6---sArvadhAtukaprakaraNam-anadantam-aGgam/13--dhAtupAThe-hal-sandhau-anusvAraparasAvarNyaM-ca: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/13--dhAtupAThe-hal-sandhau-anusvAraparasAvarNyaM-ca (view source)
Revision as of 09:16, 12 May 2021
, 3 years agoSection D copied
Bina Radia (talk | contribs) (Section C copied) |
Bina Radia (talk | contribs) (Section D copied) |
||
Line 127:
<big>'''स्थानेऽन्तरतमः''' (१.१.५०) = प्रसङ्गे (स्थानम्, अर्थं, गुणं, प्रमाणं वा अनुसृत्य) तुल्यतम आदेशो भवतु | यत्र यत्र स्थानेन निर्णेतुं शक्येत तत्र तत्र स्थानमेव निर्णयस्य आधारः | स्थाने सप्तम्यम्तम्, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रम् | इदं सूत्रं परिभाषा-सूत्रम् इत्युच्यते | उदाहरणार्थं यत्र (१) आदेशः अपेक्षितः, अपि च (२) अनेकानां वर्णानां ग्रहणम् अस्ति, अपि च (३) तेषु कः वर्णः गृहीतः स्यात् इत्यर्थं कोऽपि नियमः नास्ति, तस्यां दशायां यत् सूत्रम् आगत्य नियमति तत् परिभाषा-सूत्रम् इत्युच्यते | केवलम् आदेश-प्रसङ्गे इति न; यत्र कुत्रापि कार्यम् अपेक्षितं किन्तु नियमः नास्ति, तत्र येन सूत्रेण निर्णयः क्रियते तत् परिभाषा-सूत्रम् इति | अन्यच्च अत्र '''प्रसङ्गे''' तुल्यतम आदेश इति उक्तम् | "प्रसङ्ग" इत्युक्ते यत्र प्राप्तिरस्ति | तुल्यता, समानता, सादृश्यम् इत्यस्य आधारेण आदेशस्य विधानं चेत्, तर्हि स्थानम्, अर्थं, गुणं, प्रमाणं वा अनुसृत्य तुल्यता परिशील्यताम् | सर्वप्रथमं स्थानं; स्थानं नोपलभ्यते चेत्, अर्थः; अर्थः नोपलभ्यते चेत्, गुणः; गुणः नोपलभ्यते चेत् प्रमाणम् इति निर्णयस्य आधारः |</big>
<big>D. अनुस्वारस्य स्थाने के के आदेशाः भवन्ति इति पश्याम</big>
<big>१. अनुस्वारात् परे क्, ख्, ग्, घ् वा चेत्, अनुस्वारस्य स्थाने ङकारादेशो भवति |</big>
<big>अंक → अङ्क</big>
<big>पुंख → पुङ्ख</big>
<big>अंग → अङ्ग</big>
<big>लंघन → लङ्घन</big>
<big>२. अनुस्वारात् परे च्, छ्, ज्, झ् वा चेत्, अनुस्वारस्य स्थाने ञकारादेशो भवति |</big>
<big>मंच → मञ्च</big>
<big>उंछ → उञ्छ</big>
<big>मंजु → मञ्जु</big>
<big>झंझा → झञ्झा</big>
<big>३. अनुस्वारात् परे ट्, ठ्, ड्, ढ् वा चेत्, अनुस्वारस्य स्थाने णकारादेशो भवति |</big>
<big>घंटा → घण्टा</big>
<big>शुंठी → शुण्ठी</big>
<big>मुंड → मुण्ड</big>
<big>शंढ → शण्ढ</big>
<big>४. अनुस्वारात् परे त्, थ्, द्, ध् वा चेत्, अनुस्वारस्य स्थाने नकारादेशो भवति |</big>
<big>मंता → मन्ता</big>
<big>मंथन → मन्थन</big>
<big>कुंद → कुन्द</big>
<big>बंधन → बन्धन</big>
<big>५. अनुस्वारात् परे प्, फ्, ब्, भ् वा चेत्, अनुस्वारस्य स्थाने मकारादेशो भवति |</big>
<big>कंपन → पम्पन</big>
<big>गुंफ → गुम्फ</big>
<big>लंब → लम्ब</big>
<big>स्तंभ → स्तम्भ</big>
|