6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 2,021:
 
<big>b) सन्धिकार्यम्‌—</big>
 
<big>लोटि—</big>
 
<big>'''धि च''' (८.२.२५) इत्यनेन सकारस्य लोपो भवति धकारादि-प्रत्यये परे |</big>
 
<big>चकास्‌ + हि → '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) → चकास्‌ + धि → '''धि च''' (८.२.२५) इत्यनेन स्‌-लोपः → चकाधि</big>
 
<big>'''धि च''' (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे | धि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''रात्सस्य''' (८.२.२४) इत्यस्मात्‌ '''सस्य''' इत्यस्य अनुवृत्तिः | '''संयोगान्तस्य''' '''लोपः''' (८.२.२३) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''धि च सस्य लोपः''' |</big>
 
<big>'''हुझल्भ्यो हेर्धिः''' (६.४.१०१) = हु-धातुतः झलन्तेभ्यः धातुभ्यश्च हि-प्रत्ययस्य स्थाने धि-आदेशो भवति | '''येनविधिस्तदन्तस्य''' (१.१.७२) इत्यनेन झलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम्‌ अन्ते झल्‌ | हुश्च झलश्च तेषामितरेतरद्वद्वो हुझलः, तेभ्यो हुझल्भ्यः | हुझल्भ्यः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, धिः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.११) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हुझल्भ्यः अङ्गेभ्यः हेः धिः''' |</big>
 
<big>लङि—</big>
 
<big>'''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६८) इत्यनेन हल्-उत्तरस्य अपृक्तसंज्ञक-प्रत्ययस्य लोपः | लङि त्‌-लोपः, स्‌-लोपश्च |</big>
 
<big>अचकास्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्''' → चकास्‌ → '''तिप्यनस्तेः''' इत्यनेन पदान्तस्य सकारस्य दकारादेशः → अचकाद्‌</big>
<big>अचकास्‌ + त् → उपरि इव → अचकाद्‌ → '''वाऽवसाने''' इत्यनेन विकल्पेन पदान्ते चर्त्वादेशः → अचकात्‌</big>
 
<big>'''तिप्यनस्तेः''' (८.२.७३) = पदान्तस्य सकारस्य दकारादेशो भवति तिपि परे; परन्तु अस्‌-धातौ न भवति | इदं सूत्रं '''ससजुषो रुः''' (८.२.६६) इत्यस्य अपवादः | न अस्तिः अनस्तिः, तस्य अनस्तेः | तिपि सप्तम्यन्तम्‌, अनस्तेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ससजुषोः रुः''' (८.२.६६) इत्यस्मात्‌ '''सः''' इत्यस्य अनुवृत्तिः | '''वसुस्रंसुध्वंस्वनडुहां दः''' (८.२.७२) इत्यस्मात्‌ '''दः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''पदस्य सः दः तिपि अनस्तेः''' |</big>
 
<big>'''ससजुषो रुः''' (८.२.६६) = पदान्ते सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तम्‌, रुः प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ससजुषोः पदस्य रुः''' |</big>
 
<big>अत्र वस्तुतः '''झलां जशोऽन्ते''' (८.२.३९) इति अत्र सर्वसामान्यं सूत्रं; तस्य अपवादः '''ससजुषो रुः''' (८.२.६६); पुनः '''ससजुषो रुः''' इत्यस्य अपवादः '''तिप्यनस्तेः''' (८.२.७३) |</big>
653

edits