|<big>जाहय् + सि → जाहसि</big>
|-
|<big>र्र् + स्</big>
|<big>र्र् + ष्</big>
|<big>रेफस्य किमपि कार्यं न, सकारस्य षत्वम्</big>
|<big>आदेशप्रत्यययोः</big>
|<big>जागर्जागर् + सि → जागर्षि</big>
|-
|<big>ल् + स्</big>
|<big>लोपः</big>
|-
|<big>र्र्, ल्</big>
|<big>न किमपि</big>
|-
|<big>किमपि कार्यं न</big>
|
|<big>जागर्जागर् + ति → जागर्ति</big>
|-
|<big>ल् + त्/थ्</big>
|<big>लोपः</big>
|-
|<big>र्र्, ल्</big>
|<big>न किमपि</big>
|-
<big>'''चरफलोश्च''' (७.४.८७) = चर्चर्, फल्, इत्यनयोः धात्वोः अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च | इदं सूत्रं पृथक्तया उक्तं येन अग्रे केवलं चर्चर्, फल्, इत्यनयोः '''उत्परस्यातः''' (७.४.८८) इत्यनेन अभ्यासोत्तर-अतः उत्त्वं स्यात् | चरश्च फल् च तोरितरेतरद्वन्द्वः चरफलौ, तयोः चरफलोः | चरफलोः षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम् | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात् '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात् '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) इत्यस्मात् '''नुक्''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''चरफलोः च अङ्गस्य अभ्यासस्य नुक् यङ्लुकोः''' |</big>
<big>'''उत्परस्यातः''' (७.४.८८) = चर्चर्, फल्, इत्यनयोः धात्वोः अभ्यासात् परस्य ह्रस्व-अकारस्य स्थाने उत् आदेशो भवति यङि यङ्लुकि च | उत् प्रथमान्तं, परस्य षष्ठ्यन्तम्, अतः षष्ठ्यन्तं, त्रपदमिदं सूत्रम् | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात् '''अभ्यासस्य''' इत्यस्य विभक्तिपरिणामं कृत्वा '''अभ्यासात्''' इति अनुवृत्तिः | '''चरफलोश्च''' (७.४.८७) इत्यस्मात् '''चरफलोः''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात् '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''चरफलोः च अङ्गस्य अभ्यासात् परस्य अतः उत् यङ्लुकोः''' |</big>
<big>चर्चर् → चर्चर् चर्चर् → च चर्चर् → चञ्चर्चञ्चर् → चञ्चुर्चञ्चुर् इति यङ्लुगन्तधातुः</big>
<big>चञ्चुर्चञ्चुर् + ति → '''हलि च''' (८.२.७७) → चञ्चूर्ति</big>
<big>प्रश्नः अस्ति यत् तपकरणस्य सामर्थ्यात् यया रीत्या गुणः निवारितः, किमर्थं न एवमेव चञ्चुर्चञ्चुर् + ति इति स्थितौ '''हलि च''' (८.२.७७) इत्यनेन यः दीर्घादेशः प्रसक्तः, सोऽपि निवारितो भवेत् किल | अत्र किन्तु '''पूर्वत्रासिद्धम्''' (८.२.१) इत्यनेन '''उत्परस्यातः''' (७.४.८८) इत्यस्य दृष्ट्या '''हलि च''' (८.२.७७) इत्यस्य अस्तित्वं नास्ति अतः '''उत्परस्यातः''' (७.४.८८) इति सूत्रद्वारा यत् तपकरणस्य सामर्थ्यां, तद्द्वारा बाधा न सम्भ्वति | किमर्थमिति चेत्, उच्यते | '''पूर्वत्रासिद्धम्''' (८.२.१) इत्यस्य द्विविधं कार्यम् अस्माभिः अधीतं— शास्त्रासिद्धं, कार्यासिद्धञ्च | शास्त्रासिद्धं भवति यत्र सूत्रद्वयं युगपत् प्रसक्तं; तत्र पूर्वसूत्रं प्रति त्रिपाद्यां स्थितं परसूत्रम् असिद्धिम् | अपि च त्रिपाद्यां स्थितस्य परसूत्रस्य कार्यं पूर्वमेव जातमिति चेत्, तत्र पूर्वसूत्रं प्रति तच्च कार्यम् असिद्धम् | नाम यद्यपि कार्यं जातं, तथापि न दृश्यते पूर्वसूत्रेण | अधुना अनयोः द्विविधयोः कार्ययोः मध्ये अत्र प्रकृतस्थितिः उभयत्रापि न सङ्गच्छते | यतोहि द्वयोः प्रसक्तिः युकपत् नस्ति अपि च यस्य ('''उत्परस्यातः''' (७.४.८८) इत्यस्य) कार्यं जातं; तत्सूत्रं तु '''हलि च''' (८.२.७७) प्रति पूर्वसूत्रं न तु परसूत्रम् | तर्हि न शास्त्रासिद्धं, न वा कार्यासिद्धम् |</big>
|