6---sArvadhAtukaprakaraNam-anadantam-aGgam/13--dhAtupAThe-hal-sandhau-anusvAraparasAvarNyaM-ca: Difference between revisions

Section B copied
(copy text upto B)
(Section B copied)
Line 25:
<big><br />
एषु धातुषु यः नकारः उपविष्टोऽस्ति, सः अपदान्तनकार इति |</big>
 
 
<big>२. इदित्सु धातुषु यदा नुम्‌-आगमः विहितो भवति तदा नकारः धातोः मध्ये उपविशतीति |</big>
Line 57 ⟶ 58:
 
<big>एषु धातुषु यः मकारोस्ति, सः अपदान्तनकार इति |</big>
 
<big>B. अनुस्वारादेशः— '''नश्चापदान्तस्य झलि'''</big>
 
<big>'''नश्चापदान्तस्य झलि''' (८.३.२४, लघु० ७८) = झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''मो‍ऽनुस्वारः''' इत्यस्मात्‌ '''मः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रमेवम्‌—'''झलि अपदान्तस्य मः नः च अनुस्वारः''' |</big>
 
<big>अस्य सूत्रस्य कृते प्रथमनियमः अस्ति यत्‌ म्‌ / न्‌ अपदान्ते स्यात्‌ | यथा—</big>
 
<big>मन्‌ + ता</big>
 
<big>हन्‌ + ता</big>
 
<big>गम्‌ + ता</big>
 
 
<big>उपरितनासु स्थितिषु धातुरस्ति अपि च प्रत्ययोऽस्ति | तयोर्योजनेन पदं निष्पन्नम्‌, '''सुप्तिङन्तं पदम्'''‌ इत्यनेन | मन्‌, हन्‌, गम्‌ च केवलं धातवः; पदानि इति न | अतः एषाम्‌ अपदानाम्‌ अन्ते तत्र नकारमकारौ अपदान्तौ | अपि च ता-प्रत्ययः झलादिः अस्ति | अतः '''नश्चापदान्तस्य झलि''' इत्यनेन नकरमकारयोः स्थाने अनुस्वारादेशो भवति |</big>
 
 
<big>मन्‌ + ता → मंता</big>
 
<big>हन्‌ + ता → हंता</big>
 
<big>गम्‌ + ता → गंता</big>
 
 
<big>एवमेव—</big>
 
 
<big>यम्‌ + ता → यंता</big>
 
<big>हन्‌ + सि → हंसि</big>
 
<big>रम्‌ + स्यते → रंस्यते</big>
 
<big>नम्‌ + स्यति → नंस्यति</big>
 
<big>मन्‌ + स्यते → मंस्यते</big>
 
 
<big>रुधादिगणे अपि रुन्‌ध् इत्यस्मिन्‌ नकारः अपदान्तः; झल्‌-प्रत्याहारे धकारः परे अस्ति | अतः अत्रापि '''नश्चापदान्तस्य झलि''' इत्यनेन अनुस्वारादेशो भवति |</big>
 
 
<big>रुन्‌ध् → रुंध्‌ शुन्‌ठ्‌ → शुंठ्‌</big>
 
<big>भुन्‌ज्‌ → भुंज्‌ शिन्‌घ्‌ → सिंघ्‌</big>
 
<big>खिन्‌द्‌ → खिंद्‌ नन्‌द्‌ → नंद्‌</big>
 
<big>विन्‌च्‌ → विंच्‌ लान्‌छ्‌ → लांछ्‌</big>
 
<big>तृन्‌ह्‌ → तृंह्‌ इन्‌ख्‌ → इंख्‌</big>
 
<big>कृन्‌त्‌ → कृंत्‌</big>
653

edits