6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(6 intermediate revisions by 3 users not shown)
Line 43:
४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/79_adAdigaNe-halantadhAtavaH-4____2016-07-31.mp3 adAdigaNe-halantadhAtavaH-4_विद्‌_+_हन्‌_2016-07-31]
 
५) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/80_adAdigaNe-halantadhAtavaH-5________2016-08-07.mp3 adAdigaNe-halantadhAtavaH-5_ईर्‍_5_ईर्_+_वश्‌_+_ईश्‌_+_द्विष्‌_2016-08-07]
 
६) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/81_adAdigaNe-halantadhAtavaH-6_-_________2016-08-014.mp3 adAdigaNe-halantadhAtavaH-6_द्विषन्ति-पूर्वत्रासिद्धम्‌_+_चक्ष्‌_+_वस्‌_+_कसि_+_णिसि_2016-08-14] 
Line 66:
 
<big>स्मर्यते यत्‌ हलन्तधातुरूपाणि भिन्नरीत्या सिध्यन्ति अदादिगणे, जुहोत्यादिगणे, रुधादिगणे च यतः तत्र धातोः तिङ्‌-प्रत्ययस्य च साक्षात्‌ सम्पर्कः | अदादिगणे, जुहोत्यादिगणे, रुधादिगणे च हलन्तधातुभ्यः यदा हलादि-प्रत्ययः विहितः, तदा हल्‌-सन्धिः सम्भवति इति ज्ञायते | स्मरन्तु यत्‌ प्रत्ययः अजादि-वर्णैः आरभ्यते, तदा धातुः हलन्तः चेदपि हल्‌-सन्धिः न भवति (केवलं वर्ण-सम्मेलनं भवति) | प्रत्ययः य्‌, र्‌र्, व्‌, म्‌, न् इत्येभिः हल्‌-वर्णैः आरभ्यते चेत्‌ आधिक्येन हल्‌-सन्धिः न भवति | प्रत्ययः त्‌, थ्‌, ध्‌, स् इत्येभिः वर्णैः आरभ्यते, तस्यामेव दशायां हल्‌-सन्धिः भवति | हल्‌-सन्धयः कीदृशाः, अपि च कार्यं कीदृशम्‌ इति पूर्वतनेषु हल्‌सन्धिपाठेषु विस्तरेण अवलोकितम्‌ | अतः अधुना एतत्‌ हल्‌-सन्धि-विज्ञानं मनसि निधाय अग्रे सरेम, सर्वान्‌ अदादौ स्थितान्‌‌ हलन्तधातून्‌ परिशीलयाम |</big>
 
 
Line 310:
<big>'''- नश्चापदान्तस्य झलि''' (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | '''मो‍ऽनुस्वारः''' (८.३.२३) इत्यस्मात्‌ '''मः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अपदान्तस्य मः नः च अनुस्वारः''' '''झलि संहितायाम्''' |</big>
 
<big>'''- आदेशप्रत्यययोः''' (८.३.५९) = इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तस्य सकारस्य स्थाने षकारादेशो भवति | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं '''स्थानेऽन्तरतमः''' इत्यनेन ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्‌, अतः षकारः एव आदिष्टः भवति | नुम्‌, विसर्गः, शर्‍शर्-प्रत्याहारस्थ-वर्णः एषु अन्यतमः मध्ये अस्ति चेदपि कार्यं भवति | इण्‌-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | अस्य कार्यस्य नाम षत्वविधिः | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम्‌ एकपदमिदं सूत्रम्‌ | '''सहे साडः सः''' (८.३.५६) इत्यस्मात्‌ '''सः''' इत्यस्य अनुवृत्तिः | '''नुंविसर्जनीयशर्व्यवायेऽपि''' (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्‌''' इत्यस्य अधिकारः | '''इण्कोः''' (८.३.५७), '''अपदान्तस्य''' '''मूर्धन्यः''' (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—'''इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां,''' '''नुंविसर्जनीयशर्व्यवायेऽपि''' |</big>
 
<big>'''- रषाभ्यां नो णः समानपदे''' (८.४.१) = रेफषकाराभ्यामुत्तरस्य नकारस्य णकारादेशो भवति, समानपदस्थौ चेदेव निमित्तनिमित्तिनौ भवतः |</big>
Line 320:
<big>'''- झलां जश्‌ झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''झलां जश्‌ झशि संहितायाम्''' |</big>
 
