page_and_link_managers, Administrators
5,094
edits
Bina Radia (talk | contribs) No edit summary |
No edit summary |
||
(28 intermediate revisions by 4 users not shown) | |||
Line 1:
{{DISPLAYTITLE: 14A - अदादिगणे हलन्तधातवः}}
<big>ध्वनिमुद्रणानि -</big>
Line 42 ⟶ 43:
४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/79_adAdigaNe-halantadhAtavaH-4____2016-07-31.mp3 adAdigaNe-halantadhAtavaH-4_विद्_+_हन्_2016-07-31]
५) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/80_adAdigaNe-halantadhAtavaH-5________2016-08-07.mp3 adAdigaNe-halantadhAtavaH-
६) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/81_adAdigaNe-halantadhAtavaH-6_-_________2016-08-014.mp3 adAdigaNe-halantadhAtavaH-6_द्विषन्ति-पूर्वत्रासिद्धम्_+_चक्ष्_+_वस्_+_कसि_+_णिसि_2016-08-14]
Line 65 ⟶ 66:
<big>स्मर्यते यत् हलन्तधातुरूपाणि भिन्नरीत्या सिध्यन्ति अदादिगणे, जुहोत्यादिगणे, रुधादिगणे च यतः तत्र धातोः तिङ्-प्रत्ययस्य च साक्षात् सम्पर्कः | अदादिगणे, जुहोत्यादिगणे, रुधादिगणे च हलन्तधातुभ्यः यदा हलादि-प्रत्ययः विहितः, तदा हल्-सन्धिः सम्भवति इति ज्ञायते | स्मरन्तु यत् प्रत्ययः अजादि-वर्णैः आरभ्यते, तदा धातुः हलन्तः चेदपि हल्-सन्धिः न भवति (केवलं वर्ण-सम्मेलनं भवति) | प्रत्ययः य्,
Line 309 ⟶ 310:
<big>'''- नश्चापदान्तस्य झलि''' (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | '''मोऽनुस्वारः''' (८.३.२३) इत्यस्मात् '''मः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अपदान्तस्य मः नः च अनुस्वारः''' '''झलि संहितायाम्''' |</big>
<big>'''- आदेशप्रत्यययोः''' (८.३.५९) = इण्-प्रत्याहारात् कवर्गीयात् च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्, तस्य सकारस्य स्थाने षकारादेशो भवति | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं '''स्थानेऽन्तरतमः''' इत्यनेन ट्, ठ्, ड्, ढ्, ण्, ष् इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्, अतः षकारः एव आदिष्टः भवति | नुम्, विसर्गः,
<big>'''- रषाभ्यां नो णः समानपदे''' (८.४.१) = रेफषकाराभ्यामुत्तरस्य नकारस्य णकारादेशो भवति, समानपदस्थौ चेदेव निमित्तनिमित्तिनौ भवतः |</big>
Line 319 ⟶ 320:
<big>'''- झलां जश् झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्-वर्णेषु वर्णनिर्धारणम् | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | झश्-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''झलां जश् झशि संहितायाम्''' |</big>
<big>'''- खरि च''' (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''झलां जश् झशि''' इत्यस्मात् '''झलां''' इत्यस्य अनुवृत्तिः; '''अभ्यासे चर्च''' इत्यस्मात् '''चर्च''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रमेवम्— '''झलां
<big>'''- अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अनुस्वारस्य ययि परसवर्णः संहितायाम्''' |</big>
<big>'''- वाऽवसाने''' (८.४.५६) = अवसाने झलः विकल्पेन
<big>'''- झरो झरि सवर्णे''' (८.४.६५) = हल्-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''हलो यमां यमि लोपः''' (८.४.६४) इत्यस्मात् '''हलः''', '''लोपः''' चेत्यनयोः अनुवृत्तिः | '''झयो होऽन्यतरस्याम्''' (८.४.६२) इत्यस्मात् '''अन्यतरस्याम्''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''हलः झरः लोपः अन्यतरस्यां सवर्णे झरि''' '''संहितायाम्''' |</big>
Line 339 ⟶ 340:
* <big>'''चोः कुः''' (८.२.३०) इति कुत्वे वच् + ति → वक्ति</big>
* <big>प्रत्ययः अजादिः, अथवा प्रत्ययः य्,
* <big>''''''आदेशप्रत्यययोः''' (८.३.५९)''' इत्यनेन कवर्गीयात् परे प्रत्ययावयव-सकारस्य स्थाने षकारादेशो भवति | वच् + सि → '''चोः कुः''' → वक् + सि → वक्षि</big>
* <big>'''हुझल्भ्यो हेर्धिः''' इत्यनेन झलन्तेभ्यः धातुभ्यः हि-प्रत्ययस्य स्थाने धि-आदेशो भवति</big>
Line 381 ⟶ 382:
* <big>'''चोः कुः''' (८.२.३०) इति कुत्वे पृच् + ते → पृक्ते</big>
* <big>प्रत्ययः अजादिः, अथवा प्रत्ययः य्,
* <big>'''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन कवर्गीयात् परे प्रत्ययावयव-सकारस्य स्थाने षकारादेशो भवति | पृच् + से → '''चोः कुः''' → पृक् + से → पृक् + षे → पृक्षे</big>
* <big>धकारादिप्रत्यये परे जश्त्वम् | पृच् + ध्वे → '''चोः कुः''' → पृक् + ध्वे → '''झलां जश् झशि''' → पृग् + ध्वे → पृग्ध्वे</big>
Line 543 ⟶ 544:
{| class="wikitable"
|+
|-
|<big>थास्</big>
Line 616 ⟶ 617:
<big><u>रूपाणि</u></big>
<big>लटि —</big>
Line 703 ⟶ 704:
