6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,972:
 
<big>अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्‌-आदेशः | जुस्‌ इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि आहत्य अभ्यस्तसंज्ञकः धातुः अस्ति चेत्‌, लङि अन्‌-स्थाने उः इति प्रत्ययः भवति |</big>
 
 
<big>एषु सप्तसु जक्षाद्यन्तर्गणीयेषु धातुषु चत्वारः अजन्तः— जागृ, दरिद्रा, दीधीङ्‌, वेवीङ्‌ चेत्येषां रूपाणि अस्माभिः साधितानि अदादिगणस्य अजन्तानां पाठे | त्रयः च हलन्ताः— जक्ष्‌, चकास्‌, शास्‌; एषां रूपाणि अधुना साधनीयानि—</big>
 
 
<big><u>षकारान्तः जक्ष → जक्ष्‌</u> (परस्मैपदी, भक्षहसनयोः)</big>
 
 
<big>जक्ष्‌-धातुः रुदाद्यन्तर्गणेऽपि अस्ति, जक्षाद्यन्तर्गणेऽपि अस्ति | अतः धेयं यत्‌ अत्र द्वयोः अन्तर्गणयोः कार्यं भवति |</big>
 
 
<big>a) अङ्गकार्यम्‌— उपधायां ककारः (लघु इक्‌ इति न) अतः गुणकार्यं नास्ति | वलादि-प्रत्यये परे इडागमो भवति, अपि च लङ्‌-लकारे अपृक्तसंज्ञक-प्रत्ययेषु ईडागमश्च अडागमश्च भवतः |</big>
 
 
<big>b) सन्धिकार्यम्‌— वलादि-प्रत्ययेषु इडागमो भवति अतः हल्‌-सन्धेः अवसरो न कुत्रापि भवति |</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<big><u>रूपाणि</u></big>
 
<big>लटि —</big>
 
<big>लोटि—</big>
 
<big>लङि—</big>
 
<big>विधिलिङि—</big>
 
 
<big><u>सकारान्तः चकासु → चकास्‌</u> (परस्मैपदी, दीप्तौ)</big>
 
 
<big>चकास्‌-धातुः जक्षाद्यन्तर्गणे अस्ति, अतः तिङन्तसिद्ध्यर्थं विशिष्टे द्वे कार्ये मनसि निधाय रूपाणि प्रवर्तनीयानि |</big>
 
 
<big>a) अङ्गकार्यम्‌— उपधायाम्‌ आकारः (लघु इक्‌ इति न) अतः गुणकार्यं नास्ति |</big>
 
 
<big>लोटि—</big>
 
<big>'''हुझल्भ्यो हेर्धिः''' (६.४.१०१) इत्यनेन झलन्तेभ्यः धातुभ्यशः हि-प्रत्ययस्य स्थाने धि-आदेशः |</big>
 
 
<big>चकास्‌ + हि → '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) → चकास्‌ + धि</big>
 
 
<big>b) सन्धिकार्यम्‌—</big>
653

edits