर्णोऽस्ति (अकारः इति) अतः अणः दीर्घत्वं भवति |

२. दकारादि-हकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः

* तकारादि थकारादि च प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति '''दादेर्धातोर्घः''' इत्यनेन सूत्रेण |

* अधुना प्रत्ययः झष्‌-परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्‌-आदेशो भवति '''झषस्तथोर्धोऽधः''' इति सूत्रेण |
* अधुना धातु-परतः झश्‌ अस्ति (धकारः), अतः धात्वन्ते घ्‌-स्थाने तृतीयादेशो भवति '''झलां जश्‌ झशि''' इति सूत्रेण | जश्त्वसन्धिरिति |

दोह्‌ + ति → '''दादेर्धातोर्घः''' इत्यनेन ह्‌-स्थाने घ्‌-आदेशः → दोघ्‌ + ति → '''झषस्तथोर्धोऽधः''' इत्यनेन त्‌-स्थाने ध्‌-आदेशः → दोघ्‌ + धि → '''झलां जश्‌ झशि''' इत्यनेन घ्‌-स्थाने ग्‌-आदेशः → दोग्‌ + धि → दोग्धि

एवमेव—

दुह्‌ + थः → '''दादेर्धातोर्घः''' → दुघ्‌ + थः → '''झषस्तथोर्धोऽधः''' → दुघ्‌ + धः → '''झलां जश्‌ झशि''' → दुग्‌ + धः → दुग्धः

देह्‌ + ति → '''दादेर्धातोर्घः''' → देघ्‌ + ति → '''झषस्तथोर्धोऽधः''' → देघ्‌ + धि → '''झलां जश्‌ झशि''' → देग्‌ + धि → देग्धि

दिह्‌ + थः → '''दादेर्धातोर्घः''' → दिघ्‌ + थः → '''झषस्तथोर्धोऽधः''' → दिघ्‌ + धः → '''झलां जश्‌ झशि''' → दिग्‌ + धः → दिग्धः

'''दादेर्धातोर्घः''' (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ठ्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दादेः धातोः हः घः झलि पदस्य अन्ते च''' |

'''झषस्तथोर्धोऽधः''' (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ्‌ च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम्‌ अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्‌तत्पुरुषः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''झषः तथोः धः अधः''' |

'''झलां जश्‌ झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''झलां जश्‌ झशि संहितायाम्''' |

३. द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌ एभ्यः चतुर्भ्यः धातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः

एभ्यः चतुर्भ्यः धातुभ्यः हकारस्य स्थाने विकल्पेन घकारो वा ढकारो वा भवति | यथा—

a) ह्-स्थाने घ्‌-आदेशः‌

* झलि परे धात्वन्ते ह्‌-स्थाने घ्‌-अदेशः '''वा द्रुहमुहष्णुहष्णिहाम्''' इति सूत्रेण |

* अधुना प्रत्ययः झष्‌-परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्‌-आदेशो भवति '''झषस्तथोर्धोऽधः''' इति सूत्रेण |
* अधुना धातु-परतः झश्‌ अस्ति (धकारः), अतः धात्वन्ते घ्‌-स्थाने तृतीयादेशो भवति '''झलां जश्‌ झशि''' इति सूत्रेण | जश्त्वसन्धिरिति |

द्रुह्‌ + ता → '''पुगन्तलघूपधस्य च''' इत्यनेन गुणः → द्रोह्‌ + ता → '''वा द्रुहमुहष्णुहष्णिहाम्''' → द्रोघ्‌‌ + ता → '''झषस्तथोर्धोऽधः''' → द्रोघ्‌ + धा → '''झलां जश्‌ झशि'''→ द्रोग्‌ + धा → द्रोग्धा

एवेमेव—

मुह्‌ + ता → '''पुगन्तलघूपधस्य च''' → मोह्‌ + ता → '''वा द्रुहमुहष्णुहष्णिहाम्''' → मोघ्‌‌ + ता → '''झषस्तथोर्धोऽधः''' → मोघ्‌ + धा → '''झलां जश्‌ झशि'''→ मोग्‌ + धा → मोग्धा

स्नुह्‌ + ता → स्नोह्‌ + ता → स्नोघ् + ता → स्नोघ्‌ + धा → स्नोग्‌ + धा → स्नोग्धा

स्निह्‌ + ता → स्नेह्‌ + ता → स्नेघ् + ता → स्नेघ्‌ + धा → स्नेग्‌ + धा → स्नेग्धा