<big>अद्-धातुः अजादिः अतः लङि '''आडजादीनाम्''' इत्यनेन आडागमः, '''आटश्च''' इत्यनेन वृद्धिरादेशः च | आ + अद् → आद् इति अङ्गम् | अन्यच्च अपृक्तप्रत्ययः परे अस्ति चेत् तस्य अपृक्तप्रत्ययस्य अडागमो भवति इति कारणतः अत्र अपृक्तप्रत्ययस्य लोपो न भवति अद्-धातुतः | (सामान्यतया हलन्तधातुतः अपृक्तप्रत्ययस्य लोपो भवति इति तु जानीमः | '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''')<br />
</big>
<big>आद् + त् → '''अदः सर्वेषाम्''' → आद् + अट् + त् → अनुबन्धलोपे → आद् + अ + त् → आदत्</big>
Line 852 ⟶ 854:
<big>'''असिद्धवदत्राभात्''' (६.४.२२) = कमपि आश्रयम् अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम् आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम् | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति
Line 887 ⟶ 889:
<big><u>रेफान्तः ईर →
<big>a) अङ्गकार्यम्— उपधायां दीर्घ-ईकारः (लघु इक् इति न) अतः अङ्गकार्यं नास्ति |</big>
<big>b) सन्धिकार्यम्— अत्यन्तं न्यूनं यतः रेफात् परे त्, थ्, ध् एते हलः सन्ति चेत् केवलं संयोजनम् | आं रेफः इण्-प्रत्याहारे अस्ति अतः रेफात् परे सकारः चेत् '''आदेशप्रत्यययोः''' इत्यनेन सकारस्य षत्वम् |
<big>
Line 939 ⟶ 941:
<big>उ → व् व् → उ</big>
<big>ऋ → र्
<big>ऌ → ल् ल् → ऌ</big>
<big>इक् प्रत्याहारे इ उ ऋ ऌ इति वर्णाः अन्तर्भूताः | यण् प्रत्याहारे य् व्
Line 1,028 ⟶ 1,030:
<big>c) सन्धिकार्यम्—</big>
* <big>झलि परे शकारस्य षत्वं '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' इति सूत्रेण |</big>
Line 1,076 ⟶ 1,079:
<big>b)
* <big>षकारान्तधातोः षकारात् तादि थादि प्रत्ययानां ष्टुत्वं '''ष्टुना ष्टुः''' इति सूत्रेण |</big>
Line 1,115 ⟶ 1,118:
<big>द्विष् + आनि → द्वेष् + आनि →'द्वेषाणि' इति रूपे '''अट्कुप्वाङ्नुम्व्यवायेऽपि''' (८.४.२) इत्यनेन णत्वं भवति | अत्र प्रश्नः उदेति यत् द्विष् + अन्ति इति स्थितौ अपि णत्वस्य निमित्तंम् अस्ति | तर्हि अत्र का गतिः ? णत्वं भवति, न भवति, अथवा वैकल्पिकम् ?</big>
<big>कृ-धातोः अपि एवं प्रश्नः | कृ + उ + अन्ति → कुरु + अन्ति → रेफ-निमित्तत्वात् णत्वं भवेत् वा इति प्रश्नः | द्विष्-धातोः यथा षकारनिमित्तत्वं, तथा कृ-धातोः अपि रेफनिमित्तत्वात् णत्वं स्यात् |</big>
<big>तर्हि द्विष् + अन्ति इति स्थितिं परिशीलयाम | अत्र षकारः निमित्तभूतः; अग्रे स्थितस्य नकारस्य णत्वं प्राप्येत '''अट्कुप्वाङ्नुम्व्यवायेऽपि''' (८.४.२) इति सूत्रेण | परन्तु अत्र युगपत् सूत्रद्वयम् आयाति कार्यं कर्तुम्— '''नश्चापदान्तस्य झलि''' (८.३.२४), '''अट्कुप्वाङ्नुम्व्यवायेऽपि''' (८.४.२) च | '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन नस्य मस्य च अपदान्तस्य झलि अनुस्वारः भवति | द्विषन्ति इत्यस्मिन् नकारः पदान्ते नास्ति, अतः '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन नकारस्य अनुस्वारः प्राप्यते; अपि च '''अट्कुप्वाङ्नुम्व्यवायेऽपि''' (८.४.२) इत्यनेन तेन एव नकारेण णकारः अपि प्राप्यते | '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन अनुस्वारे प्राप्ते, '''अट्कुप्वाङ्नुम्व्यवायेऽपि''' (८.४.२) इत्यनेन णकारे प्राप्ते, अत्र कः विधेयः ? अस्यां स्थितौ '''पूर्वत्रासिद्धम्''' (८.२.१) इत्यनेन णत्वे प्राप्ते असिद्धत्वात् अनुस्वारस्य प्रवृत्तिः भवति | त्रिपाद्यां पूर्वशास्त्रं प्रति परशास्त्रम् असिद्धम् | '''नश्चापदान्तस्य झलि''' (८.३.२४) इति पूर्वशास्त्रम्; '''अट्कुप्वाङ्नुम्व्यवायेऽपि''' (८.४.२) इति परशास्त्रम् | अनेन णत्वशास्त्रस्य असिद्धत्वात् अनुस्वार्स्य एव अवकाशः | तदा '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनेन परसवर्णादेशः, अनेन पुनः नकारः आयाति | '''[पूर्वत्रासिद्धम्''' (८.२.१) इति प्रसङ्गे इतोऽपि सूचनार्थम् [[04---aShTAdhyAyI-paricayaH/07---aShTAdhyAyyAM-sUtrANAM-balAbalam|अयं पाठः]] दृश्यताम् |]</big>
Line 1,300 ⟶ 1,306:
<big>b) सन्धिकार्यम्—</big>
<big>निन्स् + ते → '''नश्चापदान्तस्य झलि''' → निंस् + ते → वर्णमेलने → निंस्ते</big>
Line 1,375 ⟶ 1,383:
<big>असस् + स् → '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' इत्यनेन स्-लोपः → असस् → '''सिपि धातो रुर्वा''' (८.२.७४) इत्यनेन विकल्पेन रु-आदेशः → असद् / असरु → असरु चेत् उ इत्यस्य इत्-संज्ञा लोपश्च, '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन अवसाने
Line 1,393 ⟶ 1,401:
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः |
Line 1,456 ⟶ 1,464:
<big>'''असिद्धवदत्राभात्''' (६.४.२२) = कमपि आश्रयम् अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम् आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम् | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति
