6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,514:
<big>विधिलिङि—</big>
 
 
<big><u>हकारान्तः दुह → दुह्‌ धातुः</u> (उभयपदी, प्रपूरणे)</big>
 
 
<big>a) अङ्गकार्यम्‌—</big>
 
<big>१) हलादि पित्सु = उपधायां लघु-इकः गुणः | दुह्‌ + ति → '''पुगन्तलघूपधस्य च''' → दोह्‌ + ति → सन्धिकार्यम्‌ → दोग्धि</big>
 
<big>२) अजादि पित्सु = उपधायां लघु-इकः गुणः | दुह्‌ + आनि → '''पुगन्तलघूपधस्य च''' → दोह्‌ + आनि → दोहानि</big>
 
<big>३) हलाद्यपित्सु = '''क्ङिति च''', गुणनिषेधः | दुह्‌ + तः → सन्धिकार्यमेव → दुग्धः</big>
 
<big>४) अजाद्यपित्सु = '''क्ङिति च''', गुणनिषेधः | दुह्‌ + अन्ति → वर्णमेलनमेव → दुहन्ति</big>
 
 
<big>b) सन्धिकार्यम्‌—</big>
 
 
<big>दकारादि-हकारान्तधातूनां सन्धिकार्यं चतुर्विधम्‌—</big>
 
 
<u><big>१. दकारादि-हकारान्तधातुतः '''त'''कारादि '''थ'''कारादि च प्रत्ययानां योजनविधिः</big></u>
 
* <big>तकारादि थकारादि च प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति '''दादेर्धातोर्घः''' इत्यनेन सूत्रेण |</big>
* <big>अधुना प्रत्ययः झष्‌-परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्‌-आदेशो भवति '''झषस्तथोर्धोऽधः''' इति सूत्रेण |</big>
* <big>अधुना धातु-परतः झश्‌ अस्ति (धकारः), अतः धात्वन्ते घ्‌-स्थाने तृतीयादेशो भवति '''झलां जश्‌ झशि''' इति सूत्रेण | जश्त्वसन्धिरिति |</big>
 
 
<big>दुह्‌ + ति → गुणकार्यम्‌ → दोह्‌ + ति → '''दादेर्धातोर्घः''' इत्यनेन ह्‌-स्थाने घ्‌-आदेशः → दोघ्‌ + ति → '''झषस्तथोर्धोऽधः''' इत्यनेन त्‌-स्थाने ध्‌-आदेशः → दोघ्‌ + धि → '''झलां जश्‌ झशि''' इत्यनेन घ्‌-स्थाने ग्‌-आदेशः → दोग्‌ + धि → दोग्धि</big>
 
<big>दुह्‌ + थः → '''दादेर्धातोर्घः''' → दुघ्‌ + थः → '''झषस्तथोर्धोऽधः''' → दुघ्‌ + धः → '''झलां जश्‌ झशि''' → दुग्‌ + धः → दुग्धः</big>
653

edits