page_and_link_managers, Administrators
5,152
edits
No edit summary |
No edit summary |
||
Line 25:
|}
एतावता अस्माभिर्दृष्टं यत् धातुपाठे हलन्तधातुभ्यः सादिः, तादिः, थादिः, धादिः च प्रत्ययः विहितः चेत् हल्-सन्धिर्भवति; प्रत्ययः वादिः, मादिः, नादिः चेदपि कुत्रचित् भवति | प्रथमे पाठे हलन्तेभ्यो धातुभ्यो लङ्-लकारस्य त्-प्रत्ययः स्-प्रत्ययश्चेत्यनयोः योजनविधिः अवलोकितः | द्वितीये पाठे हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां योजनविधिः (लङ्-लकारस्य स्-प्रत्ययम् अतिरिच्य) अवलोकितः | तृतीये पाठे हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्-लकारस्य त्-प्रत्ययम् अतिरिच्य) इति अस्माभिर्वीक्षितम् | अधुना धातुपाठे हल्-सन्धेः चतुर्थो भागः— हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः | अयं च धातुपाठे हल्-सन्धेरन्तिमो भागः |
A. धकारादि-प्रत्ययाः द्वाभ्यां मार्गाभ्यां सृष्टाः—
Line 48 ⟶ 50:
दुघ् + थः → '''झषस्तथोर्धोऽधः''' इत्यनेन झषन्तधातुतः थ्-स्थाने ध्-आदेशः → दुघ् + धः
३. मध्यमपुरुषबहुवचनस्य आत्मनेपदे लटि 'ध्वे', लोटि लङि च 'ध्वम्' भवति |
यदा धकारादि-प्रत्ययः सञ्जातः, तदा हलन्तधातुभ्यः धकारादिप्रत्ययानां योजनविधिः अधो यथा लिखितः, तथा कुर्वन्तु—
B. हलन्तधातुभ्यः धादिप्रत्ययः चेत् पञ्च सम्भावनाः
अत्र अस्माकं प्रमुखसिद्धान्तः जश्त्वम् | किमर्थम् ? प्रत्ययस्य आदौ यः धकारः अस्ति सः झशि अस्ति किल (वर्गस्य तृतीयचतुर्थयोरन्यतमो वर्णोऽस्ति) | यत्र प्रत्ययस्य आदौ सकारः, तकारः, थकारः च आसीत्, तत्र प्रत्ययस्य आदिमवर्णः खरि आसीत् इति कारणतः '''खरि च''' इत्यनेन सर्वत्र चर्त्वं भवति स्म | परञ्च अधुना खर् न अपि तु झश् परे अस्ति अतः जश्त्वं भवति, नाम वर्गस्य तृतीयसदस्यादेशः | सूत्रम् इदम्—
'''झलां जश् झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्-वर्णेषु वर्णनिर्धारणम् | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | झश्-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''झलां जश् झशि संहितायाम्''' |
1. धात्वन्ते वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णः एषु अन्यतमश्चेत्, धात्वन्ते जश्त्वम् [झलां जश् झशि] |
Line 68 ⟶ 78:
* जाझर्झ् + हि → जाझर्झ् + धि → जाझर्घ् + धि → जाझर्ग् + धि → जाझर्ग्धि
* किन्तु व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज् → ष् → ड् ['''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''', '''ष्टुना ष्टुः''', '''झलां जश् झशि''']
* यायज् + हि → यायज् + धि → यायष् + धि → यायष् +ढि → यायड् + ढि → यायड्ढि
* तुक्-सहित-छकारान्तधातुः इति चेत्, '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन शत्वं— पाप्रच्छ् + हि → पाप्रच्छ् + धि → पाप्रश् + धि → पाप्रष् + ढि → पाप्रड् + ढि → पाप्रड्ढि
* ट्, ठ्, ड्, ढ् → ड् ['''ष्टुना ष्टुः, झलां जश् झशि''']
* पापठ् + धि → पापठ् + ढि → पापड् + ढि → पापड्ढि
Line 80 ⟶ 90:
* त्, थ्, द्, ध् → द् [झलां जश् झशि]
* अद् + हि → '''हुझल्भ्यो हेर्धिः''' → अद् + धि → अद्धि
* '''झरो झरि सवर्णे''' इत्यनेन हल्-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे |
Line 86 ⟶ 96:
* रुन्ध् + हि → रुन्ध् + धि → रुन्द् + धि → रुन्द्धि → रुन्धि/रुन्द्धि
* प्, फ्, ब्, भ् → ब् ['''झलां जश् झशि''']
* तेतेप् + हि → तेतेप् + धि → तेतेब् + धि → तेतेब्धि
*
2. धात्वन्ते शकारः चेत् श् → ष् → ड् [
* ईश् + ध्वे → ईष् + ध्वे → ईष् + ढ्वे → ईड् + ढ्वे → ईड्ढ्वे