Line 1,556 ⟶ 1,562:
* <big>तदा आदौ स्थितस्य दकारस्य धकारादेशो भवति '''एकाचो बशो भष् झषन्तस्य स्ध्वोः''' इत्यनेन |</big>
* <big>
* <big>कवर्गीयवर्णः पूर्वम् अस्ति अतः '''आदेशप्रत्यययोः''' इत्यनेन स्-स्थाने षत्वम् |</big>
Line 1,593 ⟶ 1,599:
<big>'''दादेर्धातोर्घः''' (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः
Line 1,695 ⟶ 1,701:
<big>ढ्,
Line 1,702 ⟶ 1,708:
<big>अत्र प्रश्नः उदेति— '''ढो ढे लोपः''' (८.३.१३) इति पूर्वत्रिपादिसूत्रं, '''ष्टुना ष्टुः''' (८.४.४१) इति परत्रिपादिसूत्रम् | तर्हि किमर्थं '''पूर्वत्रासिद्धम्''' (८.२.१) इत्यनेन '''ष्टुना ष्टुः''' (८.४.४१) इत्यस्य कार्यम् असिद्धं न भवेत् ?</big>
<big>उत्तरमिदं यत् 'आश्रयात् सिद्धम्' | वस्तुतः यत्र कुत्रापि '''ढो ढे लोपः''' (८.३.१३) इति सूत्रं प्रवर्तते, तस्मात् पूर्वं '''ष्टुना ष्टुः''' (८.४.४१) प्रवर्तते एव | सम्पूर्ण-संस्कृतभाषायां कुत्रापि नास्ति यत्र '''ढो ढे लोपः''' (८.३.१३) भवति किन्तु तस्मात् पूर्वं '''ष्टुना ष्टुः''' (८.४.४१) न स्यात् | अस्यां दशायां '''पूर्वत्रासिद्धम्''' (८.२.१) इत्यनेन '''ढो ढे लोपः''' (८.३.१३) इत्यस्य मनसि '''ष्टुना ष्टुः''' (८.४.४१) इत्यस्य कार्यम् असिद्धं चेत् '''ढो ढे लोपः''' (८.३.१३) इत्यस्य प्रवर्तनं न कुत्रापि भवेत्; निरवकाशं स्यात् | तदर्थं '''ढो ढे लोपः''' (८.३.१३) इति सूत्रं '''ष्टुना ष्टुः''' (८.४.४१) इति सूत्रस्य आश्रये अस्ति इति कृत्वा 'आश्रयात् सिद्धम्' इत्युच्यते | अनेन कारणेन '''ढो ढे लोपः''' (८.३.१३) न बाधितं '''पूर्वत्रासिद्धम्''' (८.२.१) इति सूत्रेण |</big>
<big>२. <u>हकारान्तधातुतः '''स'''कारादि-प्रत्ययानां योजनविधिः</u></big>
Line 1,741 ⟶ 1,752:
<big>लिह् + ध्वे → '''हो ढः''' → लिढ् + ध्वे → '''ष्टुना ष्टुः''' → लिढ् + ढ्वे → '''ढो ढे लोपः''' → लि + ढ्वे → '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' → ली + ढ्वे → लीढ्वे</big>
<big>'''हो ढः''' (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''झलो झलि''' (८.२.२६) इत्यस्मात् '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात् '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''हः ढः झलि पदस्य अन्ते च''' |</big>
<big>'''झषस्तथोर्धोऽधः''' (८.२.४०) = झष्-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ् च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम् अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्तत्पुरुषः, तस्मात् अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्, अधः पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''झषः तथोः धः अधः''' |</big>
<big>'''ढो ढे लोपः''' (८.३.१३) = ढकारे परे पूर्वतनस्य ढकारस्य लोपो भवति | ढः षष्ठ्यन्तं, ढे सप्तम्यन्तं, लोपः प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''ढः ढे लोपः''' |</big>
<big>'''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) = ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः | ढकाररेफयोः लोपस्य निमित्तकढकाररेफे परे, अण्-प्रत्याहारे स्थितस्य दीर्घादेशो भवति | ढ्रलोपे इति द्वन्द्वगर्भ-उपपदतत्पुरुषसमासः— ढ् च र् च ढ्रौ, इतरेतरद्वन्द्वः, ढ्रौ लोपयतीति ढ्रलोपः, तस्मिन् ढ्रलोपे | ढ्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः | ढ्रलोपे सप्तम्यन्तं, पूर्वस्य षष्ठ्यन्तं, दीर्घः प्रथमान्तम्, अणः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूरणम्— '''ढ्रलोपे पूर्वस्य अणः''' '''दीर्घः''' |</big>
<big>लङि—</big>
<big>अलिह् + त् → '''पुगन्तलघूपधस्य च''' → अलेह् + त् → हल्-परतः अपृक्तसंज्ञक-प्रत्ययस्य लोपः → अलेह् → '''हो ढः''' → अलेढ् → '''झलां जशोऽन्ते''' → अलेड् → '''वाऽवसाने''' इत्यनेन विकल्पेन चर्त्वादेशः → अलेट्</big>
<big>'''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' (६.१.६८) = हल्-परतः अपृक्तसंज्ञक-प्रत्ययस्य लोपः | लङि त्-लोपः, स्-लोपश्च |</big>
<big>परस्मैपदे आत्मनेपदे च—</big>
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
<big><u>रूपाणि</u></big>
<big>लटि —</big>
<big>लोटि—</big>
<big>लङि—</big>
<big>विधिलिङि—</big>
<big><u>अदादिगणस्य रुदाद्यन्तर्गणः</u> (पञ्च धातवः)</big>
<big>रुदिर् (अश्रुविमोचने)→ रुद् → रोदिति</big>
<big>अन (प्राणने) → अन् → अनिति</big>
<big>ञिष्वप् (शये) → स्वप् → स्वपिति</big>
<big>श्वस (प्राणने) → श्वस् → श्वसिति</big>
<big>जक्ष (भक्षहसनयोः) → जक्ष् → जक्षिति</big>
