6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 544:
{| class="wikitable"
|+
!|<big>त</big>
!|<big>आताम्</big>
!|<big>झ</big>
|-
|<big>थास्‌</big>
Line 617:
 
 
<big><u>रूपाणि</u></big>
 
<big>लटि —</big>
Line 704:
<big>अद्‌-धातुः अजादिः अतः लङि '''आडजादीनाम्‌''' इत्यनेन आडागमः, '''आटश्च''' इत्यनेन वृद्धिरादेशः च | आ + अद्‌‌ → आद्‌‌ इति अङ्गम्‌ | अन्यच्च अपृक्तप्रत्ययः परे अस्ति चेत्‌ तस्य अपृक्तप्रत्ययस्य अडागमो भवति इति कारणतः अत्र अपृक्तप्रत्ययस्य लोपो न भवति अद्‌-धातुतः | (सामान्यतया हलन्तधातुतः अपृक्तप्रत्ययस्य लोपो भवति इति तु जानीमः | '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्''')<br />
</big>
 
 
<big>आद्‌ + त्‌ → '''अदः सर्वेषाम्''' → आद्‌ + अट्‌ + त्‌ → अनुबन्धलोपे → आद्‌ + अ + त्‌ → आदत्‌</big>
Line 1,029 ⟶ 1,030:
 
<big>c) सन्धिकार्यम्‌—</big>
 
 
* <big>झलि परे शकारस्य षत्वं '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' इति सूत्रेण |</big>
Line 1,077 ⟶ 1,079:
 
 
<big>b) <u>सन्धिकार्यम्‌</u>—सन्धिकार्यम्‌—</big>
 
* <big>षकारान्तधातोः षकारात्‌ तादि थादि प्रत्ययानां ष्टुत्वं '''ष्टुना ष्टुः''' इति सूत्रेण |</big>
Line 1,121 ⟶ 1,123:
 
 
<big>तर्हि द्विष्‌ + अन्ति इति स्थितिं परिशीलयाम | अत्र षकारः निमित्तभूतः; अग्रे स्थितस्य नकारस्य णत्वं प्राप्येत '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' (८.४.२) इति सूत्रेण | परन्तु अत्र युगपत्‌ सूत्रद्वयम्‌ आयाति कार्यं कर्तुम्‌— '''नश्चापदान्तस्य झलि''' (८.३.२४), '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' (८.४.२) च | '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन नस्य मस्य च अपदान्तस्य झलि अनुस्वारः भवति | द्विषन्ति इत्यस्मिन्‌ नकारः पदान्ते नास्ति, अतः '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन नकारस्य अनुस्वारः प्राप्यते; अपि च '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' (८.४.२) इत्यनेन तेन एव नकारेण णकारः अपि प्राप्यते | '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन अनुस्वारे प्राप्ते, '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' (८.४.२) इत्यनेन णकारे प्राप्ते, अत्र कः विधेयः ? अस्यां स्थितौ '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन णत्वे प्राप्ते असिद्धत्वात्‌ अनुस्वारस्य प्रवृत्तिः भवति | त्रिपाद्यां पूर्वशास्त्रं प्रति परशास्त्रम्‌ असिद्धम्‌ | '''नश्चापदान्तस्य झलि''' (८.३.२४) इति पूर्वशास्त्रम्‌; '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' (८.४.२) इति परशास्त्रम्‌ | अनेन णत्वशास्त्रस्य असिद्धत्वात्‌ अनुस्वार्स्य एव अवकाशः | तदा '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनेन परसवर्णादेशः, अनेन पुनः नकारः आयाति | '''[पूर्वत्रासिद्धम्‌''' (८.२.१) इति प्रसङ्गे इतोऽपि सूचनार्थम्‌ [[04---aShTAdhyAyI-paricayaH/07---aShTAdhyAyyAM-sUtrANAM-balAbalam|अयं पाठः]] दृश्यताम्‌ |]</big>
 
 
Line 1,457 ⟶ 1,459:
 
