6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,706:
 
<big>२. <u>हकारान्तधातुतः '''स'''कारादि-प्रत्ययानां योजनविधिः</u></big>
 
 
* <big>सकारादि-प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, '''हो ढः''' इत्यनेन सूत्रेण |</big>
* <big>तदा ढकारस्य स्थाने ककारादेशो भवति '''षढोः कः सि''' इत्यनेन सूत्रेण |</big>
* <big>अन्ते प्रत्ययावयवस्य सकारस्य स्थाने षकारादेशो भवति, '''आदेशप्रत्यययोः''' इत्यनेन सूत्रेण |</big>
 
 
 
<big>यथा— लिह्‌ + सि → '''पुगन्तलघूपधस्य च''' → लेह्‌ + सि → '''हो ढः''' → लेढ्‌ + सि → '''षढोः कः सि''' → लेक्‌ + सि → '''आदेशप्रत्यययोः''' → लेक्‌ + षि → लेक्षि</big>
 
 
 
<big>'''हो ढः''' (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हः ढः झलि पदस्य अन्ते च''' |</big>
 
 
 
<big>'''षढोः कः सि''' (८.२.४१) = सकारे परे षकारस्य ढकारस्य च ककारादेशो भवति | षश्च ढश्च तयोः इतरेतरद्वन्द्वः षढौ, तयोः षढोः | षढोः षष्ठ्यन्तं, कः प्रथमान्तं, सि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''षढोः कः सि''' |</big>
 
 
 
<big>३. <u>हकारान्तधातुतः '''ध'''कारादि-प्रत्ययानां योजनविधिः</u></big>
 
 
* <big>धकारादि-प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, '''हो ढः''' इत्यनेन सूत्रेण |</big>
* <big>प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ्‌-आदेशो भवति '''ष्टुना ष्टुः''' इति सूत्रेण |</big>
* <big>पूर्वतनस्य ढ्‌-लोपो भवति '''ढो ढे लोपः''' इति सूत्रेण |</big>
* <big>ढलोपनिमित्तस्य पूर्वस्य अणः दीर्घः भवति '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' इति सूत्रेण |</big>
 
 
 
<big>यथा—</big>
653

edits