<big>'''रुदादिभ्यः सार्वधातुके''' (७.२.७६) = रुदादिगणे पठितेभ्यः धातुभ्यः वलादेः सार्वधातुकस्य इडागमो भवति | वल्-प्रत्याहारः आदौ यस्य सः वलादिः | वल्-प्रत्याहारस्य अन्तर्गतेषु वर्णेषु तिङ्-प्रत्ययानाम् आदौ त्, थ्, ध्, म्, व्, स्, ह् एते एव भवन्ति | रुदादिभ्यः पञ्चम्यन्तं, सार्वधातुके सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''आर्धधातुकस्येड् वलादेः''' (७.२.३५) इत्यस्मात् '''इट्''', '''वलादेः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''रुदादिभ्यः अङ्गेभ्यः इट् वलादौ सार्वधातुके''' |</big>
<big>अत्र प्रश्नः उदेति यत् अयं '''इट्''' कस्य आगमः ? '''रुदादिभ्यः सार्वधातुके''' (७.२.७६) इत्यनेन रुदादिभ्यः अङ्गेभ्यः इट् वलादौ सार्वधातुके | अस्मिन् सूत्रे '''तस्मादित्युत्तरस्य''' (१.१.६७) इत्यस्य बलेन अयम् इडागमः अग्रे स्थितस्य वलादिसार्वधातुकप्रत्ययस्य आगमः स्यात्; '''तस्मिन्निति निर्दिष्टे पूर्वस्य''' (१.१.६६) इत्यस्य बलेन इडागमः पूर्वं स्थितस्य रुदादिगणीयधातोः आगमः | सूचनाद्वयमपि परस्परविरुद्धम् | षष्ठीविभक्त्यन्तपदं नास्ति यस्य आधारेण कस्य आगमः इति स्पष्टं स्यात् | अस्यां दशायाम् '''उभयनिर्देशे पञ्चमीनिर्देशः बलीयान्''' इति परिभाषया, द्वयोः निर्देशयोर्मध्ये '''पञ्चमीनिर्देशः बलीयान्''' | इत्युक्तौ वलादिसार्वधातुकप्रत्ययस्य एव आगमः न तु रुदादिगणीयधातोः | फलितार्थः एवं यत् सप्तम्यन्तं पदं स्थानिनं निदर्शयति | अनेन '''रुदादिभ्यः सार्वधातुके''' (७.२.७६) इत्यस्य अनुवृत्ति-सहितसूत्रे ''''वलादौ सार्वधातुके'''<nowiki/>' सप्तम्यन्तम्, अतः तस्य एव इडागमः भवेत् |</big>
<big>यथा—</big>
<big>रुद् + ति → रोद् + ति → रोद् + इ + ति → रोदिति</big>
<big>अन् + ति → अन् + इ + ति → अनिति</big>
<big>स्वप् + ति → स्वप् + इ + ति → स्वपिति</big>
<big>श्वस् + ति → श्वस् + इ + त → श्वसिति</big>
<big>जक्ष् + ति → जक्ष् + इ + ति → जक्षिति</big>
<big>लङि—</big>
<big>विकल्पेन अरोदीत्, अरोदत् |</big>
<big>१. '''रुदश्च पञ्चभ्यः''' (७.३.९८) = पञ्चभ्यः रुदादिभ्यः धातुभ्यः हलादेः पितः अपृक्तस्य सार्वधातुकस्य ईडागमो भवति | '''रुदादिभ्यः सार्वधातुके''' (७.२.७६) इत्यस्य अपवादः | '''उभयनिर्देशे पञ्चमीनिर्देशः बलीयान्''' इति परिभाषया सप्तम्यन्तस्य आगमः | रुदः पञ्चम्यन्तं, पञ्चभ्यः पञ्चम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | '''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यस्मात् '''पिति''', '''सार्वधातुके''' इत्यनयोः अनुवृत्तिः | '''उतो वृद्धिर्लुकि हलि''' (७.३.८९) इत्यस्मात् '''हलि''' इत्यस्य अनुवृत्तिः | '''गुणोऽपृक्ते''' (७.३.९१) इत्यस्मात् '''अपृक्ते''' इत्यस्य अनुवृत्तिः | '''ब्रुव ईट्''' (७.३.९३) इत्यस्मात् '''ईट्''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''रुदश्च पञ्चभ्यः अङ्गेभ्यः ईट् हलि पिति अपृक्ते सार्वधातुके''' |</big>
<big>यथा—</big>
<big>अरुद् + त् → '''रुदश्च पञ्चभ्यः''' (७.३.९८) → अरुद् + ईट् + त् → अरुद् + ईत् → '''पुगन्तलघूपधस्य च''' (७.३.८६) → अरोद् + ईत् → अरोदीत्</big>
<big>अत्र ईडागमस्य विधानेन अधुना प्रत्ययः ईत्, नाम द्विवर्णकः, अतः अपृक्त-संज्ञा नास्ति; तदभावे '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' (६.१.६७) इत्यस्य प्रसक्तिर्नास्ति | अरुद् + स् → अरोदीः अपि तथा |</big>
<big>२. '''अड् गार्ग्यगालवयोः''' (७.३.९९) = पञ्चभ्यः रुदादिभ्यः धातुभ्यः हलादेः पितः सार्वधातुकस्य अपृक्तस्य अडागमो भवति, गार्ग्यगालवयोः मतेन | गार्ग्यश्च गालवश्च गार्ग्यगालवौ, तयोः गार्ग्यगालवयोः | '''उभयनिर्देशे पञ्चमीनिर्देशः बलीयान्''' इति परिभाषया सप्तम्यन्तस्य आगमः | अट् प्रथमान्तं, गार्ग्यगालवयोः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यस्मात् '''पिति''', '''सार्वधातुके''' इत्यनयोः अनुवृत्तिः | '''उतो वृद्धिर्लुकि हलि''' (७.३.८९) इत्यस्मात् '''हलि''' इत्यस्य अनुवृत्तिः | '''गुणोऽपृक्ते''' (७.३.९१) इत्यस्मात् '''अपृक्ते''' इत्यस्य अनुवृत्तिः | '''रुदश्च पञ्चभ्यः''' (७.३.९८) इत्यस्मात् '''रुदश्च''', '''पञ्चभ्यः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''गार्ग्यगालवयोः रुदश्च''' '''पञ्चभ्यः अङ्गेभ्यः अट् हलि पिति अपृक्ते सार्वधातुके''' |</big>
<big>यथा—</big>
<big>अरुद् + त् → '''पुगन्तलघूपधस्य च''' (७.३.८६) → अरोद् + त् → '''अड् गार्ग्यगालवयोः''' (७.३.९९) → अरोद् + अ + त् → अरोदत् | अरोद् + स् → अरोद् + अ + स् → अरोदः अपि तथा |</big>
<big><u>त्-प्रत्यये परे स्-प्रत्यये परे</u></big>
<big>रुद् → अरोद् → अरोदीत्, अरोदत् अरोदीः, अरोदः</big>