<big>'''- खरि च''' (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' इत्यस्मात्‌ '''झलां''' इत्यस्य अनुवृत्तिः; '''अभ्यासे चर्च''' इत्यस्मात्‌ '''चर्च''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रमेवम्‌— '''झलां चर्‍‌चर् खरि च''' '''संहितायाम् ‌'''|</big>
 
<big>'''- अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनुस्वारस्य ययि परसवर्णः संहितायाम्''' |</big>
 
<big>'''- वाऽवसाने''' (८.४.५६) = अवसाने झलः विकल्पेन चर्‍चर्-आदेशो भवति | अनेन अवसानावस्थायां विकल्पेन जश्त्वं चर्त्वं वा | वा अव्ययपदम्‌, अवसाने सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां''' इत्यस्य अनुवृत्तिः | '''अभ्यासे चर्च''' (८.४.५४) इत्यस्मात्‌ '''चर्‍चर्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अवसाने झलां चरो वा''' |</big>
 
<big>'''- झरो झरि सवर्णे''' (८.४.६५) = हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''हलो यमां यमि लोपः''' (८.४.६४) इत्यस्मात्‌ '''हलः''', '''लोपः''' चेत्यनयोः अनुवृत्तिः | '''झयो होऽन्यतरस्याम्'''‌ (८.४.६२) इत्यस्मात्‌ '''अन्यतरस्याम्‌''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हलः झरः लोपः अन्यतरस्यां सवर्णे झरि''' '''संहितायाम्''' |</big>
Line 340:
 
* <big>'''चोः कुः''' (८.२.३०) इति कुत्वे वच्‌ + ति → वक्ति</big>
* <big>प्रत्ययः अजादिः, अथवा प्रत्ययः य्‌, र्‌र्‍र्र्, व्‌, म्‌, न् इत्येभिः हल्‌-वर्णैः आरभ्यते, तदा धातुः हलन्तः चेदपि हल्‌-सन्धिः न भवति (केवलं वर्ण-सम्मेलनं भवति)</big>
* <big>''''''आदेशप्रत्यययोः''' (८.३.५९)''' इत्यनेन कवर्गीयात्‌ परे प्रत्ययावयव-सकारस्य स्थाने षकारादेशो भवति | वच्‌ + सि → '''चोः कुः''' → वक्‌ + सि → वक्षि</big>
* <big>'''हुझल्भ्यो हेर्धिः''' इत्यनेन झलन्तेभ्यः धातुभ्यः हि-प्रत्ययस्य स्थाने धि-आदेशो भवति</big>
Line 382:
 
* <big>'''चोः कुः''' (८.२.३०) इति कुत्वे पृच्‌ + ते → पृक्ते</big>
* <big>प्रत्ययः अजादिः, अथवा प्रत्ययः य्‌, र्‍र्‌र्‍र्र्र्, व्‌, म्‌, न् इत्येभिः हल्‌-वर्णैः आरभ्यते, तदा धातुः हलन्तः चेदपि हल्‌-सन्धिः न भवति (केवलं वर्ण-सम्मेलनं भवति)</big>
* <big>'''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन कवर्गीयात्‌ परे प्रत्ययावयव-सकारस्य स्थाने षकारादेशो भवति | पृच्‌ + से → '''चोः कुः''' → पृक्‌‌ + से → पृक्‌ + षे → पृक्षे</big>
* <big>धकारादिप्रत्यये परे जश्त्वम्‌ | पृच्‌ + ध्वे → '''चोः कुः''' → पृक्‌ + ध्वे → '''झलां जश्‌ झशि''' → पृग्‌ + ध्वे → पृग्ध्वे</big>
Line 854:
 
<big>'''असिद्धवदत्राभात्‌''' (६.४.२२) = कमपि आश्रयम्‌ अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम्‌ आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम्‌ | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्यषष्ठाध्यायस्य अन्तपर्यन्तम्‌ | '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात्‌ आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्‌, एषां कार्याणां नाम आभीय-कार्यम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत्‌ अत्र आ भात्‌''' |</big>
 
Line 889:
 