3. धात्वन्ते षकारः चेत् ष् → ड् ['''ष्टुना ष्टुः, झलां जश् झशि''']
* चक्ष् + ध्वे → चष् + ध्वे → चष् + ढ्वे → चड् + ढ्वे → चड्ढ्वे
4. धात्वन्ते सकारः चेत् स् → लोपः [धि च] ('''धि च''' (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे |)
* वस् + ध्वे → धि च → व + ध्वे → वध्वे
5. धात्वन्ते ह् → ढ् → लोपः, धकारस्य ढकारः ['''हो ढः, ष्टुना ष्टुः, ढो ढे लोपः, ढ्रलोपे पूर्वस्य दीर्घोऽणः''' इत्यनेन ढलोपनिमित्तस्य पूर्वस्य अणः दीर्घः]
* लिह् + धि → लिढ् + धि → लिढ् + ढि → लि + ढि → ली + ढि → लीढि
* दकारादि-हकारान्तधातोः चेत् ह् → घ् → ग् ['''दादेर्धातोर्घः, झलां जश् झशि''']
* दुह् + धि → दुघ् + धि → दुग् + धि → दुग्धि
* दकारादि-हकारान्तधातुः, ध्वे-प्रत्यये परे चेत् ह् → घ् → ग्; बश्→ भष् ['''दादेर्धातोर्घः, एकाचो बशो भष् झषन्तस्य स्ध्वोः, झलां जश् झशि''']
* दिह् + ध्वे → दिघ् + ध्वे → धिघ् + ध्वे → धिग् + ध्वे → धिग्ध्वे
C. अग्रे खण्डशः प्रत्येकं विभागं परिशील्यते—
Line 116 ⟶ 129:
सर्वत्र जश्त्वसन्धिः—
धात्वन्ते कवर्गीयवर्णस्य स्थाने जश्-आदेशः '''झलां जश् झशि''' (८.४.५३) इति सूत्रेण | (कवर्गस्य तृतीयसदस्यादेश इति |)
यथा—
शाशक् + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) इत्यनेन हि-स्थाने धि-आदेशः → शाशक् + धि → '''झलां जश् झशि''' (८.४.५३) इत्यनेन जश्त्वादेशः → शाशग् + धि → वर्णमेलने → शाशग्धि
लेलिख् + हि → '''हुझल्भ्यो हेर्धिः''' → लेलिख् + धि → झलां जश् झशि→ लेलिग् + धि → वर्णमेलने → लेलिग्धि
तात्वङ्ग् + हि → '''हुझल्भ्यो हेर्धिः''' → तात्वङ्ग् + धि → झलां जश् झशि→ तात्वङ्ग् + धि → वर्णमेलने → तात्वङ्ग्धि▼
लालङ्घ् + हि → '''हुझल्भ्यो हेर्धिः''' → लालङ्घ् + धि → झलां जश् झशि→ लालङ्ग् + धि → वर्णमेलने → लालङ्ग्धि▼
▲तात्वङ्ग् + हि → हुझल्भ्यो हेर्धिः → तात्वङ्ग् + धि → झलां जश् झशि→ तात्वङ्ग् + धि → वर्णमेलने → तात्वङ्ग्धि
▲लालङ्घ् + हि → हुझल्भ्यो हेर्धिः → लालङ्घ् + धि → झलां जश् झशि→ लालङ्ग् + धि → वर्णमेलने → लालङ्ग्धि
b. धातुः चवर्गान्तः, प्रत्ययः धकारादिः
Line 134 ⟶ 149:
१. सामान्यनियमः | धात्वन्ते च्, ज्, झ् वा चेत् |
* चवर्गस्य स्थाने कवर्गादेशो भवति '''चोः कुः''' (८.२.३०) इति सूत्रेण
* धात्वन्ते कवर्गीयवर्णस्य जश्-आदेशः '''झलां जश् झशि''' (८.४.५३) इति सूत्रेण |
यथा—
विच्* + श्नम् + ध्वे → → विन्च् + ध्वे → '''चोः कुः''' (८.२.३०) इत्यनेन चवर्गस्य स्थाने कवर्गादेशो भवति → विन्क् + ध्वे → '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः → विंक् + ध्वे → '''झलां जश् झशि''' (८.४.५३) इत्यनेन जश्त्वादेशः → विंग् + ध्वे → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनेन अनुस्वारस्य स्थाने परसवर्णादेशः → विङ्ग् + ध्वे → वर्णमेलने → विङ्ग्ध्वे
युज्* + श्नम् + ध्वे → → युन्ज् + ध्वे → चोः कुः (८.२.३०) → → युङ्ग् + ध्वे → युङ्ग्ध्वे [यथा विचि विस्तरेण उक्तं, तथा |]
Line 146 ⟶ 162:
<nowiki>*</nowiki>विच् च युज् च धातू रुधादिगणे स्तः; तत्र श्नम् इति विकरणप्रत्ययः धातोः मध्ये उपविशति | श्नम् इत्यस्मिन् अनुबन्धलोपे "न" अवशिष्यते | अग्रे यदा अस्माभिः रुधादिगणस्य सार्वधातुकप्रकरणं परिशील्यते, तदा सर्वाणि सोपानानि पश्येम | धेयं यत् अनुस्वारस्य परसवर्णादेशो भवति एकवारमेव, प्रक्रियायाः अन्ते | सूत्रसङ्ख्या इति कारणं, पूर्वत्रासिद्धम् इति सूत्रम् |
चोः कुः (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति पदान्ते झलि च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चोः कुः झलि पदस्य अन्ते च |▼
नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | मोऽनुस्वारः (८.३.२३) इत्यस्मात् मः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |▼
▲'''चोः कुः''' (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति पदान्ते झलि च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''झलो झलि''' (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''चोः कुः झलि पदस्य अन्ते च''' |
अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनुस्वारस्य ययि परसवर्णः संहितायाम् |▼
▲'''नश्चापदान्तस्य झलि''' (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | '''मोऽनुस्वारः''' (८.३.२३) इत्यस्मात् मः इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम्''' |
▲'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अनुस्वारस्य ययि परसवर्णः संहितायाम्''' |
'''पूर्वत्रासिद्धम्''' (८.२.१) = सपादसप्ताध्याय्यां स्थितस्य सूत्रस्य दृष्ट्या त्रिपादी असिद्धा अपि च त्रिपाद्यां पूर्वत्रिपाद्याः दृष्ट्या परत्रिपादी असिद्धा | इदम् अधिकारसूत्रम्; तस्य प्रभावः भवति ग्रन्थस्य अन्तपर्यन्तम् | पूर्वस्मिन् इति पूर्वत्र | न सिद्धम् असिद्धम् | पूर्वत्र अव्ययम्, असिद्धं प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''पूर्वत्र असिद्धम्''' |▼
▲पूर्वत्रासिद्धम् (८.२.१) = सपादसप्ताध्याय्यां स्थितस्य सूत्रस्य दृष्ट्या त्रिपादी असिद्धा अपि च त्रिपाद्यां पूर्वत्रिपाद्याः दृष्ट्या परत्रिपादी असिद्धा | इदम् अधिकारसूत्रम्; तस्य प्रभावः भवति ग्रन्थस्य अन्तपर्यन्तम् | पूर्वस्मिन् इति पूर्वत्र | न सिद्धम् असिद्धम् | पूर्वत्र अव्ययम्, असिद्धं प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— पूर्वत्र असिद्धम् |
२. विशेषनियमः | एते चकारान्त-जकारान्तधातवः व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज् चेत् |
Line 159 ⟶ 185:
अयं '''चोः कुः''' (८.२.३०) इत्यस्य अपवादः |
* एषां चकारान्त-जकारान्तधातूनां च अन्तिमवर्णस्य स्थाने षकारादेशो भवति '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रेण |
* प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति '''ष्टुना ष्टुः''' (८.४.४१) इति सूत्रेण |
* धात्वन्ते षकारस्य स्थाने जश्-आदेशः '''झलां जश् झशि''' (८.४.५३) इति सूत्रेण | षकारः मूर्धन्यवर्गे अस्ति, अतः तस्य स्थाने जश्त्वं नाम डकारादेशः |
यथा—
वाव्रश्च् + हि → '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) इत्यनेन हि-स्थाने धि-आदेशः → वाव्रश्च् + धि → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन झलि परे संयोगस्य आदौ स्थितस्य सकारस्य लोपः → वाव्रच् + धि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन च्-स्थाने ष्-आदेशः → वाव्रष् + धि → '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन प्रत्ययस्थस्य ध्-स्थाने ढ्-आदेशः → वाव्रष् + ढि → '''झलां जश् झशि''' (८.४.५३) इत्यनेन जश्त्वम् → वाव्रड् + ढि → वर्णमेलनम् → वाव्रड्ढि
Line 181 ⟶ 207:
<nowiki>*</nowiki>भ्रस्ज् इति मूल-धातुः; श्चुत्वं जश्त्वं च कृत्वा भ्रस्ज् → भ्रश्ज्→ भ्रज्ज् |
<nowiki>**</nowiki>'''सेर्ह्यपिच्च''' (३.४.८७) इत्यनेन अपित्त्वस्य अध्यारोपणात् गुण-वृद्धि-निषेधः |
स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स् च क् च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च |▼
