6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH (view source)
Revision as of 09:40, 14 May 2021
, 3 years agono edit summary
Bina Radia (talk | contribs) No edit summary |
Bina Radia (talk | contribs) No edit summary |
||
Line 1,821:
<big>१. '''रुदश्च पञ्चभ्यः''' (७.३.९८) = पञ्चभ्यः रुदादिभ्यः धातुभ्यः हलादेः पितः अपृक्तस्य सार्वधातुकस्य ईडागमो भवति | '''रुदादिभ्यः सार्वधातुके''' (७.२.७६) इत्यस्य अपवादः | '''उभयनिर्देशे पञ्चमीनिर्देशः बलीयान्''' इति परिभाषया सप्तम्यन्तस्य आगमः | रुदः पञ्चम्यन्तं, पञ्चभ्यः पञ्चम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | '''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यस्मात् '''पिति''', '''सार्वधातुके''' इत्यनयोः अनुवृत्तिः | '''उतो वृद्धिर्लुकि हलि''' (७.३.८९) इत्यस्मात् '''हलि''' इत्यस्य अनुवृत्तिः | '''गुणोऽपृक्ते''' (७.३.९१) इत्यस्मात् '''अपृक्ते''' इत्यस्य अनुवृत्तिः | '''ब्रुव ईट्''' (७.३.९३) इत्यस्मात् '''ईट्''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''रुदश्च पञ्चभ्यः अङ्गेभ्यः ईट् हलि पिति अपृक्ते सार्वधातुके''' |</big>
<big>यथा—</big>
<big>अरुद् + त् → '''रुदश्च पञ्चभ्यः''' (७.३.९८) → अरुद् + ईट् + त् → अरुद् + ईत् → '''पुगन्तलघूपधस्य च''' (७.३.८६) → अरोद् + ईत् → अरोदीत्</big>
<big>अत्र ईडागमस्य विधानेन अधुना प्रत्ययः ईत्, नाम द्विवर्णकः, अतः अपृक्त-संज्ञा नास्ति; तदभावे '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' (६.१.६७) इत्यस्य प्रसक्तिर्नास्ति | अरुद् + स् → अरोदीः अपि तथा |</big>
<big>२. '''अड् गार्ग्यगालवयोः''' (७.३.९९) = पञ्चभ्यः रुदादिभ्यः धातुभ्यः हलादेः पितः सार्वधातुकस्य अपृक्तस्य अडागमो भवति, गार्ग्यगालवयोः मतेन | गार्ग्यश्च गालवश्च गार्ग्यगालवौ, तयोः गार्ग्यगालवयोः | '''उभयनिर्देशे पञ्चमीनिर्देशः बलीयान्''' इति परिभाषया सप्तम्यन्तस्य आगमः | अट् प्रथमान्तं, गार्ग्यगालवयोः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यस्मात् '''पिति''', '''सार्वधातुके''' इत्यनयोः अनुवृत्तिः | '''उतो वृद्धिर्लुकि हलि''' (७.३.८९) इत्यस्मात् '''हलि''' इत्यस्य अनुवृत्तिः | '''गुणोऽपृक्ते''' (७.३.९१) इत्यस्मात् '''अपृक्ते''' इत्यस्य अनुवृत्तिः | '''रुदश्च पञ्चभ्यः''' (७.३.९८) इत्यस्मात् '''रुदश्च''', '''पञ्चभ्यः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''गार्ग्यगालवयोः रुदश्च''' '''पञ्चभ्यः अङ्गेभ्यः अट् हलि पिति अपृक्ते सार्वधातुके''' |</big>
<big>यथा—</big>
<big>अरुद् + त् → '''पुगन्तलघूपधस्य च''' (७.३.८६) → अरोद् + त् → '''अड् गार्ग्यगालवयोः''' (७.३.९९) → अरोद् + अ + त् → अरोदत् | अरोद् + स् → अरोद् + अ + स् → अरोदः अपि तथा |</big>
<big><u>त्-प्रत्यये परे स्-प्रत्यये परे</u></big>
Line 1,845 ⟶ 1,855:
<big>जक्ष् → अजक्ष् → अजक्षीत्, अजक्षत् अजक्षीः, अजक्षः</big>
<u><big>दकारान्तः रुद → रुद् धातुः (परस्मैपदी, अश्रुविमोचने)</big></u>
<big>a) अङ्गकार्यम्—</big>
Line 1,857 ⟶ 1,871:
<big>४) अजाद्यपित्सु = '''क्ङिति च''', गुणनिषेधः | रुद् + अन्ति → वर्णमेलनमेव → रुदन्ति</big>
<big>b) सन्धिकार्यम्—</big>
|