6---sArvadhAtukaprakaraNam-anadantam-aGgam/12a---dhAtupAThe-hal-sandhi-abhyAsaH: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/12a---dhAtupAThe-hal-sandhi-abhyAsaH (view source)
Revision as of 18:45, 19 May 2021
, 3 years agono edit summary
Shubhada V (talk | contribs) No edit summary |
Shubhada V (talk | contribs) No edit summary |
||
Line 244:
<big><br />
'''स्''' औ अस्</big>
<big>अम् औ अस्</big>
<big>आ '''भ्याम्''' '''भिस्'''</big>
<big>ए '''भ्याम्''' '''भ्यस्'''</big>
<big>अस् '''भ्याम्''' '''भ्यस्'''</big>
<big>अस् ओस् आम्</big>
<big>इ ओस् '''सु'''</big>
<big><br />
Line 267:
<big>गिर् + सु → गिर् + स् → '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' (६.१.६७) → गिर् → '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यस्मात् '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन पदसंज्ञा → गिर् इति धातुः अपि, प्रातिपदिकम् अपि, पदम् अपि → '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) → गीर् → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) → गीः इति प्रथमाविभक्तौ एकवचने |</big>
<big>तथैव भ्याम्, भिस्, भ्यस्, सु | '''स्वादिष्वसर्वनामस्थाने''' (१.४.१७) इत्यनेन एषु स्थलेषु पूर्वभागस्य पद-संज्ञा |</big>
<big>अजाज्वर् + त् → '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) → अजाजूर् + त् → अजाजूर् → अत्र '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यस्य सूत्रस्य प्रसक्तिः अस्ति वा ?</big>
Line 279 ⟶ 283:
<big>अत्र तर्हि प्रश्नः उदेति यत् यदि अजाजूर् इत्यस्य त्-प्रत्ययलोपानन्तरं धातुसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति, तर्हि उपरितने उदाहरणे “'''क्विबन्ता विजन्ता धातुत्वं न जहति'''” इति कथनस्य का आवश्यकता ? यया रीत्या त्-प्रत्ययलोपानन्तरं धातुसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति, तया एव रीत्या क्विप् इत्यस्य लोपानन्तरं धातुसंज्ञा अपि प्रातिपदिकसंज्ञा अपि स्यात् |</big>
<big>गॄ-धातुः यदा क्विबन्तं भवति तदा '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन प्रातिपदिकसंज्ञको भवति | क्विप्-प्रत्ययस्य सर्वापहार-लोपानन्तरमपि धातुसंज्ञा स्यात् | अत्र वार्ता अस्ति यत् अत्र पर्यन्तं समस्या नास्ति | अजाज्वर् + त् → 'अजाज्वर्' इति रूपं प्रत्ययान्तम् इति दृष्ट्या पदसंज्ञकम्; अप्रत्ययान्तम् ति दृष्ट्या धातुसंज्ञकम् | त्-प्रत्ययस्य लक्षणं यदा कुर्मः, तदा धातुसंज्ञा नास्त्येव | धातुसंज्ञा कदा भवति ? यदा '''भूवादयो धातवः''' (१.३.१) अथवा '''सनाद्यन्ता धातवः''' (३.१.३२) इति सूत्रेण धातुसंज्ञा विधीयते | इत्थञ्च 'अजाज्वर्' इति रूपम् एकया दृष्ट्या धातुः, अन्यया दृष्ट्या पदम् |</big>
<big>गॄ + क्विप् → क्विपः सर्वापहार-लोपः → गॄ इति रूपमपि तथैव प्रत्ययरहितं चेत् धातुसंज्ञकं, लक्षणेन प्रत्ययसहितं चेत् प्रातिपदिकसंज्ञकम् | अत्र पर्यन्तं च समस्या नास्ति | यया रीत्या अजाजूर् + त् → 'अजाजूर्' इत्यस्मिन् संज्ञाद्वयम् आसीत् | गॄ → गिर् इति यावदपि संज्ञाद्वयम् |</big>
<big>परन्तु अग्रे गिर् इति प्रातिपदिकात् यदा सु विधीयते, तत्र अस्माकं दृष्टिद्वयं स्थातुं न पारयति | यतोहि सुबादयः विधीयन्ते तदा यदा प्रातिपदिकसंज्ञा अस्ति; प्रातिपदिकसंज्ञा च अस्ति तदा यदा रूपं निश्चिततया क्विबन्तम् अस्ति येन '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन प्रातिपदिकसंज्ञा स्यात् | अत्र “'''क्विबन्ता विजन्ता धातुत्वं न जहति'''” वक्तव्यम् अस्ति येन धातुसंज्ञा तिष्ठेत्— येन सुबादयः आगन्तुं शक्नुयुः अपि च येन '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यनेन दीर्घादेशः स्यात् |</big>
<big>सारांशः एवं यत् यः प्रत्ययान्तः अस्ति—यथा क्विबन्ताः—तस्य धातुसंज्ञा न भवति | '''भूवादयो धातवः''' (१.३.१) इत्यनेन ये पाणिनेः धातुपाठे उपदिष्टाः ते एव धातवः | '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन ये द्वादश धातुप्रत्ययाः, ते एव धातुभ्यः विधीयन्ते चेत् धातुसंज्ञा भवति | अतः क्विबन्तम् अस्ति चेत्, धातुसंज्ञा नास्ति | यथा लिख् + श → लिख; अत्रापि लिख् इति अन्तर्भूतभागस्य धातुसंज्ञा वर्तते, किन्तु लिख इति प्रत्ययान्तरूपस्य धातुसंज्ञा नास्ति |</big>
<big>अत्र कासां कासां संज्ञानां सहवासः सम्भवति इति प्रसङ्गे एकं विशिष्टसूत्रं ज्ञातव्यम्—'''आकडारादेका''' ''' संज्ञा''' (१.४.१) |</big>
|