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्, छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श् च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम् | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र 'जच्छशां' इति भागे छे च (६.१.७३) इत्यनेन तुक्-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |▼
▲'''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स् च क् च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च''' |
ष्टुना ष्टुः (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | यथासंख्यमनुदेशः समानाम् (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम् अनुदेशिनां च यथाक्रमम् उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | ष् च टुश्च ष्टुः, तेन ष्टुना, समाहारद्वन्द्वः | ष् च टुश्च ष्टुः, समाहारद्वन्द्वः | ष्टुना तृतीयान्तं, ष्टुः प्रथमान्तं, द्विपदमिदं सूत्रम् | स्तोः श्चुना श्चुः (८.४.४०) इत्यस्मात् स्तोः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— स्तोः ष्टुना ष्टुः संहितायाम् |▼
▲'''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) = व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्, छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श् च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम् | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र 'जच्छशां' इति भागे '''छे च''' (६.१.७३) इत्यनेन तुक्-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | '''झलो झलि''' (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च''' |
▲'''ष्टुना ष्टुः''' (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | यथासंख्यमनुदेशः समानाम् (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम् अनुदेशिनां च यथाक्रमम् उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | ष् च टुश्च ष्टुः, तेन ष्टुना, समाहारद्वन्द्वः | ष् च टुश्च ष्टुः, समाहारद्वन्द्वः | ष्टुना तृतीयान्तं, ष्टुः प्रथमान्तं, द्विपदमिदं सूत्रम् | स्तोः श्चुना श्चुः (८.४.४०) इत्यस्मात् स्तोः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— स्तोः ष्टुना ष्टुः संहितायाम् |
प्रश्नः उदेति किमर्थं ष्टुना ष्टुः (८.४.४१) सर्वदा पूर्वम् आयाति, झलां जश् झशि (८.४.५३) परमिति | पूर्वत्रासिद्धम् इति कारणम् | द्वे अपि सूत्रे त्रिपाद्याम् | तत्र सूत्रसङ्ख्या-दृष्ट्या ष्टुना ष्टुः इति पूर्वसूत्रं, झलां जश् झशि इति परसूत्रम् |
'''पूर्वत्रासिद्धम्''' (८.२.१) = सपादसप्ताध्याय्यां स्थितस्य सूत्रस्य दृष्ट्या त्रिपादी असिद्धा अपि च त्रिपाद्यां पूर्वत्रिपाद्याः दृष्ट्या परत्रिपादी असिद्धा | इदम् अधिकारसूत्रम्; तस्य प्रभावः भवति ग्रन्थस्य अन्तपर्यन्तम् | पूर्वस्मिन् इति पूर्वत्र | न सिद्धम् असिद्धम् | पूर्वत्र अव्ययम्, असिद्धं प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— पूर्वत्र असिद्धम् |
३. छकारान्तधातोः वर्गद्वयम्—
Line 204 ⟶ 239:
च्छ्वोः शूडनुनासिके च (६.४.१९) = तुक्-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ् च व् च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श् च ऊठ् च तयोः समाहारद्वन्द्वः शूड् | झलां जशोऽन्ते (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड् प्रथमान्तम्, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात् क्विझलोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— च्छ्वोः अङ्गस्य शूड् क्विझलोः अनुनासिके च |
c. धातुः टवर्गान्तः, प्रत्ययः धकारादिः
|