6---sArvadhAtukaprakaraNam-anadantam-aGgam/13--dhAtupAThe-hal-sandhau-anusvAraparasAvarNyaM-ca: Difference between revisions

copy text upto 2
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती)
 
(copy text upto 2)
Line 1:
हल्‌-सन्धौ चत्वारः भागाः सन्ति; ते च सर्वे समाप्ताः | तथापि अग्रे गमनात्‌ प्राक्‌ एकः विशेषविषये चर्चनीयमस्तीति | अपदान्ते नकारो मकारो वा अस्ति चेत्‌, अपि च झल्‌-प्रत्याहारस्य कश्चन वर्णः परे अस्ति चेत्‌, तस्यां दशायां का गतिरस्ति ?
<please replace this with content from corresponding Google Sites page>
 
 
A. यदा क्रियापदं निर्मीयते तदा अङ्गकार्यं सन्धिकार्यं च क्रियेते | अस्य सर्वस्यानन्तरं कुत्रचित्‌ रूपस्य मध्ये न्‌ वा म्‌ वा अस्ति चेत्‌, सः न्‌ / म्‌ अपदान्तः न्‌ / म्‌ अस्ति | यथा—
 
 
१. रुधादिगणे, सार्वधातुकप्रत्यये परे श्नम्‌ इति विकरणप्रत्ययः आयाति | अनुबन्धलोपे "न" इत्येव अवशिष्यते | यः सार्वधातुकप्रत्ययः परे अस्ति सः अपित्‌ अस्ति चेत्‌, तर्हि '''श्नसोरल्लोपः''' (६.४.१११) इत्यनेन "न" इत्यस्य अकारस्य लोपो भवति |
 
रुध्‌ + श्नम्‌ + तस्‌ → रुनध्‌ + तः → '''श्नसोरल्लोपः''' इत्यनेन "न" इत्यस्य अकारस्य लोपः → रुन्‌ध्‌ + तः‌
 
 
तथैव अपित्सु प्रत्ययेषु—
 
 
भुज्‌ + श्नम्‌ → भुनज्‌ → भुन्‌ज्‌
 
खिद्‌ + श्नम्‌ → खिनद्‌ → खिन्‌द्‌
 
विच्‌ + श्नम्‌ → विनच्‌ → विन्‌च्‌
 
तृह्‌ + श्नम्‌ → तृनह्‌‌ → तृन्‌ह्‌
 
कृत्‌ + श्नम्‌ → कृनत्‌ → कृन्‌त्‌
 
 
एषु धातुषु यः नकारः उपविष्टोऽस्ति, सः अपदान्तनकार इति |
653

edits