6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH (view source)
Revision as of 15:33, 13 May 2021
, 3 years agono edit summary
Bina Radia (talk | contribs) No edit summary |
Bina Radia (talk | contribs) No edit summary |
||
Line 1,440:
<big>अस् + हि → '''घ्वसोरेद्धावभ्यासलोपश्च''' इत्यनेन अस्-स्थाने एकारादेशः, '''अलोऽन्त्यस्य''' इत्यनेन अन्तिमवर्णस्य (सकारस्य) स्थाने एव आदेशः → अए + हि → '''हुझल्भ्यो हेर्धिः''' इत्यनेन हि-स्थाने धि → अए + धि → हि अपित् अतः '''श्नसोरल्लोपः''' इत्यनेन अ-लोपः → ए + धि → एधि</big>
<big>'''घ्वसोरेद्धावभ्यासलोपश्च''' (६.४.११९) = घुसंज्ञक-धातोः अस्-धातोः च स्थाने एकारादेशो भवति हि-प्रत्यये परे; अभ्यासः अस्ति चेत् तस्य (अभ्यासस्य) लोपः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य (सकारस्य) स्थाने एव आदेशः | घुश्च अस् च तयोरितरेतरद्वन्द्वः घ्वसौ, तयोः घ्वसोः | घ्वसोः षष्ठ्यन्तम्, एत् प्रथमान्तं, हौ सप्तम्यन्तम्, अभ्यासलोपः प्रथमान्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''घ्वसोः अङ्गस्य एत् हौ अभ्यासलोपः च''' |</big>
<big>'''हुझल्भ्यो हेर्धिः''' (६.४.१०१) = हु-धातुतः झलन्तेभ्यः धातुभ्यश्च हि-प्रत्ययस्य स्थाने धि-आदेशो भवति | '''येनविधिस्तदन्तस्य''' (१.१.७२) इत्यनेन झलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम् अन्ते झल् | हुश्च झलश्च तेषामितरेतरद्वद्वो हुझलः, तेभ्यो हुझल्भ्यः | हुझल्भ्यः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, धिः प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.११) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''हुझल्भ्यः अङ्गेभ्यः हेः धिः''' |</big>
<big>'अए + हि' इत्यवस्थायाम् अए इति झलन्तं न, अतः हि-स्थाने धि नाभविष्यत्; परन्तु '''असिद्धवदत्राभात्''' इत्यनेन '''हुझल्भ्यो हेर्धिः''' इत्यस्य सूत्रस्य दृष्ट्या '''घ्वसोरेद्धावभ्यासलोपश्च''' इत्यस्य सूत्रस्य कार्यम् असिद्धम् | अतः हि-प्रत्ययः 'अस्' इत्येव पश्यति न तु 'अए'; अनेन कारणेन हि-स्थाने धि-आदेशो भवति |</big>
<big>'''असिद्धवदत्राभात्''' (६.४.२२) = कमपि आश्रयम् अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम् आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम् | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्य अन्तपर्यन्तम् | '''असिद्धवदत्राभात्''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात् आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्, एषां कार्याणां नाम आभीय-कार्यम् | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत् अत्र आ भात्''' |</big>
<big>तुल्यबलविरोधविषये शैलीद्वयं दृश्यते | द्वयोः किन्तु फलं समानम् | मातृभिः उच्यते यत् तुल्यबलविरोधः तदा भवति यदा द्वयोः सूत्रयोः निमित्तप्रसङ्गे स्थानिप्रसङ्गे वा सङ्घर्षो वर्तते | अतः अत्र प्रकृतौ '''घ्वसोरेद्धावभ्यासलोपश्च''' (६.४.११९), '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) च अनयोः सङ्घर्षः अस्ति | '''घ्वसोरेद्धावभ्यासलोपश्च''' (६.४.११९) इति सूत्रे स्थानी सकारः, निमित्तञ्च हि-प्रत्ययः; '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) इति सूत्रे स्थानी हि-प्रत्ययः, निमित्तं झलप्रत्याहारस्थः सकारः | अतः '''विप्रतिषेधे परं कार्यम्''' (१.४.२) इत्यनेन परसूत्रस्य '''घ्वसोरेद्धावभ्यासलोपश्च''' (६.४.११९) इत्यस्य कार्यम् | अधुना वस्तुतस्तु '''घ्वसोरेद्धावभ्यासलोपश्च''' (६.४.११९) इत्यस्य अस्-दलस्य अन्यत्रलब्धावकाशो नास्ति इति कृत्वैव बलमिति भवति; तस्मात् प्रक् किन्तु तादृशसङ्घर्षचिन्तनं कर्तुं शक्यते शिक्षार्थम् | किन्तु '''श्नसोरल्लोपः''' (६.४.१११) इत्यस्य तादृशसङ्घर्षो नास्ति यतोहि तस्य निमित्तमस्ति कित् ङित् सार्वधातुकप्रत्ययः | नाम हि-प्रत्ययः अस्ति चेदपि तथा, धि-प्रत्ययः अस्ति चेदपि तथैव | अतः तस्य विरोधो नास्ति | तदर्थं मातृभिरुच्यते यत् प्रथमं '''घ्वसोरेद्धावभ्यासलोपश्च''' (६.४.११९), तदा '''हुझल्भ्यो हेर्धिः''' (६.४.१०१), तदा च '''श्नसोरल्लोपः''' (६.४.१११) |</big>
|