6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,323:
<big>विधिलिङि—</big>
 
 
<big><u>सकारान्तः षस → सस्‌ धातुः</u> (परस्मैपदी, स्वप्ने)</big>
 
 
<big>a) निरनुबन्धधातोः सिद्धिः—</big>
 
 
<big>सत्वम्‌ | '''धात्वादेः षः सः''' (६.१.६४) = उपदेशावस्थायां धातोः आदौ षकारः अस्ति चेत्‌, षकारस्य स्थाने सकारादेशो भवति | धातोः आदिः, धात्वादिः षष्ठीतत्पुरुषः; तस्य धात्वादेः | धात्वादेः षष्ठ्यन्तं, षः षष्ठ्यन्तं, सः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात्‌ '''उपदेशे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''धात्वादेः षः सः उपदेशे |'''</big>
 
 
<big>षस → '''उपदेशेऽजनुनासिक इत्''' → षस्‌ → '''धात्वादेः षः सः''' → सस्‌ इति धातुः |</big>
 
 
<big>b) अङ्गकार्यम्‌— उपधायां ह्रस्व-अकारः (लघु इक्‌ इति न) अतः अङ्गकार्यं नास्ति |</big>
 
 
<big>c) सन्धिकार्यम्‌—</big>
 
 
<big>लोटि—</big>
 
<big>सस्‌ + हि → '''हुझल्भ्यो हेर्धिः''' → सस्‌ + धि → '''धि च''' इत्यनेन स्‌-लोपः → सधि</big>
 
 
<big>लङि—</big>
 
<big>'''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६८) इत्यनेन हल्-उत्तरस्य अपृक्तसंज्ञक-प्रत्ययस्य लोपः | लङि त्‌-लोपः, स्‌-लोपश्च |</big>
 
 
<big>असस्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्''' → असस्‌ → '''तिप्यनस्तेः''' इत्यनेन पदान्तस्य सकारस्य दकारादेशः → असद्‌</big>
 
<big>असस्‌ + त् → उपरि इव → असद्‌ → '''वाऽवसाने''' इत्यनेन विकल्पेन पदान्ते चर्त्वादेशः → असत्‌</big>
 
 
<big>'''तिप्यनस्तेः''' (८.२.७३) = पदान्तस्य सकारस्य दकारादेशो भवति तिपि परे; परन्तु अस्‌-धातौ न भवति | इदं सूत्रं '''ससजुषो रुः''' (८.२.६६) इत्यस्य अपवादः | न अस्तिः अनस्तिः, तस्य अनस्तेः | तिपि सप्तम्यन्तम्‌, अनस्तेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ससजुषोः रुः''' (८.२.६६) इत्यस्मात्‌ '''सः''' इत्यस्य अनुवृत्तिः | '''वसुस्रंसुध्वंस्वनडुहां दः''' (८.२.७२) इत्यस्मात्‌ '''दः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''पदस्य सः दः तिपि अनस्तेः''' |</big>
 
 
<big>'''ससजुषो रुः''' (८.२.६६) = पदान्ते सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तम्‌, रुः प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ससजुषोः पदस्य रुः''' |</big>
653

edits