6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,391:
 
<big>प्रश्नः उदेति यत्‌ सिप्‌ यदा आगतः तदा कथं वा धातुसंज्ञा स्यात्‌ ? '''सिपि धातो रुर्वा''' (८.२.७४) इति सूत्रेण 'धातोः' अपि उक्तं, 'सिपि' अपि उक्तम्‌ | अत्र वार्ता एवं— कस्य भागस्य का संज्ञा ? 'वस + ति' इति स्थितौ 'वस' इति अङ्गस्य धातुसंज्ञा नास्ति; तत्र किन्तु 'वस्‌' इति अन्तर्निहितभागस्य धातुसंज्ञा तु तदानीमपि अस्त्येव | एवमेव सिपः विधानानन्तरमपि धातोः धातुसंज्ञा तिष्ठति | यथा 'असस्‌ + स्‌' इत्यत्र 'असस्‌ + स्‌' इत्यस्य पदसंज्ञा, 'असस्‌' इत्यस्य धातुसंज्ञा | तदा स्‌-प्रत्ययलोपानन्तरम्‌, 'असस्‌' इत्यस्य धातुसंज्ञा अपि भवति, पदसंज्ञा अपि भवति |</big>
 
 
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर्‍ च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात्‌ '''रः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रः पदस्य विसर्जनीयः खरवसानयोः संहितायाम्''' |</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<big>रूपाणि</big>
 
<big>लटि —</big>
 
<big>लोटि—</big>
 
<big>लङि—</big>
 
<big>विधिलिङि—</big>
653

edits