6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH (view source)
Revision as of 09:50, 14 May 2021
, 3 years agono edit summary
Bina Radia (talk | contribs) No edit summary |
Bina Radia (talk | contribs) No edit summary |
||
Line 1,926:
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
<big>रूपाणि</big>
<big>लटि —</big>
<big>लोटि—</big>
<big>लङि—</big>
<big>विधिलिङि—</big>
<big><u>अदादिगणस्य जक्षाद्यन्तर्गणः</u> (सप्त धातवः)</big>
<big>'''जक्षित्यादयः षट्''' (६.१.६) = जक्षित्यादीनां धातूनाम् अभ्यस्त-संज्ञा भवति | अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन् सप्त धातवः सन्ति— जक्ष्, जागृ, दरिद्रा, चकास्, शास्, दीधीङ्, वेवीङ् च | इति-शब्देन जक्ष्-धातोः परामर्शः | इति आदिः येषां ते इत्यादयः बहुव्रीहिः | जक्ष् प्रथमान्तम्, इत्यादयः प्रथमान्तं, षट् प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''उभे अभ्यस्तम्''' (६.१.५) इत्यस्मात् '''अभ्यस्तम्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''जक्षित्यादयः षट् अभ्यस्तम् |'''</big>
<big>'''उभे अभ्यस्तम्''' (६.१.५) इति सूत्रेण यदा धातोः द्वित्वं भवति, तदा मिलित्वा द्वयोः भागयोः नाम 'अभ्यस्तं' भवति | '''जक्षित्यादयः षट्''' (६.१.६) इत्यनेन जक्षित्यादीनां धातूनाम् अद्वित्वे सत्यपि अभ्यस्त-संज्ञा भवति |</big>
<big>एषां सप्तानां धातूनां तिङन्तसिद्ध्यर्थं विशिष्टे द्वे कार्ये—</big>
<big>१) '''अदभ्यस्तात्''' (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्-आदेशो भवति | अत् प्रथमान्तम्, अभ्यस्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''झोऽन्तः''' (७.१.३) इत्यस्मात् '''झः''' (षष्ठ्यन्तम्) इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्''' (७.१.२) इत्यस्मात्, वचनपरिणामं कृत्वा '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत्''' |</big>
<big>धेयं यत् अत्-आदेशस्य तकारः '''हलन्त्यम्''' (१.३.३) इति सूत्रेण इत्-संज्ञकः न, यतोहि अत् तु विभक्तिसंज्ञक-झि-प्रत्ययस्य अवयवस्य आदेशः अतः '''न विभक्तौ तुस्माः''' (१.३.४) इत्यनेन '''हलन्त्यम्''' (१.३.३) बाधितम् |</big>
<big>'''अदभ्यस्तात्''' (७.१.४) इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झ्-स्थाने अत् आदेशः, अतः लटि झि → अति न तु अन्ति; लोटि झि → अतु न तु अन्तु |</big>
<big>२) '''सिजभ्यस्तविदिभ्यश्च''' (३.४.१०९) = ङित्-लकारस्य अवस्थायां, सिच्-प्रत्ययात्, अभ्यस्तसंज्ञकात् धातोः, विद्-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्-आदेशो भवति | सिच् च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात् '''ङितः''' इत्यस्य अनुवृत्तिः | '''झेर्जुस्''' (३.४.१०८) इत्यस्मात् '''झेः''' '''जुस्''' इत्यनयोः अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः''' '''जुस्''' |</big>
<big>अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्-आदेशः | जुस् इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि आहत्य अभ्यस्तसंज्ञकः धातुः अस्ति चेत्, लङि अन्-स्थाने उः इति प्रत्ययः भवति |</big>
|