<big>स्वप् → अस्वप् → अस्वपीत्, अस्वपत् अस्वपीः, अस्वपः</big>
<big>श्वस् → अश्वस् → अश्वसीत्, अश्वसत् अश्वसीः, अश्वसः</big>
<big>अन् → आन् → आनीत्, आनत् आनीः, आनः</big>
<big>जक्ष् → अजक्ष् → अजक्षीत्, अजक्षत् अजक्षीः, अजक्षः</big>
<u><big>दकारान्तः रुद → रुद् धातुः (परस्मैपदी, अश्रुविमोचने)</big></u>
<big>a) अङ्गकार्यम्—</big>
<big>१) हलादि पित्सु = उपधायां लघु-इकः गुणः | रुद् + ति → '''पुगन्तलघूपधस्य च''' → रोद् + ति → इडागमः → रोदिति</big>
<big>२) अजादि पित्सु = उपधायां लघु-इकः गुणः | रुद् + आनि → '''पुगन्तलघूपधस्य च''' → रोद् + आनि → रोदानि</big>
<big>३) हलाद्यपित्सु = '''क्ङिति च''', गुणनिषेधः | रुद् + तः → इडागमः → रुदितः</big>
<big>४) अजाद्यपित्सु = '''क्ङिति च''', गुणनिषेधः | रुद् + अन्ति → वर्णमेलनमेव → रुदन्ति</big>
<big>b) सन्धिकार्यम्—</big>
<big>वलादि-प्रत्ययेषु इडागमो भवति अतः हल्-सन्धेः अवसरो न कुत्रापि भवति |</big>
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
<big><u>रूपाणि</u></big>
<big>लटि —</big>
<big>लोटि—</big>
<big>लङि—</big>
<big>विधिलिङि—</big>
<u><big>पकारान्तः ञिष्वप् → स्वप् (परस्मैपदी, शये)</big></u>
<big>a) अङ्गकार्यम्— उपधायां ह्रस्व-अकारः (लघु इक् इति न) अतः गुणकार्यं नास्ति | वलादि-प्रत्यये परे इडागमो भवति, अपि च लङ्-लकारे अपृक्तसंज्ञक-प्रत्ययेषु ईडागमश्च अडागमश्च भवतः |</big>
<big>b) सन्धिकार्यम्— वलादि-प्रत्ययेषु इडागमो भवति अतः हल्-सन्धेः अवसरो न कुत्रापि भवति |</big>
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
<big><u>रूपाणि</u></big>
<big>लटि —</big>
<big>लोटि—</big>
<big>लङि—</big>
<big>विधिलिङि—</big>
<u><big>सकारान्तः श्वस → श्वस् (परस्मैपदी, प्राणने)</big></u>
<big>a) अङ्गकार्यम्— उपधायां ह्रस्व-अकारः (लघु इक् इति न) अतः गुणकार्यं नास्ति | वलादि-प्रत्यये परे इडागमो भवति, अपि च लङ्-लकारे अपृक्तसंज्ञक-प्रत्ययेषु ईडागमश्च अडागमश्च भवतः |</big>
<big>b) सन्धिकार्यम्— वलादि-प्रत्ययेषु इडागमो भवति अतः हल्-सन्धेः अवसरो न कुत्रापि भवति</big>
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
<big><u>रूपाणि</u></big>
<big>लटि —</big>
<big>लोटि—</big>
<big>लङि—</big>
<big>विधिलिङि—</big>
<big><u>अदादिगणस्य जक्षाद्यन्तर्गणः</u> (सप्त धातवः)</big>
<big>'''जक्षित्यादयः षट्''' (६.१.६) = जक्षित्यादीनां धातूनाम् अभ्यस्त-संज्ञा भवति | अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन् सप्त धातवः सन्ति— जक्ष्, जागृ, दरिद्रा, चकास्, शास्, दीधीङ्, वेवीङ् च | इति-शब्देन जक्ष्-धातोः परामर्शः | इति आदिः येषां ते इत्यादयः बहुव्रीहिः | जक्ष् प्रथमान्तम्, इत्यादयः प्रथमान्तं, षट् प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''उभे अभ्यस्तम्''' (६.१.५) इत्यस्मात् '''अभ्यस्तम्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''जक्षित्यादयः षट् अभ्यस्तम् |'''</big>
<big>'''उभे अभ्यस्तम्''' (६.१.५) इति सूत्रेण यदा धातोः द्वित्वं भवति, तदा मिलित्वा द्वयोः भागयोः नाम 'अभ्यस्तं' भवति | '''जक्षित्यादयः षट्''' (६.१.६) इत्यनेन जक्षित्यादीनां धातूनाम् अद्वित्वे सत्यपि अभ्यस्त-संज्ञा भवति |</big>
<big>एषां सप्तानां धातूनां तिङन्तसिद्ध्यर्थं विशिष्टे द्वे कार्ये—</big>
<big>१) '''अदभ्यस्तात्''' (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्-आदेशो भवति | अत् प्रथमान्तम्, अभ्यस्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''झोऽन्तः''' (७.१.३) इत्यस्मात् '''झः''' (षष्ठ्यन्तम्) इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्''' (७.१.२) इत्यस्मात्, वचनपरिणामं कृत्वा '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत्''' |</big>
<big>धेयं यत् अत्-आदेशस्य तकारः '''हलन्त्यम्''' (१.३.३) इति सूत्रेण इत्-संज्ञकः न, यतोहि अत् तु विभक्तिसंज्ञक-झि-प्रत्ययस्य अवयवस्य आदेशः अतः '''न विभक्तौ तुस्माः''' (१.३.४) इत्यनेन '''हलन्त्यम्''' (१.३.३) बाधितम् |</big>
<big>'''अदभ्यस्तात्''' (७.१.४) इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झ्-स्थाने अत् आदेशः, अतः लटि झि → अति न तु अन्ति; लोटि झि → अतु न तु अन्तु |</big>
<big>२) '''सिजभ्यस्तविदिभ्यश्च''' (३.४.१०९) = ङित्-लकारस्य अवस्थायां, सिच्-प्रत्ययात्, अभ्यस्तसंज्ञकात् धातोः, विद्-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्-आदेशो भवति | सिच् च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात् '''ङितः''' इत्यस्य अनुवृत्तिः | '''झेर्जुस्''' (३.४.१०८) इत्यस्मात् '''झेः''' '''जुस्''' इत्यनयोः अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः''' '''जुस्''' |</big>
