6---sArvadhAtukaprakaraNam-anadantam-aGgam/13--dhAtupAThe-hal-sandhau-anusvAraparasAvarNyaM-ca: Difference between revisions

Section C copied
(Section B copied)
(Section C copied)
Line 59:
<big>एषु धातुषु यः मकारोस्ति, सः अपदान्तनकार इति |</big>
 
<big>B. अनुस्वारादेशः— '''नश्चापदान्तस्य झलि'''</big>
 
<big>B. अनुस्वारादेशः— '''नश्चापदान्तस्य झलि'''</big>
<big>'''नश्चापदान्तस्य झलि''' (८.३.२४, लघु० ७८) = झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''मो‍ऽनुस्वारः''' इत्यस्मात्‌ '''मः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रमेवम्‌—'''झलि अपदान्तस्य मः नः च अनुस्वारः''' |</big>
 
<big>अस्य सूत्रस्य कृते प्रथमनियमः अस्ति यत्‌ म्‌ / न्‌ अपदान्ते स्यात्‌ | यथा—</big>
Line 110 ⟶ 112:
 
<big>कृन्‌त्‌ → कृंत्‌</big>
 
<big>C. परसवर्णादेशः— '''अनुस्वारस्य ययि परसवर्णः'''</big>
 
<big>'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) = ययि अनुस्वारस्य स्थाने परसवर्णादेशो भवति | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः |</big>
 
<big>'''परसवर्णः''' इत्युक्ते अनुस्वारात्‌ परे यः वर्णः, तस्य सवर्णः | सवर्णः नाम अनुस्वारात्‌ परे यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते | अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु | परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः ? '''स्थाने‍ऽन्तरतमः''' (१.१.५०) सूचयति यत्‌ यस्य स्थाने आदेशो भवति तस्य अन्तरतमो नाम सदृश आदिष्टो भवतु | वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्यः एव | अतः '''स्थाने‍ऽन्तरतमः''' इत्यस्य साहाय्येन '''अनुस्वारस्य ययि परसवर्णः''' इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमादेशो भवति | यथा‌—अंग → अङ्ग, मंच → मञ्च, मंता → मन्ता</big>
 
<big>धेयम्‌—‌ '''यय्'''-प्रत्याहारः वक्ति यत्‌ श्‌, ष्‌, स्‌, ह् एषु अन्यतमः परे अस्ति चेत्‌, अनुस्वारस्य परसवर्णादेशो नैव भवति | यथा‌—रंस्यते = रंस्यते, नंस्यति = नंस्यति, संगंस्यते = संगंस्यते |</big>
 
<big>'''स्थाने‍ऽन्तरतमः''' (१.१.५०) = प्रसङ्गे (स्थानम्‌, अर्थं, गुणं, प्रमाणं वा अनुसृत्य) तुल्यतम आदेशो भवतु | यत्र यत्र स्थानेन निर्णेतुं शक्येत तत्र तत्र स्थानमेव निर्णयस्य आधारः | स्थाने सप्तम्यम्तम्‌, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | इदं सूत्रं परिभाषा-सूत्रम्‌ इत्युच्यते | उदाहरणार्थं यत्र (१) आदेशः अपेक्षितः, अपि च (२) अनेकानां वर्णानां ग्रहणम्‌ अस्ति, अपि च (३) तेषु कः वर्णः गृहीतः स्यात्‌ इत्यर्थं कोऽपि नियमः नास्ति, तस्यां दशायां यत्‌ सूत्रम्‌ आगत्य नियमति तत्‌ परिभाषा-सूत्रम्‌ इत्युच्यते | केवलम्‌ आदेश-प्रसङ्गे इति न; यत्र कुत्रापि कार्यम्‌ अपेक्षितं किन्तु नियमः नास्ति, तत्र येन सूत्रेण निर्णयः क्रियते तत्‌ परिभाषा-सूत्रम् इति | अन्यच्च अत्र '''प्रसङ्गे''' तुल्यतम आदेश इति उक्तम्‌ | "प्रसङ्ग" इत्युक्ते यत्र प्राप्तिरस्ति | तुल्यता, समानता, सादृश्यम्‌ इत्यस्य आधारेण आदेशस्य विधानं चेत्‌, तर्हि स्थानम्‌, अर्थं, गुणं, प्रमाणं वा अनुसृत्य तुल्यता परिशील्यताम्‌ | सर्वप्रथमं स्थानं; स्थानं नोपलभ्यते चेत्‌, अर्थः; अर्थः नोपलभ्यते चेत्‌, गुणः; गुणः नोपलभ्यते चेत्‌ प्रमाणम्‌ इति निर्णयस्य आधारः |</big>
653

edits