6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,455:
 
<big>तुल्यबलविरोधविषये शैलीद्वयं दृश्यते | द्वयोः किन्तु फलं समानम्‌ | मातृभिः उच्यते यत्‌ तुल्यबलविरोधः तदा भवति यदा द्वयोः सूत्रयोः निमित्तप्रसङ्गे स्थानिप्रसङ्गे वा सङ्घर्षो वर्तते | अतः अत्र प्रकृतौ '''घ्वसोरेद्धावभ्यासलोपश्च''' (६.४.११९), '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) च अनयोः सङ्घर्षः अस्ति | '''घ्वसोरेद्धावभ्यासलोपश्च''' (६.४.११९) इति सूत्रे स्थानी सकारः, निमित्तञ्च हि-प्रत्ययः; '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) इति सूत्रे स्थानी हि-प्रत्ययः, निमित्तं झलप्रत्याहारस्थः सकारः | अतः '''विप्रतिषेधे परं कार्यम्‌''' (१.४.२) इत्यनेन परसूत्रस्य '''घ्वसोरेद्धावभ्यासलोपश्च''' (६.४.११९) इत्यस्य कार्यम्‌ | अधुना वस्तुतस्तु '''घ्वसोरेद्धावभ्यासलोपश्च''' (६.४.११९) इत्यस्य अस्‌-दलस्य अन्यत्रलब्धावकाशो नास्ति इति कृत्वैव बलमिति भवति; तस्मात्‌ प्रक्‌ किन्तु तादृशसङ्घर्षचिन्तनं कर्तुं शक्यते शिक्षार्थम्‌ | किन्तु '''श्नसोरल्लोपः''' (६.४.१११) इत्यस्य तादृशसङ्घर्षो नास्ति यतोहि तस्य निमित्तमस्ति कित्‌ ङित्‌ सार्वधातुकप्रत्ययः | नाम हि-प्रत्ययः अस्ति चेदपि तथा, धि-प्रत्ययः अस्ति चेदपि तथैव | अतः तस्य विरोधो नास्ति | तदर्थं मातृभिरुच्यते यत्‌ प्रथमं '''घ्वसोरेद्धावभ्यासलोपश्च''' (६.४.११९), तदा '''हुझल्भ्यो हेर्धिः''' (६.४.१०१), तदा च '''श्नसोरल्लोपः''' (६.४.१११) |</big>
 
<big>भिन्ना शैली उच्यते शृङ्गेर्याचार्यैः | तैः उच्यते यत् द्वयोः अन्यत्र चरितार्थयोः अचरितार्थयोः एकत्रसमावेशः तुल्यबलविरोधः | नाम यत्र कुत्रापि द्वयोः सूत्रयोः एकत्रप्राप्तिरस्ति, अपि च तयोः अन्यत्र चारितार्थ्यं वा उभयोः अचारितार्थ्यं वा अस्ति, तत्र तुल्यबलविरोधः वर्तते | अस्मिन्‌ चिन्तनविधौ स्थानी समानः अथवा निमित्तसङ्घर्षः इति किमपि नास्ति; केवलम्‌ एकस्यां प्रक्रियायां एकस्मिन्‌ काले युगपत्‌ प्राप्तिः इत्यनेन एकत्रप्राप्तिः | तदा अन्यत्र द्वयोः चारितार्थ्यं, नाम द्वयोः अन्यत्र लब्धावकाशः, अथवा द्वयोरपि अन्यत्र अचारितार्थ्यं, नाम लब्धावकाशो न, इति चेत्‌ तुल्यबलविरोधः | अतः प्रकृतौ त्रयाणामपि तुल्यबलविरोधो वर्तते यतोहि एकस्मिन्‌ काले युगपत्‌ प्राप्तिरस्ति, अपि च अन्यत्र चारितार्थ्यम्‌ अस्ति | अन्ततो गत्वा '''घ्वसोरेद्धावभ्यासलोपश्च''' (६.४.११९) बलवत्‌ प्रतिपदोक्तत्वात्‌ | प्रतिपदोक्तत्वं परत्वात्‌ बलवत्‌ |</big>
 
<big>एध्‌ + लट्‌ → '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२), '''कर्तरि शप्‌''' (६.१.६८) → तिङ्‌-भावी तिङ्‌ भवति इति कृत्वा युगपत्‌-प्राप्तिः, तुल्यबलविरोधश्च (यद्यपि स्थानी समानो नास्ति) |</big>
 
<big>लङि—</big>
 
<big>आ + अस्‌ + त्‌ → '''अस्तिसिचोऽपृक्ते''' इत्यनेन अपृक्तसंज्ञक-हल्‌-प्रत्ययस्य ईट्‌-आगमः → आ + अस्‌ + ई + त्‌ → वर्णमेलने → आसीत्‌</big>
 
<big>आ + अस्‌ + स्‌ → '''अस्तिसिचोऽपृक्ते''' इत्यनेन अपृक्तसंज्ञक-हल्‌-प्रत्ययस्य ईट्‌-आगमः → आ + अस्‌ + ई + स्‌ → वर्णमेलने → आसीः</big>
 
