१) अङ्गान्ते उपधायां च इकः गुणः निषिद्धः | '''सार्वधातुकमपित्''' (१.२.४), '''क्क्ङिति च''' (१.१.५) |
२) अनिदित्-धातूनाम् उपधायां न्-लोपः | येषां हलन्तधातूनाम् इत्-संज्ञकः ह्रस्वः इकारः नास्ति, तेषां धातूनाम् उपधायां नकारः अस्ति चेत्, तस्य लोपो भवति | '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) |
३) सम्प्रसारणिनां धातूनाम् सम्प्रसारणम् | यण्-स्थाने इक्-आदेशः (यण्-सन्धौ यथा भवति, तस्य विपरीतक्रमः), किति ङिति प्रत्यये परे | व्रश्च् + श + ति → वृश्चति | '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) |

४) दीर्घ ॠकारान्तधातुः, प्रत्ययः अजादिः चेत् → इर्इर्, उर्उर् | '''ॠत इद् धातोः''' (७.१.१००) | प्रत्ययः हलादिः चेत्, ईर्ईर्, ऊर्ऊर् | '''हलि च''' (८.२.७७) |

पदान्ते--
'''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) = पदान्ते रेफान्तस्य वकारान्तस्य च धातोः उपधायाः इकः दीर्घादेशो भवति | र्र् च व् र्वौ इतरेतरद्वन्द्वः, तयोः र्वोः | र्वोः षष्ठ्यन्तम्, उपधायाः षष्ठ्यन्तं, दीर्घाः प्रथमान्तम्, इकः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात् '''अन्ते''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''र्वोः धातोः उपधायाः दीर्घः इकः पदस्य अन्ते''' |

गॄ → गॄ + क्विप् → “'''क्विबन्ता विजन्ता धातुत्वं न जहति'''” इति परिभाषया क्विप् प्रत्ययः संयुज्यते चेदपि धातोः धातु-संज्ञा तिष्ठति → क्विप्-प्रत्ययस्य सर्वापहार-लोपः → '''लशक्वतद्धिते''' (१.३.८) ककारस्य, '''हलन्त्यम्''' (१.३.३) पकारस्य इत्-संज्ञा, '''तस्य लोपः''' (१.३.९) → गॄ + वि → इकारः उच्चारणार्थः → गॄ + व् → '''अपृक्त एकाल् प्रत्ययः''' (१.२.४१) इत्यनेन तस्य अपृक्त-संज्ञा, '''वेरपृक्तस्य''' (६.१.६७) इत्यनेन अपृक्त-संज्ञक-वकारस्य लोपः → गॄ [धातुः अपि, प्रातिपदिकम् अपि '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण] → '''ॠत इद्धातोः''' (७.१.१००) → गि → '''उरण् रपरः''' (१.१.५१) → गिर्गिर् इति धातुरूपि प्रातिपदिकम्

