6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,704:
 
<big>उत्तरमिदं यत्‌ 'आश्रयात्‌ सिद्धम्‌' | वस्तुतः यत्र कुत्रापि '''ढो ढे लोपः''' (८.३.१३) इति सूत्रं प्रवर्तते, तस्मात्‌ पूर्वं '''ष्टुना ष्टुः''' (८.४.४१) प्रवर्तते एव | सम्पूर्ण-संस्कृतभाषायां कुत्रापि नास्ति यत्र '''ढो ढे लोपः''' (८.३.१३) भवति किन्तु तस्मात्‌ पूर्वं '''ष्टुना ष्टुः''' (८.४.४१) न स्यात्‌ | अस्यां दशायां '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन '''ढो ढे लोपः''' (८.३.१३) इत्यस्य मनसि '''ष्टुना ष्टुः''' (८.४.४१) इत्यस्य कार्यम्‌ असिद्धं चेत्‌ '''ढो ढे लोपः''' (८.३.१३) इत्यस्य प्रवर्तनं न कुत्रापि भवेत्‌; निरवकाशं स्यात्‌ | तदर्थं '''ढो ढे लोपः''' (८.३.१३) इति सूत्रं '''ष्टुना ष्टुः''' (८.४.४१) इति सूत्रस्य आश्रये अस्ति इति कृत्वा 'आश्रयात्‌ सिद्धम्‌' इत्युच्यते | अनेन कारणेन '''ढो ढे लोपः''' (८.३.१३) न बाधितं '''पूर्वत्रासिद्धम्‌''' (८.२.१) इति सूत्रेण |</big>
 
 
 
<big>२. <u>हकारान्तधातुतः '''स'''कारादि-प्रत्ययानां योजनविधिः</u></big>
 
 
 
Line 1,741 ⟶ 1,744:
 
<big>लिह्‌ + ध्वे → '''हो ढः''' → लिढ्‌ + ध्वे → '''ष्टुना ष्टुः''' → लिढ्‌ + ढ्वे → '''ढो ढे लोपः''' → लि + ढ्वे → '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' → ली + ढ्वे → लीढ्वे</big>
 
 
<big>'''हो ढः''' (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हः ढः झलि पदस्य अन्ते च''' |</big>
 
 
<big>'''झषस्तथोर्धोऽधः''' (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ्‌ च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम्‌ अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्‌तत्पुरुषः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''झषः तथोः धः अधः''' |</big>
 
 
<big>'''ढो ढे लोपः''' (८.३.१३) = ढकारे परे पूर्वतनस्य ढकारस्य लोपो भवति | ढः षष्ठ्यन्तं, ढे सप्तम्यन्तं, लोपः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''ढः ढे लोपः''' |</big>
 
 
<big>'''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) = ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः | ढकाररेफयोः लोपस्य निमित्तकढकाररेफे परे, अण्‌-प्रत्याहारे स्थितस्य दीर्घादेशो भवति | ढ्रलोपे इति द्वन्द्वगर्भ-उपपदतत्पुरुषसमासः— ढ्‌ च र्‍ च ढ्रौ, इतरेतरद्वन्द्वः, ढ्रौ लोपयतीति ढ्रलोपः, तस्मिन्‌ ढ्रलोपे | ढ्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः | ढ्रलोपे सप्तम्यन्तं, पूर्वस्य षष्ठ्यन्तं, दीर्घः प्रथमान्तम्‌, अणः षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूरणम्‌— '''ढ्रलोपे पूर्वस्य अणः''' '''दीर्घः''' |</big>
 
 
<big>लङि—</big>
 
<big>अलिह्‌ + त्‌ → '''पुगन्तलघूपधस्य च''' → अलेह्‌ + त् → हल्-परतः अपृक्तसंज्ञक-प्रत्ययस्य लोपः → अलेह्‌ → '''हो ढः''' → अलेढ्‌ → '''झलां जशोऽन्ते''' → अलेड्‌ → '''वाऽवसाने''' इत्यनेन विकल्पेन चर्त्वादेशः → अलेट्‌‌</big>
 
 
<big>'''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६८) = हल्-परतः अपृक्तसंज्ञक-प्रत्ययस्य लोपः | लङि त्‌-लोपः, स्‌-लोपश्च |</big>
 
 
<big>परस्मैपदे आत्मनेपदे च—</big>
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<big><u>रूपाणि</u></big>
 
<big>लटि —</big>
 
<big>लोटि—</big>
 
<big>लङि—</big>
 
<big>विधिलिङि—</big>
653

edits