<big>ईट्‌-आगमः टित् अतः त्‌ इत्यस्य आदौ आयातीति | सामान्यतया अपृक्तसंज्ञक-हल्‌-प्रत्ययस्य लोपो भवति हलन्तधातुतः परन्तु अत्र लोपो न भवति यतोहि मध्ये ईडागमोऽस्तीति |</big>
 
<big>'''अस्तिसिचोऽपृक्ते''' (७.३.९६) = सिच्‌-प्रत्ययात्‌ अपि च अस्‌-धातुतः अपृक्तसंज्ञक-हल्‌-प्रत्ययस्य ईडागमो भवति | अस्तिश्च सिच्‌ च तयोः समाहारद्वन्द्वः अस्तिसिच्‌, तस्मात्‌ अस्तिसिचः | अस्तिसिचः पञ्चम्यन्तं, अपृक्ते सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अतो वृद्धिर्लुकि हलि''' (७.३.८९) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः, '''ब्रुव ईट्'''‌ (७.३.९३) इत्यस्मात्‌ '''ईट्‌''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अस्तिसिचः अङ्गात्‌ ईट्‌ अपृक्ते हलि''' |</big>
 
<big>'''आद्यन्तौ टकितौ''' (१.१.४६) = यस्य आगमः टित्‌, तस्य आदौ आयाति; यस्य आगमः कित्‌, तस्य अन्ते आयाति | आदिश्च अन्तश आद्यन्तौ, टश्च कश्च टकौ, इतरेतरद्वन्द्वः, टकौ इतौ ययोः तौ टकितौ, बहुव्रीहिः | आद्यन्तौ प्रथमान्तं, टकितौ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''आद्यन्तौ टकितौ''' |</big>
 
<big>अत्र प्रश्नः उदेति यत्‌ लङ्लकारस्य प्रथमपुरुषद्विवचने अकारलोपः भवति वा ? आ + अस्‌ + ताम्‌ | यतोहि आडागमः विधीयते लकारावस्थायाम् '''आडजादीनाम्‌''' (६.४.७२) इति सूत्रेण, तदा '''आटश्च''' (६.१.८९) इत्यनेन आडागमात्‌ अचि परे पूर्वपरयोः वृद्धिरेकादेशः | तदानीम्‌ अकारः एव नास्ति, अतः कथं वा '''श्नसोरल्लोपः''' (६.४.१११) इत्यनेन अकारलोपः स्यात्‌ ? अस्य उत्तरम्‌ अस्ति यत्‌ '''आडजादीनाम्‌''' (६.४.७२) इति सूत्रेण आडागमः विधीयते लकारावस्थायाम् इति तु सत्यं, किन्तु '''आटश्च''' (६.१.८९) इत्यनेन वृद्धिरादेशः तत्र साक्षात्‌ न भवति | इदं सन्धिकार्यं; '''श्नसोरल्लोपः''' (६.४.१११) अङ्गकार्यं, परसूत्रं च | अतः अडागमानन्तरं '''श्नसोरल्लोपः''' (६.४.१११) इत्यनेन अकारलोपः; तदा तु '''आटश्च''' (६.१.८९) इत्यस्य अवसरः एव नास्ति |</big>
 
<big>अस्‌ + लङ्‌ → '''आडजादीनाम्‌''' (६.४.७२) → आ + अस्‌ +लङ्‌ → आ + अस्‌ +ताम्‌ → '''श्नसोरल्लोपः''' (६.४.१११) → आ + स्‌ + ताम्‌ → आस्ताम्‌</big>
 
<big>'''आडजादीनाम्‌''' (६.४.७२) = लुङ्‌ लङ्‌ लृङ्‌ च परे चेत्‌, अजादिधातुरूपि-अङ्गस्य आट्‌-आगमो भवति; स च अडागमः उदात्त-संज्ञकः | '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन अङ्गात्‌ प्राक्‌ आयाति | अच्‌ आदिर्येषां ते, अजादयः बहुव्रीहिः; तेषाम्‌ अजादीनाम्‌ | आट्‌ प्रथमान्तम्‌, अजादीनाम्‌ षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''लुङ्लङ्लृङ्क्ष्वडुदात्तः''' (६.४.७१) इत्यस्मात्‌ '''लुङ्‌लङ्‌लृङ्क्षु''', '''उदात्तः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अजादीनाम्‌ अङ्गस्य आट्‌ उदात्तः''' '''लुङ्‌लङ्‌लृङ्क्षु''' |</big>
 
<big>'''आटश्च''' (६.१.८९) = आडागमात्‌ अचि परे पूर्वपरयोः वृद्धिरेकादेशो भवति | आटः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''इको यणचि''' (६.१.७७) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः | '''वृद्धिरेचि''' (६.१.८७) इत्यस्मात्‌ '''वृद्धिः''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''आटः च अचि पूर्वपरयोः एकः वृद्धिः संहितायाम्‌''' |</big>
 
<big>b) सन्धिकार्यम्‌—सकारान्तधातुः अतः आधिक्येन केवलं वर्णमेलनं भवति | यथा सकारात्‌ तकारे परे केवलं मेलनम्‌ | अस्‌ + ति → अस्ति |</big>
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
<big>रूपाणि</big>
<big>लटि —</big>
<big>लोटि—</big>
<big>लङि—</big>
<big>विधिलिङि—</big>
653

edits