<big>अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्-आदेशः | जुस् इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि आहत्य अभ्यस्तसंज्ञकः धातुः अस्ति चेत्, लङि अन्-स्थाने उः इति प्रत्ययः भवति |</big>
<big>एषु सप्तसु जक्षाद्यन्तर्गणीयेषु धातुषु चत्वारः अजन्तः— जागृ, दरिद्रा, दीधीङ्, वेवीङ् चेत्येषां रूपाणि अस्माभिः साधितानि अदादिगणस्य अजन्तानां पाठे | त्रयः च हलन्ताः— जक्ष्, चकास्, शास्; एषां रूपाणि अधुना साधनीयानि—</big>
<big><u>षकारान्तः जक्ष → जक्ष्</u> (परस्मैपदी, भक्षहसनयोः)</big>
<big>जक्ष्-धातुः रुदाद्यन्तर्गणेऽपि अस्ति, जक्षाद्यन्तर्गणेऽपि अस्ति | अतः धेयं यत् अत्र द्वयोः अन्तर्गणयोः कार्यं भवति |</big>
<big>a) अङ्गकार्यम्— उपधायां ककारः (लघु इक् इति न) अतः गुणकार्यं नास्ति | वलादि-प्रत्यये परे इडागमो भवति, अपि च लङ्-लकारे अपृक्तसंज्ञक-प्रत्ययेषु ईडागमश्च अडागमश्च भवतः |</big>
<big>b) सन्धिकार्यम्— वलादि-प्रत्ययेषु इडागमो भवति अतः हल्-सन्धेः अवसरो न कुत्रापि भवति |</big>
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
<big><u>रूपाणि</u></big>
<big>लटि —</big>
<big>लोटि—</big>
<big>लङि—</big>
<big>विधिलिङि—</big>
<big><u>सकारान्तः चकासु → चकास्</u> (परस्मैपदी, दीप्तौ)</big>
<big>चकास्-धातुः जक्षाद्यन्तर्गणे अस्ति, अतः तिङन्तसिद्ध्यर्थं विशिष्टे द्वे कार्ये मनसि निधाय रूपाणि प्रवर्तनीयानि |</big>
<big>a) अङ्गकार्यम्— उपधायाम् आकारः (लघु इक् इति न) अतः गुणकार्यं नास्ति |</big>
<big>लोटि—</big>
<big>'''हुझल्भ्यो हेर्धिः''' (६.४.१०१) इत्यनेन झलन्तेभ्यः धातुभ्यशः हि-प्रत्ययस्य स्थाने धि-आदेशः |</big>
<big>चकास् + हि → '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) → चकास् + धि</big>
<big>b) सन्धिकार्यम्—</big>
<big>लोटि—</big>
<big>'''धि च''' (८.२.२५) इत्यनेन सकारस्य लोपो भवति धकारादि-प्रत्यये परे |</big>
<big>चकास् + हि → '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) → चकास् + धि → '''धि च''' (८.२.२५) इत्यनेन स्-लोपः → चकाधि</big>
<big>'''धि च''' (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे | धि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''रात्सस्य''' (८.२.२४) इत्यस्मात् '''सस्य''' इत्यस्य अनुवृत्तिः | '''संयोगान्तस्य''' '''लोपः''' (८.२.२३) इत्यस्मात् '''लोपः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''धि च सस्य लोपः''' |</big>
<big>'''हुझल्भ्यो हेर्धिः''' (६.४.१०१) = हु-धातुतः झलन्तेभ्यः धातुभ्यश्च हि-प्रत्ययस्य स्थाने धि-आदेशो भवति | '''येनविधिस्तदन्तस्य''' (१.१.७२) इत्यनेन झलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम् अन्ते झल् | हुश्च झलश्च तेषामितरेतरद्वद्वो हुझलः, तेभ्यो हुझल्भ्यः | हुझल्भ्यः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, धिः प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.११) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''हुझल्भ्यः अङ्गेभ्यः हेः धिः''' |</big>
<big>लङि—</big>
<big>'''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' (६.१.६८) इत्यनेन हल्-उत्तरस्य अपृक्तसंज्ञक-प्रत्ययस्य लोपः | लङि त्-लोपः, स्-लोपश्च |</big>
<big>अचकास् + त् → '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' → चकास् → '''तिप्यनस्तेः''' इत्यनेन पदान्तस्य सकारस्य दकारादेशः → अचकाद्</big>
<big>अचकास् + त् → उपरि इव → अचकाद् → '''वाऽवसाने''' इत्यनेन विकल्पेन पदान्ते चर्त्वादेशः → अचकात्</big>
<big>'''तिप्यनस्तेः''' (८.२.७३) = पदान्तस्य सकारस्य दकारादेशो भवति तिपि परे; परन्तु अस्-धातौ न भवति | इदं सूत्रं '''ससजुषो रुः''' (८.२.६६) इत्यस्य अपवादः | न अस्तिः अनस्तिः, तस्य अनस्तेः | तिपि सप्तम्यन्तम्, अनस्तेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''ससजुषोः रुः''' (८.२.६६) इत्यस्मात् '''सः''' इत्यस्य अनुवृत्तिः | '''वसुस्रंसुध्वंस्वनडुहां दः''' (८.२.७२) इत्यस्मात् '''दः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''पदस्य सः दः तिपि अनस्तेः''' |</big>
<big>'''ससजुषो रुः''' (८.२.६६) = पदान्ते सकारस्य च सजुष्-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तम्, रुः प्रथमान्तम्, द्विपदमिदं सूत्रम् | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ससजुषोः पदस्य रुः''' |</big>
