6---sArvadhAtukaprakaraNam-anadantam-aGgam/12b---anunAsikAntam-angam: Difference between revisions

copy-paste text
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती)
 
(copy-paste text)
Line 1:
<big>ध्वनिमुद्रणानि--</big>
<please replace this with content from corresponding Google Sites page>
 
<big>2018-वर्गः</big>
 
 
स<big>र्वदा सन्धिकार्यात्‌ पूर्वं चिन्तनीयम्‌ अङ्गकार्यप्रसङ्गे | अतः प्रथमतया अङ्गं कीदृशम्‌ ? अङ्गं ग्रह्यादि, वच्यादि, अनिदित्‌, अनुनासिकान्तम्‌ च | चतुर्षु अङ्गम्‌ अन्यतमं चेत्‌, विशिष्टम्‌ अङ्गकार्यम्‌ अपेक्षितम्‌ |</big>
 
 
<big>अनुनासिकान्तम्‌ अङ्गं चेत्‌, कित्‌ङित्‌-प्रत्यये परे चत्वारि सूत्रणि—</big>
 
 
१) '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) = वन्‌-धातोः, अनुनासिकान्त-अनुदात्तोपदेश-धातोः, अनुनासिकान्त-तनादि-धातोः अनुनासिकस्य लोपो भवति झलादि-कित्‌ङित्‌-प्रत्यये परे | पञ्चदश धातवः |
 
२) '''जनसनखनां सञ्झलोः''' (६.४.४२) = जन्‌, सन्‌, खन्‌ एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्‌-प्रत्यये परे झलादि-कित्ङित्‌-प्रत्यये परे च | त्रयः धातवः |
 
३) '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) = अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशो भवति क्वि च झलादि कित्‌ङित्‌-प्रत्यये परे | अवशिष्ट-धातवः |
 
४) '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) = अजादि-कित्ङित्‌-प्रत्यये परे गम्‌, हन्‌, जन्‌, खन्‌, घस्‌ एषां धातूनाम्‌ उपधायाः लोपो भवति | पञ्च धातवः |
 
 
मकारान्तानां पदत्वे सति, म्‌-स्थाने नकारः—
 
 
'''मो नो धातोः''' (८.२.६४) = मकारान्तस्य धातोः पदस्य नकारादेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन '''मः धातोः''' इत्यनेन मकारान्तस्य धातोः इत्यस्यापि ग्रहणम्‌ | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन नकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य मकारस्य | मः षष्ठ्यन्तं, नः प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''मः धातोः पदस्य अन्ते नः''' |
 
 
मकारान्तानां अपदत्वे सति, म्‌-स्थाने नकारः—
 
 
'''म्वोश्च''' (८.२.६५) = मकारान्तधातोः धात्वन्त-मकारस्य स्थाने नकारादेशो भवति मकारे वकारे च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन '''मः धातोः''' इत्यनेन मकारान्तस्य धातोः इत्यस्यापि ग्रहणम्‌ | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन नकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य मकारस्य | म्‌ च व्‌ च म्वौ, तयोः म्वोः | म्वोः सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''मो नो धातोः''' (८.२.६४) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''मः धातोः नः''' '''म्वोश्च''' |
 
 
'''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) = वन्‌-धातोः, अनुनासिकान्त-अनुदात्तोपदेश-धातोः, अनुनासिकान्त-तनादि-धातोः अनुनासिकस्य लोपो भवति झलादि-कित्‌ङित्‌-प्रत्यये परे | अनुदात्तः उपदेशे येषां ते, अनुदात्तोपदेशाः बहुव्रीहिः | तनोतिः आदिः येषां ते, तनोत्यादयः बहुव्रीहिः | अनुदात्तोपदेशाश्च वनतिश्च तनोत्यादयश्च तेषामितरेतरद्वन्द्वः अनुदात्तोपदेशवनतितनोत्यादयः, तेषाम्‌ अनुदात्तोपदेशवनतितनोत्यादीनाम्‌ | क्‌ च ङ्‌ तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत्‌ क्ङित्‌, तस्मिन्‌ क्ङिति | अनुदात्तोपदेशवनतितनोत्यादीनां षष्ठ्यन्तम्‌, अनुनासिक इति लुप्तष्ठीकं पदं, लोपः प्रथमान्तं, झलि सप्तम्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति (वनतिं विहाय 'अनुनासिक' इति पदं सर्वेषां विशेषणम्‌); '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्ते स्थितस्य अनुनासिकवर्णस्य लोपः; '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन '''झलि क्ङिति''' इत्युक्तौ झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल्‌ स्यात्‌) | अनुवृत्ति-सहितसूत्रम्‌— '''अनुनासिक-अनुदात्तोपदेशवनतितनोत्यादीनाम्‌ अङ्गस्य लोपः झलि क्ङिति''' |
 
