6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH (view source)
Revision as of 13:58, 13 May 2021
, 3 years agono edit summary
Bina Radia (talk | contribs) No edit summary |
Bina Radia (talk | contribs) No edit summary |
||
Line 1,362:
<big>'''ससजुषो रुः''' (८.२.६६) = पदान्ते सकारस्य च सजुष्-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तम्, रुः प्रथमान्तम्, द्विपदमिदं सूत्रम् | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ससजुषोः पदस्य रुः''' |</big>
<big>अत्र वस्तुतः '''झलां जशोऽन्ते''' (८.२.३९) इति अत्र सर्वसामान्यं सूत्रं; तस्य अपवादः '''ससजुषो रुः''' (८.२.६६); पुनः '''ससजुषो रुः''' इत्यस्य अपवादः '''तिप्यनस्तेः''' (८.२.७३) |</big>
<u><big>लङ्-लकारस्य सिपि परे</big></u>
<big>'''सिपि धातो रुर्वा''' (८.२.७४) इति सूत्रेण लङ्-लकारस्य स्-प्रत्यये परे सकारान्तपदस्य सकारस्य स्थाने विकल्पेन दकारादेशः रुत्वं वा भवति | यथा—</big>
<big>असस् + स् → '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' इत्यनेन स्-लोपः → असस् → '''सिपि धातो रुर्वा''' (८.२.७४) इत्यनेन विकल्पेन रु-आदेशः → असद् / असरु → असरु चेत् उ इत्यस्य इत्-संज्ञा लोपश्च, '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन अवसाने र्-स्थाने विसर्गादेशः → असः | अपक्षे असद् → '''वाऽवसाने''' इत्यनेन विकल्पेन चर्-आदेशः → असत्</big>
<big>'''सिपि धातो रुर्वा''' (८.२.७४) = पदान्तस्य सकारस्य रु-आदेशो भवति, दकारो वा, सिपि परे | अत्र 'वा' इति समुच्चयार्थे | '''येनविधिस्तदन्तस्य''' (१.१.७२ ) इत्यनेन तदन्तविधिः; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णादेशः | ''''धातोः'''<nowiki/>' उक्तं परसूत्राणाम् अर्थपूर्तिकृते; प्रकृतसूत्रे आवश्यकता नास्ति | सिपि सप्तम्यन्तं, धातोः षष्ठ्यन्तं, रुः प्रथमान्तं, वा अव्ययपदम्, अनेकपदमिदं सूत्रम् | '''ससजुषोः रुः''' (८.२.६६) इत्यस्मात् '''सः''' इत्यस्य अनुवृत्तिः | '''वसुस्रंसुध्वंस्वनडुहां दः''' (८.२.७२) इत्यस्मात् '''दः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''सः धातोः पदस्य रुः दः वा सिपि''' |</big>
<big>प्राचीनैः उच्यते यत् '''सुस्रंसुध्वंस्वनडुहां दः''' (८.२.७२) इत्यस्मात् '''दः''' इत्यस्य अनुवृत्त्या दकारस्य पक्षः सिध्यति साक्षात् अनेन एव '''सिपि धातो रुर्वा''' (८.२.७४) इति सूत्रेण | नवीनैः उच्यते यत् अस्यावश्यकता नास्ति यतोहि रु-अपक्षे स्-स्थाने दकारादेशः '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन | परन्तु अद्यत्वे आधिक्येन वैयाकरणाः वदन्ति यत् '''ससजुषोः रुः''' (८.२.६६), '''झलां जशोऽन्ते''' (८.२.३९) इत्यनयोर्मध्ये '''ससजुषोः रुः''' (८.२.६६) इत्यस्य अपवादभूतत्वात् '''झलां जशोऽन्ते''' (८.२.३९) इत्यस्य पुनः नितराम् अवकाशो नास्ति | इत्थञ्च '''सिपि धातो रुर्वा''' (८.२.७४) इत्यनेनैव रुश्च दश्च क्रियते |</big>
<big>अत्र दृष्टिः एवं— सकारान्तपदम् अस्ति चेत्, कीदृशं कार्यं स्यात् इति प्रश्नः | अस्मिन् प्रसङ्गे सर्वसामान्यं सूत्रं '''झलां जशोऽन्ते''' (८.२.३९) | सकारः झलि अस्ति; अनेन सूत्रेण पदान्ते सकारस्य जश्त्वं, नाम वर्गीयव्यञ्जनस्य तृतीयसदस्यः | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन दन्त्य-सकारस्य स्थाने दन्त्य-तवर्गस्य तृतीयसदस्यः दकारः भवति | अतः सर्वसामान्य-सिद्धान्तः पदान्ते सकारस्य स्थाने दकारादेशः | परन्तु '''ससजुषो रुः''' (८.२.६६) तस्य अपवादः | अनेन पदान्ते स्थितस्य सकारस्य स्थाने रु-आदेशो भवति | पुनः तिप्-प्रत्यये परे '''तिप्यनस्तेः''' (८.२.७३) तस्य अपवादः | अनेन तिपि परे पदान्तस्य सकारस्य दकारादेशो भवति | एवमेव सिप्-प्रत्यये परे '''सिपि धातो रुर्वा''' (८.२.७४) '''ससजुषो रुः''' (८.२.६६) इत्यस्य अपवादः | अनेन सिपि परे पदान्तस्य सकारस्य रु-आदेशो दकारादेशश्च भवति | यथोक्तं '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन स्-स्थाने दकारः नोपलभ्यते यतोहि तत्तु बाधितं '''ससजुषो रुः''' (८.२.६६) इति सूत्रेण |</big>
<big>प्रश्नः उदेति यत् सिप् यदा आगतः तदा कथं वा धातुसंज्ञा स्यात् ? '''सिपि धातो रुर्वा''' (८.२.७४) इति सूत्रेण 'धातोः' अपि उक्तं, 'सिपि' अपि उक्तम् | अत्र वार्ता एवं— कस्य भागस्य का संज्ञा ? 'वस + ति' इति स्थितौ 'वस' इति अङ्गस्य धातुसंज्ञा नास्ति; तत्र किन्तु 'वस्' इति अन्तर्निहितभागस्य धातुसंज्ञा तु तदानीमपि अस्त्येव | एवमेव सिपः विधानानन्तरमपि धातोः धातुसंज्ञा तिष्ठति | यथा 'असस् + स्' इत्यत्र 'असस् + स्' इत्यस्य पदसंज्ञा, 'असस्' इत्यस्य धातुसंज्ञा | तदा स्-प्रत्ययलोपानन्तरम्, 'असस्' इत्यस्य धातुसंज्ञा अपि भवति, पदसंज्ञा अपि भवति |</big>
|