<big>अत्र वस्तुतः '''झलां जशोऽन्ते''' (८.२.३९) इति अत्र सर्वसामान्यं सूत्रं; तस्य अपवादः '''ससजुषो रुः''' (८.२.६६); पुनः '''ससजुषो रुः''' इत्यस्य अपवादः '''तिप्यनस्तेः''' (८.२.७३) |</big>
<big><u>सिपि रुत्वं दत्वं वा</u></big>
<big>'''सिपि धातो रुर्वा''' (८.२.७४) = पदान्तस्य सकारस्य रु-आदेशो भवति, दकारो वा, सिपि परे | अत्र 'वा' इति समुच्चयार्थे | '''येनविधिस्तदन्तस्य''' (१.१.७२ ) इत्यनेन तदन्तविधिः; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णादेशः | ''''धातोः'''<nowiki/>' उक्तं परसूत्राणाम् अर्थपूर्तिकृते; प्रकृतसूत्रे आवश्यकता नास्ति | सिपि सप्तम्यन्तं, धातोः षष्ठ्यन्तं, रुः प्रथमान्तं, वा अव्ययपदम्, अनेकपदमिदं सूत्रम् | '''ससजुषोः रुः''' (८.२.६६) इत्यस्मात् '''सः''' इत्यस्य अनुवृत्तिः | '''वसुस्रंसुध्वंस्वनडुहां दः''' (८.२.७२) इत्यस्मात् '''दः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''सः धातोः पदस्य रुः दः वा सिपि''' |</big>
<big>प्राचीनैः उच्यते यत् '''वसुस्रंसुध्वंस्वनडुहां दः''' (८.२.७२) इत्यस्मात् '''दः''' इत्यस्य अनुवृत्त्या दकारस्य पक्षः सिध्यति साक्षात् अनेन एव '''सिपि धातो रुर्वा''' (८.२.७४) इति सूत्रेण | नवीनैः उच्यते यत् अस्यावश्यकता नास्ति यतोहि रु-अपक्षे स्-स्थाने दकारादेशः '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन | परन्तु अद्यत्वे आधिक्येन वैयाकरणाः वदन्ति यत् '''ससजुषोः रुः''' (८.२.६६), '''झलां जशोऽन्ते''' (८.२.३९) इत्यनयोर्मध्ये '''ससजुषोः रुः''' (८.२.६६) इत्यस्य अपवादभूतत्वात् '''झलां जशोऽन्ते''' (८.२.३९) इत्यस्य पुनः नितराम् अवकाशो नास्ति | इत्थञ्च '''सिपि धातो रुर्वा''' (८.२.७४) इत्यनेनैव रुश्च दश्च क्रियते |</big>
<big>अनेन सूत्रेण लङ्-लकारस्य स्-प्रत्यये परे सकारान्तपदस्य सकारस्य स्थाने विकल्पेन दकारादेशः रुत्वं वा भवति | यथा—</big>
<big>अचकास् + स् → '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' इत्यनेन स्-लोपः → अचकास् → '''सिपि धातो रुर्वा''' (८.२.७४) इत्यनेन विकल्पेन रु-आदेशः → अचकाद् / अचकारु → अचकारु चेत् उ इत्यस्य इत्-संज्ञा लोपश्च, '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन अवसाने र्-स्थाने विसर्गादेशः → अचकाः // पुनः अचकाद् → '''वाऽवसाने''' इत्यनेन विकल्पेन चर्-आदेशः → अचकात् इति कृत्वा त्रीणि रूपाणि</big>
<big>अत्र दृष्टिः एवं— सकारान्तपदम् अस्ति चेत्, कीदृशं कार्यं स्यात् इति प्रश्नः | अस्मिन् प्रसङ्गे सर्वसामान्यं सूत्रं '''झलां जशोऽन्ते''' (८.२.३९) | सकारः झलि अस्ति; अनेन सूत्रेण पदान्ते सकारस्य जश्त्वं, नाम वर्गीयव्यञ्जनस्य तृतीयसदस्यः | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन दन्त्य-सकारस्य स्थाने दन्त्य-तवर्गस्य तृतीयसदस्यः दकारः भवति | अतः सर्वसामान्य-सिद्धान्तः पदान्ते सकारस्य स्थाने दकारादेशः | परन्तु '''ससजुषो रुः''' (८.२.६६) तस्य अपवादः | अनेन पदान्ते स्थितस्य सकारस्य स्थाने रु-आदेशो भवति | पुनः तिप्-प्रत्यये परे '''तिप्यनस्तेः''' (८.२.७३) तस्य अपवादः | अनेन तिपि परे पदान्तस्य सकारस्य दकारादेशो भवति | एवमेव सिप्-प्रत्यये परे '''सिपि धातो रुर्वा''' (८.२.७४) '''ससजुषो रुः''' (८.२.६६) इत्यस्य अपवादः | अनेन सिपि परे पदान्तस्य सकारस्य रु-आदेशो दकारादेशश्च भवति | यथोक्तं '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन स्-स्थाने दकारः नोपलभ्यते यतोहि तत्तु बाधितं '''ससजुषो रुः''' (८.२.६६) इति सूत्रेण |</big>
<big>प्रश्नः उदेति यत् सिप् यदा आगतः तदा कथं वा धातुसंज्ञा स्यात् ? '''सिपि धातो रुर्वा''' (८.२.७४) इति सूत्रेण 'धातोः' अपि उक्तं, 'सिपि' अपि उक्तम् | अत्र वार्ता एवं— कस्य भागस्य का संज्ञा ? 'वस + ति' इति स्थितौ 'वस' इति अङ्गस्य धातुसंज्ञा नास्ति; तत्र किन्तु 'वस्' इति अन्तर्निहितभागस्य धातुसंज्ञा तु तदानीमपि अस्त्येव | एवमेव सिपः विधानानन्तरमपि धातोः धातुसंज्ञा तिष्ठति | यथा 'अचकास् + स्' इत्यत्र 'अचकास् + स्' इत्यस्य पदसंज्ञा, 'अचकास्' इत्यस्य धातुसंज्ञा | तदा स्-प्रत्ययलोपानन्तरम्, 'अचकास्' इत्यस्य धातुसंज्ञा अपि भवति, पदसंज्ञा अपि भवति |</big>
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर् च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''रो रि''' (८.३.१४) इत्यस्मात् '''रः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''रः पदस्य विसर्जनीयः खरवसानयोः संहितायाम्''' |</big>
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
<big><u>रूपाणि</u></big>
<big>लटि —</big>
<big>लोटि—</big>
<big>लङि—</big>
<big>विधिलिङि—</big>
<big><u>सकारान्तः शासु → शास्</u> (परस्मैपदी, अनुशिष्टौ)</big>