 
अनेन आहत्य पञ्चदश धातवः निर्दिष्टाः | वन्‌ धातुः (भ्वादिगणे), अनुनासिकान्त-अनुदात्तोपदेश-धातवः (यम्‌, रम्‌, नम्‌, गम्‌, हन्‌, मन्‌), अनुनासिकान्त-तनादि-धातवः (तनु, क्षिणु, क्षणु, ऋणु, तृणु, घृणु, वनु, मनु) | एषु धातुषु मन्-धातुः दिवादिगणे अस्ति; हन्‌-धातुः अदादिगणे अस्ति; अष्ट धातवः तनादिगणे सन्ति; अवशिष्टाः भ्वादौ एव | एषां धातूनाम्‌ अन्ते स्थितस्य अनुनासिकस्य लोपो भवति झलादि-कित्‌ङित्‌-प्रत्यये परे |
 
 
'''जनसनखनां सञ्झलोः''' (६.४.४२) = जन्‌, सन्‌, खन्‌ एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्‌-प्रत्यये परे झलादि-कित्ङित्‌-प्रत्यये परे च | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन आकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य नकारस्य | जनश्च सनश्च खन्‌ च तेषामितरेतरद्वन्द्वः जनसनखनः, तेषां जनसनखनाम्‌ | सन्‌ च झल्‌ च तयोरितरेतरद्वन्द्वः सञ्झलौ, तयोः सञ्झलोः | जनसनखनां षष्ठ्यन्तं, सञ्झलोः सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''विड्वनोरनुनासिकस्यात्‌''' (६.४.४१) इत्यस्मात्‌ '''आत्‌''' इत्यस्य अनुवृत्तिः, '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्मात्‌ '''झलि''', '''क्ङिति''' इत्यनयोः अनुवृत्तिः | '''झलि''' इति अनुवृत्तिः '''सन्''' इत्यस्य विशेषणम्‌; अनेन यत्र सनि इडागमो भवति, तत्र सन्‌ झलादिः नास्ति अतः नकारस्य आत्वं न भवति | सूत्रे स्थितं 'झलि' तु '''क्ङिति''' इत्यस्य विशेषणम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''जनसनखनाम्‌ अङ्गानाम्‌ आत् झलि सञ्झलोः‌ क्ङिति''' |
 
 
'''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) = अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशो भवति क्वि च झलादि कित्‌ङित्‌-प्रत्यये परे | क्विश्च झल्‌ तयोरितरेतरद्वन्द्वः क्विझलौ, तयोः क्विझलोः | क्‌ च ङ्‌ तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत्‌ क्ङित्‌, तस्मिन्‌ क्ङिति | अनुनासिकस्य षष्ठ्यन्तं, क्विझलोः सप्तम्यन्तं, क्ङिति च सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''नोपधायाः''' (६.४.७) इत्यस्मात्‌ '''उपधायाः''' इत्यस्य अनुवृत्तिः | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात्‌ '''दीर्घः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति; '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन '''क्विझलोः क्ङिति''' इत्युक्तौ क्वि + झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल्‌ स्यात्‌) | अनुवृत्ति-सहितसूत्रम्‌— '''अनुनासिकस्य अङ्गस्य उपधायाः दीर्घः''' '''क्विझलोः क्ङिति''' |
 
 
'''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) = अजादि-कित्ङित्‌-प्रत्यये परे गम्‌, हन्‌, जन्‌, खन्‌, घस्‌ एषां धातूनाम्‌ उपधायाः लोपो भवति (परन्तु अङ्‌-प्रत्ययः चेत् लोपः न भवति) | गमश्च हनश्च जनश्च खनश्च घस्‌ च तेषामितरेतरद्वन्द्वो गमहनजनखनघसः, तेषां गमहनजनखनघसाम्‌ | क्‌ च ङ्‌ च क्ङौ, क्ङौ इतौ यस्य सः क्ङित्‌, तस्मिन्‌ क्ङिति | न अङ्‌ अनङ्‌, तस्मिन्‌ अनङि | गमहनजनखनघसां षष्ठ्यन्तं, लोपः प्रथमान्तं, क्ङिति सप्तम्यत्नम्‌, अनङि सप्तम्यतम्‌ अनेकपदमिदं सूत्रम्‌ | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः; '''ऊदुपधाया गोहः''' (६.४.८९) इत्यस्मात्‌ '''उपधायाः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''गमहनजनखनघसाम्‌ अङ्गानाम्‌ उपधायाः लोपः अनङि अचि क्ङिति''' |
 
 
'''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) = अजादि-पित्‌-सार्वधातुकप्रत्यये परे अभ्यस्तस्य लघूपधगुणः न भवति | न अव्ययपदम्‌, अभ्यस्तस्य षष्ठ्यन्तम्‌, अचि सप्तम्यन्तं, पिति सप्तम्यन्तं, सार्वधातुके सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यस्मात्‌ '''लघूपधस्य''' इत्यस्य अनुवृत्तिः, '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अचि पिति सार्वधातुके, अभ्यस्तस्य अङ्गस्य लघूपधस्य गुणः न''' |
 
 
यङ्लुक्‌-सम्बद्ध-परिभाषा-द्वयम्‌—
 
 
'''प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम्‌''' (परिभाषा १०१) = अनेन यत्‌ कार्यं औपदेशिकधातौ निर्दिष्टं तत्‌ यङ्लुकि अपि निर्दिष्यते |
 
 
किन्तु—
 
 
'''श्तिपा शपाऽनुबन्धेन निर्दिष्टं यद्‌ गणेन च |'''
 
'''यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि ||''' (परिभाषा १३१)
teachers
73

edits