6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,539:
 
* <big>तकारादि थकारादि च प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति '''दादेर्धातोर्घः''' इत्यनेन सूत्रेण |</big>
* <big>अधुना प्रत्ययः झष्‌-परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्‌-आदेशो भवति '''झषस्तथोर्धोऽधः''' इति सूत्रेण |</big>
* <big>अधुना धातु-परतः झश्‌ अस्ति (धकारः), अतः धात्वन्ते घ्‌-स्थाने तृतीयादेशो भवति '''झलां जश्‌ झशि''' इति सूत्रेण | जश्त्वसन्धिरिति |</big>
 
 
Line 1,546:
 
<big>दुह्‌ + थः → '''दादेर्धातोर्घः''' → दुघ्‌ + थः → '''झषस्तथोर्धोऽधः''' → दुघ्‌ + धः → '''झलां जश्‌ झशि''' → दुग्‌ + धः → दुग्धः</big>
 
 
 
<big>२. <u>दकारादि-हकारान्तधातुतः '''स'''कारादि-प्रत्ययानां योजनविधिः</u></big>
 
* <big>सकारादि-प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति '''दादेर्धातोर्घः''' इत्यनेन सूत्रेण |</big>
 
* <big>तदा आदौ स्थितस्य दकारस्य धकारादेशो भवति '''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' इत्यनेन |</big>
* <big>खर्‍ परे अस्ति अतः '''खरि च''' इत्यनेन घकारस्य स्थाने ककारादेशो भवति |</big>
* <big>कवर्गीयवर्णः पूर्वम्‌ अस्ति अतः '''आदेशप्रत्यययोः''' इत्यनेन स्-स्थाने षत्वम्‌ |</big>
 
 
<big>दुह्‌ + सि → गुणकार्यम्‌ → दोह्‌‍ + सि → '''दादेर्धातोर्घः''' → दोघ्‌ + सि → '''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' → धोघ्‌ + सि → '''खरि च''' → धोक्‌ + सि → '''आदेशप्रत्यययोः''' → धोक्‌ + षि → धोक्षि</big>
 
 
<big>३. <u>दकारादि-हकारान्तधातुतः '''ध'''कारादि-प्रत्ययानां योजनविधिः</u></big>
 
* <big>धकारादि प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति '''दादेर्धातोर्घः''' इत्यनेन सूत्रेण |</big>
* <big>धात्वन्ते घ्‌-स्थाने तृतीयादेशो भवति '''झलां जश्‌ झशि''' इति सूत्रेण | जश्त्वसन्धिरिति |</big>
 
 
<big>दुह्‌ + हि → '''हुझल्भ्यो हेर्धिः →''' दुह्‌ + धि → '''दादेर्धातोर्घः''' इत्यनेन ह्‌-स्थाने घ्‌-आदेशः → दुघ्‌ + धि → '''झलां जश्‌ झशि''' इत्यनेन घ्‌-स्थाने ग्‌-आदेशः → दुग्‌ + धि → दुग्धि</big>
 
 
<big>४. <u>दकारादि-हकारान्तधातुतः '''ध्वे'''-प्रत्ययस्य योजनविधिः</u></big>
 
* <big>ध्वे-प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति '''दादेर्धातोर्घः''' इत्यनेन सूत्रेण |</big>
* <big>अधुना एकाच्‌-बशादि-झषन्तधातुः जातः (३४ इति) | अतः '''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' इत्यनेन '''('''३४ – ४४) आदौ तृतीयसदस्य स्थाने चतुर्थसदस्यादेशो भवति |</big>
* <big>धात्वन्ते घ्‌-स्थाने तृतीयादेशो भवति '''झलां जश्‌ झशि''' इति सूत्रेण | जश्त्वसन्धिरिति |</big>
653

edits