 
<big><u>रेफान्तः ईर → ईर्‌ईर् धातुः</u> (आत्मनेपदी, गतौ कम्पने च)</big>
 
 
<big>a) अङ्गकार्यम्‌— उपधायां दीर्घ-ईकारः (लघु इक्‌ इति न) अतः अङ्गकार्यं नास्ति |</big>
 
<big>b) सन्धिकार्यम्‌— अत्यन्तं न्यूनं यतः रेफात्‌ परे त्‌, थ्‌, ध्‌ एते हलः सन्ति चेत्‌ केवलं संयोजनम्‌ | आं रेफः इण्‌-प्रत्याहारे अस्ति अतः रेफात्‌ परे सकारः चेत्‌ '''आदेशप्रत्यययोः''' इत्यनेन सकारस्य षत्वम्‌ | ईर्‌ईर् + से → ईर्‌ईर् + षे → ईर्षे</big>
 
 
<big>ईर्‌ईर् र्‍र्-धातुः अजादिः अतः लङि '''आडजादीनाम्‌''' इत्यनेन आडागमः, '''आटश्च''' इत्यनेन वृद्धिरादेशः च | आ + ईर्‌ईर्ऐर्‌ऐर् इति अङ्गम्‌ |</big>
 
 
Line 941:
<big>उ → व् व्‌ → उ</big>
 
<big>ऋ → र् र्‍र् → ऋ</big>
 
<big>ऌ → ल्‌ ल्‌ → ऌ</big>
 
 
<big>इक्‌ प्रत्याहारे इ उ ऋ ऌ इति वर्णाः अन्तर्भूताः | यण्‌ प्रत्याहारे य्‌ व्‌ र्‍र् ल्‌ इति वर्णाः अन्तर्भूताः | यत्र सम्प्रसारणस्य आदेशः भवति, तत्र य्‌ स्थाने इ, व्‌ स्थाने उ, र्‍र् स्थाने ऋ, ल्‌ स्थाने ऌ |</big>
 
 
Line 1,118:
 
 
<big>द्विष्‌ + आनि → द्वेष्‌ + आनि →'द्वेषाणि' इति रूपे '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' (८.४.२) इत्यनेन णत्वं भवति | अत्र प्रश्नः उदेति यत्‌ द्विष्‌ + अन्ति इति स्थितौ अपि णत्वस्य निमित्तंम्‌ अस्ति | तर्हि अत्र का गतिः ? णत्वं भवति, न भवति, अथवा वैकल्पिकम्‌ ?</big>
 
<big>कृ-धातोः अपि एवं प्रश्नः | कृ + उ + अन्ति → कुरु + अन्ति → रेफ-निमित्तत्वात्‌ णत्वं भवेत्‌ वा इति प्रश्नः | द्विष्‌-धातोः यथा षकारनिमित्तत्वं, तथा कृ-धातोः अपि रेफनिमित्तत्वात्‌ णत्वं स्यात्‌ |</big>
 
 
<big>तर्हि द्विष्‌ + अन्ति इति स्थितिं परिशीलयाम | अत्र षकारः निमित्तभूतः; अग्रे स्थितस्य नकारस्य णत्वं प्राप्येत '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' (८.४.२) इति सूत्रेण | परन्तु अत्र युगपत्‌ सूत्रद्वयम्‌ आयाति कार्यं कर्तुम्‌— '''नश्चापदान्तस्य झलि''' (८.३.२४), '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' (८.४.२) च | '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन नस्य मस्य च अपदान्तस्य झलि अनुस्वारः भवति | द्विषन्ति इत्यस्मिन्‌ नकारः पदान्ते नास्ति, अतः '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन नकारस्य अनुस्वारः प्राप्यते; अपि च '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' (८.४.२) इत्यनेन तेन एव नकारेण णकारः अपि प्राप्यते | '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन अनुस्वारे प्राप्ते, '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' (८.४.२) इत्यनेन णकारे प्राप्ते, अत्र कः विधेयः ? अस्यां स्थितौ '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन णत्वे प्राप्ते असिद्धत्वात्‌ अनुस्वारस्य प्रवृत्तिः भवति | त्रिपाद्यां पूर्वशास्त्रं प्रति परशास्त्रम्‌ असिद्धम्‌ | '''नश्चापदान्तस्य झलि''' (८.३.२४) इति पूर्वशास्त्रम्‌; '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' (८.४.२) इति परशास्त्रम्‌ | अनेन णत्वशास्त्रस्य असिद्धत्वात्‌ अनुस्वार्स्य एव अवकाशः | तदा '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनेन परसवर्णादेशः, अनेन पुनः नकारः आयाति | '''[पूर्वत्रासिद्धम्‌''' (८.२.१) इति प्रसङ्गे इतोऽपि सूचनार्थम्‌ [[04---aShTAdhyAyI-paricayaH/07---aShTAdhyAyyAM-sUtrANAM-balAbalam|अयं पाठः]] दृश्यताम्‌ |]</big>
 
