6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,408:
 
<big>विधिलिङि—</big>
 
 
<big><u>सकारान्तः अस → अस्‌ धातुः</u> ( परस्मैपदी, भुवि)</big>
 
 
<big>a) अङ्गकार्यम्‌—</big>
 
<big>१) हलादि पित्सु = उपधायां ह्रस्व-अकारः (लघु इक्‌ इति न) अतः गुणकार्यं नास्ति</big>
 
<big>२) अजादि पित्सु = उपधायां ह्रस्व-अकारः (लघु इक्‌ इति न) अतः गुणकार्यं नास्ति</big>
 
<big>३) हलाद्यपित्सु = '''श्नसोरल्लोपः''' इत्यनेन अस्‌-धातोः अकार-लोपः | अस्‌ + तः → स्‌ + तः → स्तः</big>
 
<big>४) अजाद्यपित्सु = '''श्नसोरल्लोपः''' इत्यनेन अस्‌-धातोः अकार-लोपः | अस्‌ + अन्ति → स्‌ + अन्ति → सन्ति</big>
 
 
<big>'''श्नसोरल्लोपः''' (६.४.१११) = श्नम्‌-प्रत्ययस्य अपि च अस्‌-धातोः अकारस्य लोपो भवति किति ङिति सार्वधातुके परे | श्नश्च अस्‌ च तयोरितरेतरद्वन्द्वः श्नसौ | श्नसोः षष्ठ्यन्तम्‌, अल्लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अत''' '''उत्सार्वधातुके''' (६.४.११०) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः; '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात्‌ '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य '''श्नसोः''' अल्लोपः सार्वधातुके क्ङिति''' |</big>
 
 
<big>लटि—</big>
 
<big>अस्‌ + सि → '''तासस्त्योर्लोपः''' इत्यनेन अस्‌-धातोः सकार-लोपः → अ + सि → असि</big>
 
 
<big>'''तासस्त्योर्लोपः''' (७.४.५०) = तास्‌-प्रत्ययस्य अपि च अस्‌-धातोः सकारस्य लोपो भवति सकारादि-प्रत्यये परे | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन तास्‌-प्रत्ययस्य, अस्‌-धातोः च अन्तिमवर्णलोपः न तु पूर्णाङ्गस्य | ताश्च अस्तिश्च तयोरितरेतरद्वन्द्वः तासस्ती, तयोः तासस्त्योः | तासस्त्योः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''सः स्यार्धधातुके''' (७.४.४९) इत्यस्मात्‌ '''सि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अत्र '''सि''' इत्युक्ते सकारादि-प्रत्यये परे यतः '''अङ्गस्य''' इत्यस्य अधिकरः; अङ्गं तदा उच्यते यदा यः परे अस्ति सः प्रत्ययः | अनुवृत्ति-सहितसूत्रम्‌— '''तासस्त्योः अङ्गस्य लोपः सि''' |</big>
 
 
<big>अत्र प्रश्नः उदेति यत्‌ '''सः स्यार्धधातुके''' (७.४.४९) इत्यस्मात्‌ केवलं '''सि''' इत्यस्य अनुवृत्तिः भवति वा, '''सः''' इत्यस्यापि भवेत्‌ वा ? सकारस्य स्थाने लोपादेशो भवति, अतः तस्यापि अनुवृत्तिः भवतु इति प्रश्नः | सिद्धान्तकौमुद्याम्‌ उच्यते यत्‌ '''सः''' इति अनुवृत्तेः आवश्यकता नास्ति यतोहि '''तासस्त्योः''' इति पदं षष्ठीविभक्तौ अतः '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णः एव स्थानी इति सिध्यति | काशिकायां '''सः''' इत्यस्य अनुवृत्तिः प्रदर्श्यते, किन्तु अद्यत्वे वैयाकरणानां मतं यत्‌ सा च अनुवृत्तिः नापेक्षिता |</big>
653

edits