<big>शास्-धातुः जक्षाद्यन्तर्गणे अस्ति, अतः तिङन्तसिद्ध्यर्थं विशिष्टे द्वे कार्ये मनसि निधाय रूपाणि प्रवर्तनीयानि |</big>
<big>a) अङ्गकार्यम्— उपधायाम् आकारः (लघु इक् इति न) अतः गुणकार्यं नास्ति | किन्तु अन्यत् अङ्गकार्यद्वयं वर्तते—</big>
<big>१. शास्-धातोः स्थाने शा-आदेशो भवति हि-प्रत्यये परे |</big>
<big>'''शा हौ''' (६.४.३५) = शास्-धातोः स्थाने शा-आदेशो भवति हि-प्रत्यये परे | शा लुप्तप्रथमाकं, हौ सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''शास इदङ्हलोः''' (६.४.३४) इत्यस्मात् '''शासः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''शासः''' '''शा हौ''' |</big>
<big>यथा—</big>
<big>शास् + हि → '''शा हौ''' (६.४.३५) → शा + हि → '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) इत्यनेन झलन्तेभ्यः धातुभ्यशः हि-स्थाने धि-आदेशः → शा + धि → शाधि</big>
<big>यदा शा-आदेशो भवति, तदानीं शा झलन्तः नास्ति अतः हि-स्थाने धि न स्यात् | किन्तु '''शा हौ''' (६.४.३५), '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) इत्याभ्यां यत् कार्यं सिध्यति, उभयत्र तत् कार्यं आभीयकार्यम् | द्वाभ्यां च सूत्राभ्यां यत् कार्यं विधीयते, तस्य कार्यस्य आश्रयः 'हि'-प्रत्ययः | अतः एकवारं यदा एकम् हि-प्रत्ययाश्रितम् आभीयकार्यं जातं, तदा यदा द्वितीयं हि-प्रत्ययाश्रितम् आभीयकार्यं विधीयते,तत् कार्यं प्रति प्रथमम् आभीयकार्यं असिद्धं भवति | अस्याः सम्पूर्णप्रक्रियायाः बोधार्थम् अग्रे [[6---sArvadhAtukaprakaraNam-anadantam-aGgam/15---sthAnivadbhAvah|स्थानिवद्भावपाठे द्रष्टव्यम्]] |</big>
<big>'''असिद्धवदत्राभात्''' (६.४.२२) = कमपि आश्रयम् अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम् आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम् | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्यायस्य अन्तपर्यन्तम् | '''असिद्धवदत्राभात्''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात् आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्, एषां कार्याणां नाम आभीय-कार्यम् | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत् अत्र आ भात्''' |</big>
<big>२. शास्-धातोः उपधायाः ह्रस्व-इकारादेशो भवति हलादि किति ङिति प्रत्यये परे |</big>
<big>'''शास इदङ्हलोः''' (६.४.३४) = शास्-धातोः उपधायाः ह्रस्व-इकारादेशो भवति अङ्-प्रत्यये, हलादि किति ङिति च प्रत्यये परे | अङ्-प्रत्ययः लुङ्-लकारे भवति | '''यस्मिन् विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम् २९) इत्यनेन हलि इत्युक्तौ हलादि-प्रत्यये (तादृशप्रत्ययः यस्य आदौ हल् स्यात्) | क्ङिति विशेषणं, हलि इत्यस्य | अङ् च हल् च अङ्हलौ इतरेतरद्वन्द्वः, तयोः अङ्हलोः | शासः षष्ठ्यन्तम्, इत् प्रथमान्तम्, अङ्हलोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) इत्यस्मात् उपधायाः, क्ङिति इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकाराः | अनुवृत्ति-सहितसूत्रम्— '''शासः अङ्गस्य उपधायाः इत् क्ङिति अङ्हलोः''' |</big>
<big>यथा—</big>
<big>शास् + तः → '''शास इदङ्हलोः''' (६.४.३४) → शिस् + तः</big>
<big>b) सन्धिकार्यम्—</big>
<big>'''शासिवसिघसीनां च''' (८.३.६०) = शस्, वस्, घस् इत्येषां धातूनां इण्-प्रत्याहारोत्तरस्य कवर्गीयोत्तरस्य च सकारस्य स्थाने षकारादेशो भवति | सकारः आदेशस्य प्रत्ययस्य च अवयवः नास्ति इति कारणेन '''आदेशप्रत्यययोः''' (८.३.५९) इत्यस्य प्रसक्तिर्नास्ति; तस्मात् अस्य सूत्रस्य आवश्यकता | शासिश्च वसिश्च घसिश्च तेषामितरेतरद्वन्द्वः शासिवसिघसयः, तेषां शासिवसिघसीनाम् | शासिवसिघसीनां षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''अपदान्तस्य मूर्धन्यः''' (८.३.५५) इत्यस्मात् '''मूर्धन्यः''' इत्यस्य अनुवृत्तिः | '''इण्कोः''' (८.३.५७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''शासिवसिघसीनाम् च मूर्धन्यः इण्कोः |'''</big>
<big>यथा—</big>
<big>शिस् + तः → '''शासिवसिघसीनाम् च''' (८.३.६०) → शिष् + तः → '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्टुत्वम् → शिष्टः</big>
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
<big><u>रूपाणि</u></big>
<big>लटि —</big>
<big>लोटि—</big>
<big>लङि—</big>
<big>विधिलिङि—</big>
<big>अनेन अदादिगणस्य हलन्तधातवः समाप्ताः |</big>
[https://static.miraheze.org/samskritavyakaranamwiki/7/73/%E0%A5%A7%E0%A5%AA_-_%E0%A4%85%E0%A4%A6%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A4%B5%E0%A4%83_%28c%29.pdf १४ - अदादिगणे हलन्तधातवः (c).pdf] Swarup Bhai, Aug 8, 2019, 4:45 AM v.1
<big>Swarup – December 2013 (updated Sept 2016)</big>
|