'''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३) = द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌ एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशो भवति झलि पदान्ते च; घ्‌-अभावे '''हो ढः''' (८.२.३१) इत्यनेन ढकारादेशो भवति | द्रुहश्च मुहश्च ष्णुहश्च ष्णिहश्च तेषाम इतरेतर्तद्वान्द्वः, द्रुहमुहष्णुहष्णिहः, तेषां द्रुहमुहष्णुहष्णिहाम् | वा अव्ययपदं, द्रुहमुहष्णुहष्णिहां षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''', '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्मात्‌ '''घः''', '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''', '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्येषाम्‌ अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''द्रुह-मुह-ष्णुह-ष्णिहाम् वा हः घः झलि पदस्य अन्ते च''' |

'''झषस्तथोर्धोऽधः''' (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ्‌ च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम्‌ अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्‌तत्पुरुषः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''झषः तथोः धः अधः''' |

'''झलां जश्‌ झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''झलां जश्‌ झशि संहितायाम्''' |

b) ह्-स्थाने ढ्‌-आदेशः‌

* झलि परे धात्वन्ते ह्‌-स्थाने ढ्‌-अदेशः '''हो ढः''' इति सूत्रेण |

* प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्‌-आदेशो भवति '''झषस्तथोर्धोऽधः''' इति सूत्रेण |
* प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ्‌-आदेशो भवति '''ष्टुना ष्टुः''' इति सूत्रेण |
* पूर्वतनस्य ढ्‌-लोपो भवति '''ढो ढे लोपः''' इति सूत्रेण |

द्रुह्‌ + ता → '''पुगन्तलघूपधस्य च''' इत्यनेन गुणः → द्रोह्‌ + ता → '''हो ढः''' → द्रोढ्‌‌‌ + ता → '''झषस्तथोर्धोऽधः''' → द्रोढ्‌‌‌ + धा → '''ष्टुना ष्टुः'''→ द्रोढ्‌‌‌ + ढा → '''ढो ढे लोपः''' → द्रो + ढा → द्रोढा

मुह्‌ + ता → '''पुगन्तलघूपधस्य च''' → मोह्‌ + ता → '''हो ढः''' → मोढ्‌‌ + ता → '''झषस्तथोर्धोऽधः''' → मोढ्‌‌ + धा → '''ष्टुना ष्टुः'''→ मोढ्‌‌ + ढा → '''ढो ढे लोपः''' → मो + ढा → मोढा

स्नुह्‌ + ता → स्नोह्‌ + ता → स्नोढ्‌ + ता → स्नोढ्‌‌ + धा → स्नोढ्‌‌ + ढा → स्नो + ढा → स्नोढा

स्निह्‌ + ता → स्नेह्‌ + ता → स्नेढ् + ता → स्नेढ् + धा → स्नेढ् + ढा → स्ने + ढा → स्नेढा

ढत्वं घत्वम्‌ इति विषये

सावधानतया अत्र सूत्रक्रमं निरीक्षताम्‌—

'''हो ढः''' (८.२.३१)

'''दादेर्धातोर्घः''' (८.२.३२)

'''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३)

प्रथमम्‌ अस्ति '''हो ढः''' (८.२.३१) इति सामान्यसूत्रं; तदा '''दादेर्धातोर्घः''' (८.२.३२), प्रथमस्य अपवादः; तदा '''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३), पुनः इतोऽपि विशेषम्‌ | तत्र द्रुह्‌-धातोः विषये '''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३) इति '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्य बाधकम्‌— एकवारं यदा '''दादेर्धातोर्घः''' बाधितं, पुनः कार्यार्थं नागच्छति | अतः '''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३) इत्यनेन 'वा' (विकल्पेन) घत्वं; यस्मिन्‌ पक्षे अनेन घत्वं न भवति, तदा '''दादेर्धातोर्घः''' (८.२.३२) तत्र घत्वस्य साधनार्थं नागच्छति अपि तु '''हो ढः''' (८.२.३१) इत्यनेन ढत्वं भवति | फलितार्थे द्रुह्‌ + ता → घत्वपक्षे द्रोग्धा, ढत्वपक्षे द्रोढा |