गिर्गिर् + सु → गिर्गिर् + स् → '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' (६.१.६७) → गिर्गिर् → '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यस्मात् '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन पदसंज्ञा → गिर्गिर् इति धातुः अपि, प्रातिपदिकम् अपि, पदम् अपि → '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) → गीर्गीर् → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) → गीः इति प्रथमाविभक्तौ एकवचने |
अजाज्वर्अजाज्वर् + त् → '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) → अजाजूर्अजाजूर् + त् → अजाजूर्अजाजूर् → अत्र '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यस्य सूत्रस्य प्रसक्तिः अस्ति वा ?
घुर्घुर्, तुर्तुर्, पुर्पुर्, क्षुर्क्षुर् | यङ्लुकि जोघुर्जोघुर् → अजोघुर्अजोघुर् + त् → एषु स्थलेषु गुणो भवति एव इति कारणतः तिङन्तस्य प्रसङ्गे '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यस्य कर्यं न कुत्रापि भवति |
अत्र तर्हि प्रश्नः उदेति यत् यदि अजाजूर्अजाजूर् इत्यस्य त्-प्रत्ययलोपानन्तरं धातुसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति, तर्हि उपरितने उदाहरणे “'''क्विबन्ता विजन्ता धातुत्वं न जहति'''” इति कथनस्य का आवश्यकता ? यया रीत्या त्-प्रत्ययलोपानन्तरं धातुसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति, तया एव रीत्या क्विप् इत्यस्य लोपानन्तरं धातुसंज्ञा अपि प्रातिपदिकसंज्ञा अपि स्यात् |
गॄ-धातुः यदा क्विबन्तं भवति तदा '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन प्रातिपदिकसंज्ञको भवति | क्विप्-प्रत्ययस्य सर्वापहार-लोपानन्तरमपि धातुसंज्ञा स्यात् | अत्र वार्ता अस्ति यत् अत्र पर्यन्तं समस्या नास्ति | अजाज्वर्अजाज्वर् + त् → 'अजाज्वर्अजाज्वर्' इति रूपं प्रत्ययान्तम् इति दृष्ट्या पदसंज्ञकम्; अप्रत्ययान्तम् ति दृष्ट्या धातुसंज्ञकम् | त्-प्रत्ययस्य लक्षणं यदा कुर्मः, तदा धातुसंज्ञा नास्त्येव | धातुसंज्ञा कदा भवति ? यदा '''भूवादयो धातवः''' (१.३.१) अथवा '''सनाद्यन्ता धातवः''' (३.१.३२) इति सूत्रेण धातुसंज्ञा विधीयते | इत्थञ्च 'अजाज्वर्अजाज्वर्' इति रूपम् एकया दृष्ट्या धातुः, अन्यया दृष्ट्या पदम् |
गॄ + क्विप् → क्विपः सर्वापहार-लोपः → गॄ इति रूपमपि तथैव प्रत्ययरहितं चेत् धातुसंज्ञकं, लक्षणेन प्रत्ययसहितं चेत् प्रातिपदिकसंज्ञकम् | अत्र पर्यन्तं च समस्या नास्ति | यया रीत्या अजाजूर्अजाजूर् + त् → 'अजाजूर्अजाजूर्' इत्यस्मिन् संज्ञाद्वयम् आसीत् | गॄ → गिर्गिर् इति यावदपि संज्ञाद्वयम् |
परन्तु अग्रे गिर्गिर् इति प्रातिपदिकात् यदा सु विधीयते, तत्र अस्माकं दृष्टिद्वयं स्थातुं न पारयति | यतोहि सुबादयः विधीयन्ते तदा यदा प्रातिपदिकसंज्ञा अस्ति; प्रातिपदिकसंज्ञा च अस्ति तदा यदा रूपं निश्चिततया क्विबन्तम् अस्ति येन '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन प्रातिपदिकसंज्ञा स्यात् | अत्र “'''क्विबन्ता विजन्ता धातुत्वं न जहति'''” वक्तव्यम् अस्ति येन धातुसंज्ञा तिष्ठेत्— येन सुबादयः आगन्तुं शक्नुयुः अपि च येन '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यनेन दीर्घादेशः स्यात् |

यदा सुबादीनां विधानार्थं गिर्गिर् इति क्विबन्तं निश्चिततया जातं, तदा सामान्यचिन्तनेन तस्य धातुसंज्ञा नष्टा | तदा '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यस्य प्रसक्तिः न भवति सम | एवमेव नी-धातुः | नी + औ |

'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्त-रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च | रः 'पदस्य' इत्यस्य विशेषणम्; '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम् पदं यस्य अन्ते रेफः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः | खर्खर् च अवसानं च खरवसाने तयोरितरेतरद्वन्द्वः, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''रो रि''' (८.३.१४) इत्यस्मात् '''रः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि''' '''संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''रः पदस्य विसर्जनीयः खरवसानयोः''' '''संहितायाम्''' |

[https://static.miraheze.org/samskritavyakaranamwiki/9/97/%E0%A5%A7%E0%A5%A8a_%E0%A4%B9%E0%A4%B2%E0%A5%8D_-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF-%E0%A4%85%E0%A4%AD%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B8%E0%A4%83.pdf १२a हल् -सन्धि-अभ्यासः.pdf]