6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH (view source)
Revision as of 08:12, 14 May 2021
, 3 years agono edit summary
Bina Radia (talk | contribs) No edit summary |
Bina Radia (talk | contribs) No edit summary |
||
Line 1,579:
*<big>अधुना एकाच्-बशादि-झषन्तधातुः जातः (३४ इति) | अतः '''एकाचो बशो भष् झषन्तस्य स्ध्वोः''' इत्यनेन '''('''३४ – ४४) आदौ तृतीयसदस्य स्थाने चतुर्थसदस्यादेशो भवति |</big>
*<big>धात्वन्ते घ्-स्थाने तृतीयादेशो भवति '''झलां जश् झशि''' इति सूत्रेण | जश्त्वसन्धिरिति |</big>
<big>दुह् + ध्वे → '''दादेर्धातोर्घः''' इत्यनेन ह्-स्थाने घ्-आदेशः → दुघ् + ध्वे → '''एकाचो बशो भष् झषन्तस्य स्ध्वोः''' इत्यनेन बशः भष्-आदेशः → धुघ् + ध्वे → '''झलां जश् झशि''' इत्यनेन घ्-स्थाने ग्-आदेशः → धुग् + ध्वे → धुग्ध्वे</big>
<big>लङि—</big>
<big>अदोह् + त् → हल्-परतः अपृक्तसंज्ञक-प्रत्ययस्य लोपः → अदोह् → '''दादेर्धातोर्घः''' → अदोघ् → '''एकाचो बशो भष् झषन्तस्य स्ध्वोः''' → अधोघ् → '''झलां जशोऽन्ते''' → अधोग् → '''वाऽवसाने''' इत्यनेन विकल्पेन चर्त्वादेशः → अधोक्</big>
<big>'''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' (६.१.६८) = हल्-परतः अपृक्तसंज्ञक-प्रत्ययस्य लोपः | लङि त्-लोपः, स्-लोपश्च |</big>
<big>'''दादेर्धातोर्घः''' (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ट्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''हो ढः''' (८.२.३१) इत्यस्मात् '''हः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात् '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''दादेः धातोः हः घः झलि पदस्य अन्ते च''' |</big>
<big>'''झषस्तथोर्धोऽधः''' (८.२.४०) = झष्-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ् च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम् अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्तत्पुरुषः, तस्मात् अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्, अधः पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''झषः तथोः धः अधः''' |</big>
<big>'''एकाचो बशो भष् झषन्तस्य स्ध्वोः''' इत्यस्य अनौपचारिकोऽर्थः—</big>
<big>धातोः आदौ बश् (ब, ग, ड, द) अपि च अन्ते झष् (झ, भ, घ, ढ, ध), तस्य धातोः नाम एकाच्-बशादि-झषन्तधातुः | यथा बन्ध्-धातुः, बुध्-धातुः च | यदि उपर्युक्त-हकारान्तधातुसम्बद्ध-सूत्रैः हकारस्य स्थाने झषादेशः सञ्जातः (दृष्टान्ते— दुह् → दुघ्) तर्हि सोऽपि तादृशो धातुः | एकाच्-बशादि-झषन्तधातोः आदौ स्थितस्य बशः स्थाने भषादेशो भवति (भ, घ, ढ, ध) सकारादि-प्रत्यये परे, ध्व-शब्दे परे, पदान्ते च | अतः वदामः यत् '३४ → ४४' इत्युक्तौ यत्र धातोः आदौ वर्गस्य तृतीयसदस्यः (३), अन्ते च वर्गस्य चतुर्थसदस्यः (४), तत्र आदौ स्थितस्य तृतीयसदस्यस्य स्थाने चतुर्थसदस्यादेशो भवति (३ → ४) | आहत्य ३४ → ४४ इति विकारः | धेयं यत् अयं बश्-वर्णः धातोः अन्तिम-अंशस्य आदौ अपि भवितुमर्हति | अनेन धातुः अनेकाच् चेदपि, तस्य धातोः एकाच्-बशादि-झषन्तधात्वंशः अस्ति चेत्, अत्रापि ३४ → ४४ इति विकारो भवति |</big>
<big>'''एकाचो बशो भष् झषन्तस्य स्ध्वोः''' (८.२.३७) = धातोरवयवो यो झषन्त एकाच्, तस्य बशः भषादेशो भवति सकारे परे, ध्व-शब्दे परे, पदान्ते च | अनुवृत्तिसहितसूत्रे ''''एकाचः झषन्तस्य'''<nowiki/>' इत्यनयोरेव विशेषणविशेष्यभावः; धातोः तादृशांशः इति तात्पर्यम् | अनेन धातोः एकाच् वा तदधिकाः वा अर्हाः | एकोऽच् यस्मिन् स एकाच् बहुव्रीहिः, तस्य एकाचः | झष् अन्ते यस्य स झषन्तः बहुव्रीहिः, तस्य झषन्तस्य | स् च ध्व् च स्ध्वौ इतरेतरद्वन्द्वः, तयोः स्ध्वोः | एकाचः षष्ठ्यन्तं, बशः षष्ठ्यन्तं, भष् प्रथमान्तं, झषन्तस्य षष्ठ्यन्तं, स्ध्वोः सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात् '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''धातोः एकाचः झषन्तस्य बशः भष् स्ध्वोः पदस्य अन्ते च''' |</big>
<big>परस्मैपदे आत्मनेपदे च—</big>
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
|