केचन पृच्छन्ति यत्‌ द्रुह्‌-धातुः दकारादिहकारान्तधातुः अतः यदा '''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३) इत्यनेन घत्वं न भवति, तदा दकारादिहकारान्तत्वात्‌ '''दादेर्धातोर्घः''' (८.२.३२) इत्यनेन घत्वंं भवति यतोहि '''दादेर्धातोर्घः''' (८.२.३२), '''हो ढः''' (८.२.३१) इत्यस्य अपवादः; किन्तु तादृशं चिन्तनं दोषपूर्णम्‌ | यदा '''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३) इत्यनेन घत्वं न भवति, तदा '''हो ढः''' (८.२.३१) इत्यनेन ढत्वम् |

४. सह्‌ वह्‌ इति धातुभ्यां तकारादि थकारादि च प्रत्ययानां योजनविधिः

* तकारादि थकारादि च प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, '''हो ढः''' इत्यनेन सूत्रेण |
* अधुना प्रत्ययः झष्‌-परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्‌-आदेशो भवति '''झषस्तथोर्धोऽधः''' इति सूत्रेण |
* प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ्‌-आदेशो भवति '''ष्टुना ष्टुः''' इति सूत्रेण |
* पूर्वतनस्य ढ्‌-लोपो भवति '''ढो ढे लोपः''' इति सूत्रेण |
* लुप्तढकारस्य पूर्ववर्तिनः अकारस्य ओकारादेशो भवति '''सहिवहोरोदवर्णस्य''' इति सूत्रेण | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्य अपवादः |

सह् + ता → '''हो ढः''' → सढ्‌ + ता → '''झषस्तथोर्धोऽधः''' → सढ्‌ + धा → '''ष्टुना ष्टुः''' → सढ्‌ + ढा → '''ढो ढे लोपः''' → स + ढा → '''सहिवहोरोदवर्णस्य''' → सो + ढा → सोढा

एवमेव वह्‌ + ता → वढ्‌ + ता → वढ्‌ + धा → वढ्‌ + ढा → व + ढा → वो + ढा → वोढा

इदं धातुद्वयम्‌ अतिप्रसिद्धम्‌—सह्‌ (सहते), वह्‌ (वहति) इति | तयोः तुमुन्‌ रूपमपि प्रसिद्धम्‌—

सह्‌ + तुमुन्‌ → सह्‌ + तुम्‌ → सढ्‌ + तुम्‌ → सढ्‌ + धुम्‌ → सढ्‌ + ढुम्‌ → स + ढुम्‌ → सो + ढुम्‌ → सोढुम्‌

वह्‌ + तुमुन्‌ → वह्‌ + तुम्‌ → वढ्‌ + तुम्‌ → वढ्‌ + धुम्‌ → वढ्‌ + ढुम्‌ → व + ढुम्‌ → वो + ढुम्‌ → वोढुम्‌

'''सहिवहोरोदवर्णस्य''' (६.३.११२) = ढकारस्य लोपश्चेत्‌, सह्‌ वह्‌ इति धात्वोः अकारस्य स्थाने ओकारादेशो भवति | सहिश्च वह्‌ च तयोरितरेतरद्वन्द्वः सहिवहौ, तयोः सहिवहोः | सहिवहोः षष्ठ्यन्तम्‌, ओत्‌ प्रथमान्तम्‌, अवर्णस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात्‌ '''ढलोपे''' इत्यस्य अनुवृत्तिः (रेफस्य कार्यं अत्र न भवति एव अतः सेफः नानीतः) | अनुवृत्ति-सहितसूत्रम्‌—'''सहिवहोः अवर्णस्य ओत्‌ ढलोपे''' इति |

५. नह्‌ धातुतः तकारादि थकारादि च प्रत्ययानां योजनविधिः

नह्‌ + ता → '''नहो धः''' → नध्‌ + ता → '''झषस्तथोर्धोऽधः''' → नध्‌ + धा → '''झलां जश्‌ झशि''' → नद्‌ + धा → नद्धा

'''नहो धः''' (८.२.३४) = नह्‌-धातोः हकारस्य धकारादेशो भवति झलि पदान्ते च | नहः षष्ठ्यन्तं, धः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''' इत्यस्य अनुवृत्तिः | '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''नहः धातोः हः धः''' '''झलि पदस्य अन्ते च''' |

इति हलन्तेभ्यो धातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः |

Swarup – October 2013 (Updated June 2016)

[https://static.miraheze.org/samskritavyakaranamwiki/3/33/%E0%A5%A7%E0%A5%A6_-_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A5%8D_-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83_%E0%A5%A9.pdf १० - धातुपाठे हल्‌-सन्धिः ३.pdf] (129k) Swarup Bhai, Jul 15, 2020, 4:17 PM
page_and_link_managers, Administrators
5,097

edits