 
Line 1,303 ⟶ 1,306:
 
<big>b) सन्धिकार्यम्‌—</big>
 
 
 
<big>निन्‌स्‌‌ + ते → '''नश्चापदान्तस्य झलि''' → निंस्‌ + ते → वर्णमेलने → निंस्ते</big>
Line 1,378 ⟶ 1,383:
 
 
<big>असस्‌ + स्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्''' इत्यनेन स्‌-लोपः → असस्‌ → '''सिपि धातो रुर्वा''' (८.२.७४) इत्यनेन विकल्पेन रु-आदेशः → असद्‌ / असरु → असरु चेत्‌ उ इत्यस्य इत्‌-संज्ञा लोपश्च, '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन अवसाने र्‌र्-स्थाने विसर्गादेशः → असः | अपक्षे असद्‌ → '''वाऽवसाने''' इत्यनेन विकल्पेन चर्-आदेशः → असत्‌</big>
 
 
Line 1,396 ⟶ 1,401:
 
 
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर्‍खर् च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात्‌ '''रः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रः पदस्य विसर्जनीयः खरवसानयोः संहितायाम्''' |</big>
 
 
Line 1,459 ⟶ 1,464:
 
<big>'''असिद्धवदत्राभात्‌''' (६.४.२२) = कमपि आश्रयम्‌ अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम्‌ आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम्‌ | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्यषष्ठाध्यायस्य अन्तपर्यन्तम्‌ |</big> <big>'''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात्‌ आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्‌, एषां कार्याणां नाम आभीय-कार्यम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत्‌ अत्र आ भात्‌''' |</big>
 
 
Line 1,557 ⟶ 1,562:
 
* <big>तदा आदौ स्थितस्य दकारस्य धकारादेशो भवति '''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' इत्यनेन |</big>
* <big>खर्‍खर् परे अस्ति अतः '''खरि च''' इत्यनेन घकारस्य स्थाने ककारादेशो भवति |</big>
* <big>कवर्गीयवर्णः पूर्वम्‌ अस्ति अतः '''आदेशप्रत्यययोः''' इत्यनेन स्-स्थाने षत्वम्‌ |</big>
 
Line 1,594 ⟶ 1,599:
 
 
<big>'''दादेर्धातोर्घः''' (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ट्यन्तंषष्ठ्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दादेः धातोः हः घः झलि पदस्य अन्ते च''' |</big>
 
 
Line 1,696 ⟶ 1,701:
 
 
<big>ढ्‌, र्‍र् इत्यनयोर्लोपानन्तरं‌ तयोः पूर्वस्थितस्य अण्‌ (अ, इ, उ) इत्यस्य दीर्घादेशो भवति | यथा—</big>
 
 
Line 1,758 ⟶ 1,763:
 
 
<big>'''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) = ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः | ढकाररेफयोः लोपस्य निमित्तकढकाररेफे परे, अण्‌-प्रत्याहारे स्थितस्य दीर्घादेशो भवति | ढ्रलोपे इति द्वन्द्वगर्भ-उपपदतत्पुरुषसमासः— ढ्‌ च र्‍र् च ढ्रौ, इतरेतरद्वन्द्वः, ढ्रौ लोपयतीति ढ्रलोपः, तस्मिन्‌ ढ्रलोपे | ढ्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः | ढ्रलोपे सप्तम्यन्तं, पूर्वस्य षष्ठ्यन्तं, दीर्घः प्रथमान्तम्‌, अणः षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूरणम्‌— '''ढ्रलोपे पूर्वस्य अणः''' '''दीर्घः''' |</big>
 
