6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 2,143:
 
<big>२. शास्‌-धातोः उपधायाः ह्रस्व-इकारादेशो भवति हलादि किति ङिति प्रत्यये परे |</big>
 
 
<big>'''शास इदङ्हलोः''' (६.४.३४) = शास्‌-धातोः उपधायाः ह्रस्व-इकारादेशो भवति अङ्‌-प्रत्यये, हलादि किति ङिति च प्रत्यये परे | अङ्‌-प्रत्ययः लुङ्‌-लकारे भवति | '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन हलि इत्युक्तौ हलादि-प्रत्यये (तादृशप्रत्ययः यस्य आदौ हल्‌ स्यात्‌) | क्ङिति विशेषणं, हलि इत्यस्य | अङ्‌ च हल्‌ च अङ्‌हलौ इतरेतरद्वन्द्वः, तयोः अङ्‌हलोः | शासः षष्ठ्यन्तम्‌, इत्‌ प्रथमान्तम्‌, अङ्‌हलोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) इत्यस्मात्‌ उपधायाः, क्ङिति इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकाराः | अनुवृत्ति-सहितसूत्रम्‌— '''शासः अङ्गस्य उपधायाः इत्‌ क्ङिति अङ्हलोः''' |</big>
 
 
<big>यथा—</big>
 
<big>शास्‌ + तः → '''शास इदङ्हलोः''' (६.४.३४) → शिस्‌ + तः</big>
 
 
<big>b) सन्धिकार्यम्‌—</big>
 
 
<big>'''शासिवसिघसीनां च''' (८.३.६०) = शस्‌, वस्‌, घस्‌ इत्येषां धातूनां इण्‌-प्रत्याहारोत्तरस्य कवर्गीयोत्तरस्य च सकारस्य स्थाने षकारादेशो भवति | सकारः आदेशस्य प्रत्ययस्य च अवयवः नास्ति इति कारणेन '''आदेशप्रत्यययोः''' (८.३.५९) इत्यस्य प्रसक्तिर्नास्ति; तस्मात्‌ अस्य सूत्रस्य आवश्यकता | शासिश्च वसिश्च घसिश्च तेषामितरेतरद्वन्द्वः शासिवसिघसयः, तेषां शासिवसिघसीनाम्‌ | शासिवसिघसीनां षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''अपदान्तस्य मूर्धन्यः''' (८.३.५५) इत्यस्मात्‌ '''मूर्धन्यः''' इत्यस्य अनुवृत्तिः | '''इण्कोः''' (८.३.५७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''शासिवसिघसीनाम्‌ च मूर्धन्यः इण्कोः |'''</big>
 
 
<big>यथा—</big>
 
<big>शिस्‌ + तः → '''शासिवसिघसीनाम्‌ च''' (८.३.६०) → शिष्‌ + तः → '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्टुत्वम्‌ → शिष्टः</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<big><u>रूपाणि</u></big>
 
<big>लटि —</big>
 
<big>लोटि—</big>
 
<big>लङि—</big>
 
<big>विधिलिङि—</big>
 
 
<big>अनेन अदादिगणस्य हलन्तधातवः समाप्ताः |</big>
 
 
<big>Swarup – December 2013 (updated Sept 2016)</big>
653

edits