6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH (view source)
Revision as of 10:14, 14 May 2021
, 3 years agono edit summary
Bina Radia (talk | contribs) No edit summary |
Bina Radia (talk | contribs) No edit summary |
||
Line 2,089:
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर् च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''रो रि''' (८.३.१४) इत्यस्मात् '''रः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''रः पदस्य विसर्जनीयः खरवसानयोः संहितायाम्''' |</big>
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
<big><u>रूपाणि</u></big>
<big>लटि —</big>
<big>लोटि—</big>
<big>लङि—</big>
<big>विधिलिङि—</big>
<big><u>सकारान्तः शासु → शास्</u> (परस्मैपदी, अनुशिष्टौ)</big>
<big>शास्-धातुः जक्षाद्यन्तर्गणे अस्ति, अतः तिङन्तसिद्ध्यर्थं विशिष्टे द्वे कार्ये मनसि निधाय रूपाणि प्रवर्तनीयानि |</big>
<big>a) अङ्गकार्यम्— उपधायाम् आकारः (लघु इक् इति न) अतः गुणकार्यं नास्ति | किन्तु अन्यत् अङ्गकार्यद्वयं वर्तते—</big>
<big>१. शास्-धातोः स्थाने शा-आदेशो भवति हि-प्रत्यये परे |</big>
<big>'''शा हौ''' (६.४.३५) = शास्-धातोः स्थाने शा-आदेशो भवति हि-प्रत्यये परे | शा लुप्तप्रथमाकं, हौ सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''शास इदङ्हलोः''' (६.४.३४) इत्यस्मात् '''शासः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''शासः''' '''शा हौ''' |</big>
<big>यथा—</big>
<big>शास् + हि → '''शा हौ''' (६.४.३५) → शा + हि → '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) इत्यनेन झलन्तेभ्यः धातुभ्यशः हि-स्थाने धि-आदेशः → शा + धि → शाधि</big>
<big>यदा शा-आदेशो भवति, तदानीं शा झलन्तः नास्ति अतः हि-स्थाने धि न स्यात् | किन्तु '''शा हौ''' (६.४.३५), '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) इत्याभ्यां यत् कार्यं सिध्यति, उभयत्र तत् कार्यं आभीयकार्यम् | द्वाभ्यां च सूत्राभ्यां यत् कार्यं विधीयते, तस्य कार्यस्य आश्रयः 'हि'-प्रत्ययः | अतः एकवारं यदा एकम् हि-प्रत्ययाश्रितम् आभीयकार्यं जातं, तदा यदा द्वितीयं हि-प्रत्ययाश्रितम् आभीयकार्यं विधीयते,तत् कार्यं प्रति प्रथमम् आभीयकार्यं असिद्धं भवति | अस्याः सम्पूर्णप्रक्रियायाः बोधार्थम् अग्रे स्थानिवद्भावपाठे द्रष्टव्यम् |</big>
<big>'''असिद्धवदत्राभात्''' (६.४.२२) = कमपि आश्रयम् अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम् आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम् | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्य अन्तपर्यन्तम् | '''असिद्धवदत्राभात्''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात् आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्, एषां कार्याणां नाम आभीय-कार्यम् | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत् अत्र आ भात्''' |</big>
<big>२. शास्-धातोः उपधायाः ह्रस्व-इकारादेशो भवति हलादि किति ङिति प्रत्यये परे |</big>
|