 
Line 1,788 ⟶ 1,793:
 
 
<big>रुदिर्‌रुदिर् (अश्रुविमोचने)→ रुद्‌ → रोदिति</big>
 
<big>अन (प्राणने) → अन्‌ → अनिति</big>
Line 1,945 ⟶ 1,950:
 
<big><u>अदादिगणस्य जक्षाद्यन्तर्गणः</u> (सप्त धातवः)</big>
 
 
<big>'''जक्षित्यादयः षट्‌''' (६.१.६) = जक्षित्यादीनां धातूनाम्‌ अभ्यस्त-संज्ञा भवति | अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन्‌ सप्त धातवः सन्ति— जक्ष्‌, जागृ, दरिद्रा, चकास्‌, शास्‌, दीधीङ्‌, वेवीङ्‌ च | इति-शब्देन जक्ष्‌-धातोः परामर्शः | इति आदिः येषां ते इत्यादयः बहुव्रीहिः | जक्ष्‌ प्रथमान्तम्‌, इत्यादयः प्रथमान्तं, षट्‌ प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''उभे अभ्यस्तम्'''‌ (६.१.५) इत्यस्मात्‌ '''अभ्यस्तम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''जक्षित्यादयः षट्‌ अभ्यस्तम्‌ |'''</big>
 
 
 
Line 2,082 ⟶ 2,089:
 
 
<big>अचकास्‌ + स्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्''' इत्यनेन स्‌-लोपः → अचकास्‌ → '''सिपि धातो रुर्वा''' (८.२.७४) इत्यनेन विकल्पेन रु-आदेशः → अचकाद्‌ / अचकारु → अचकारु चेत्‌ उ इत्यस्य इत्‌-संज्ञा लोपश्च, '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन अवसाने र्‍र्-स्थाने विसर्गादेशः → अचकाः // पुनः अचकाद्‌ → '''वाऽवसाने''' इत्यनेन विकल्पेन चर्-आदेशः → अचकात्‌ इति कृत्वा त्रीणि रूपाणि</big>
 
 
Line 2,091 ⟶ 2,098:
 
 
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर्‍खर् च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात्‌ '''रः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रः पदस्य विसर्जनीयः खरवसानयोः संहितायाम्''' |</big>
 
 
Line 2,141 ⟶ 2,148:
 
<big>'''असिद्धवदत्राभात्‌''' (६.४.२२) = कमपि आश्रयम्‌ अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम्‌ आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम्‌ | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्यषष्ठाध्यायस्य अन्तपर्यन्तम्‌ | '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात्‌ आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्‌, एषां कार्याणां नाम आभीय-कार्यम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत्‌ अत्र आ भात्‌''' |</big>
 
 
Line 2,148 ⟶ 2,155:
 
 
<big>'''शास इदङ्हलोः''' (६.४.३४) = शास्‌-धातोः उपधायाः ह्रस्व-इकारादेशो भवति अङ्‌-प्रत्यये, हलादि किति ङिति च प्रत्यये परे | अङ्‌-प्रत्ययः लुङ्‌-लकारे भवति | '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन हलि इत्युक्तौ हलादि-प्रत्यये (तादृशप्रत्ययः यस्य आदौ हल्‌ स्यात्‌) | क्ङिति विशेषणं, हलि इत्यस्य | अङ्‌ च हल्‌ च अङ्‌हलौ इतरेतरद्वन्द्वः, तयोः अङ्‌हलोः | शासः षष्ठ्यन्तम्‌, इत्‌ प्रथमान्तम्‌, अङ्‌हलोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यस्मात्‌ उपधायाः, क्ङिति इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकाराः | अनुवृत्ति-सहितसूत्रम्‌— '''शासः अङ्गस्य उपधायाः इत्‌ क्ङिति अङ्हलोः''' |</big>
 
 
Line 2,185 ⟶ 2,192:
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/7/73/%E0%A5%A7%E0%A5%AA_-_%E0%A4%85%E0%A4%A6%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A4%B5%E0%A4%83_%28c%29.pdf १४ - अदादिगणे हलन्तधातवः (c).pdf] Swarup Bhai, Aug 8, 2019, 4:45 AM v.1
 
 
page_and_link_managers, Administrators
5,094

edits