<big>'''असिद्धवदत्राभात्‌''' (६.४.२२) = कमपि आश्रयम्‌ अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम्‌ आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम्‌ | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्य अन्तपर्यन्तम्‌ |</big> <big>'''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात्‌ आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्‌, एषां कार्याणां नाम आभीय-कार्यम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत्‌ अत्र आ भात्‌''' |</big>
 
<big>'''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात्‌ आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्‌, एषां कार्याणां नाम आभीय-कार्यम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत्‌ अत्र आ भात्‌''' |</big>
 
 
Line 1,703:
 
<big>अत्र प्रश्नः उदेति— '''ढो ढे लोपः''' (८.३.१३) इति पूर्वत्रिपादिसूत्रं, '''ष्टुना ष्टुः''' (८.४.४१) इति परत्रिपादिसूत्रम्‌ | तर्हि किमर्थं '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन '''ष्टुना ष्टुः''' (८.४.४१) इत्यस्य कार्यम्‌ असिद्धं न भवेत्‌ ?</big>
 
 
<big>उत्तरमिदं यत्‌ 'आश्रयात्‌ सिद्धम्‌' | वस्तुतः यत्र कुत्रापि '''ढो ढे लोपः''' (८.३.१३) इति सूत्रं प्रवर्तते, तस्मात्‌ पूर्वं '''ष्टुना ष्टुः''' (८.४.४१) प्रवर्तते एव | सम्पूर्ण-संस्कृतभाषायां कुत्रापि नास्ति यत्र '''ढो ढे लोपः''' (८.३.१३) भवति किन्तु तस्मात्‌ पूर्वं '''ष्टुना ष्टुः''' (८.४.४१) न स्यात्‌ | अस्यां दशायां '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन '''ढो ढे लोपः''' (८.३.१३) इत्यस्य मनसि '''ष्टुना ष्टुः''' (८.४.४१) इत्यस्य कार्यम्‌ असिद्धं चेत्‌ '''ढो ढे लोपः''' (८.३.१३) इत्यस्य प्रवर्तनं न कुत्रापि भवेत्‌; निरवकाशं स्यात्‌ | तदर्थं '''ढो ढे लोपः''' (८.३.१३) इति सूत्रं '''ष्टुना ष्टुः''' (८.४.४१) इति सूत्रस्य आश्रये अस्ति इति कृत्वा 'आश्रयात्‌ सिद्धम्‌' इत्युच्यते | अनेन कारणेन '''ढो ढे लोपः''' (८.३.१३) न बाधितं '''पूर्वत्रासिद्धम्‌''' (८.२.१) इति सूत्रेण |</big>
 
 
 
Line 2,135 ⟶ 2,137:
 
 
<big>यदा शा-आदेशो भवति, तदानीं शा झलन्तः नास्ति अतः हि-स्थाने धि न स्यात्‌ | किन्तु '''शा हौ''' (६.४.३५), '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) इत्याभ्यां यत्‌ कार्यं सिध्यति, उभयत्र तत्‌ कार्यं आभीयकार्यम्‌ | द्वाभ्यां च सूत्राभ्यां यत्‌ कार्यं विधीयते, तस्य कार्यस्य आश्रयः 'हि'-प्रत्ययः | अतः एकवारं यदा एकम्‌ हि-प्रत्ययाश्रितम्‌ आभीयकार्यं जातं, तदा यदा द्वितीयं हि-प्रत्ययाश्रितम्‌ आभीयकार्यं विधीयते,तत्‌ कार्यं प्रति प्रथमम्‌ आभीयकार्यं असिद्धं भवति | अस्याः सम्पूर्णप्रक्रियायाः बोधार्थम्‌ अग्रे [[6---sArvadhAtukaprakaraNam-anadantam-aGgam/15---sthAnivadbhAvah|स्थानिवद्भावपाठे द्रष्टव्यम्‌]] |</big>
 
Line 2,183 ⟶ 2,185:
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/7/73/%E0%A5%A7%E0%A5%AA_-_%E0%A4%85%E0%A4%A6%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A4%B5%E0%A4%83_%28c%29.pdf १४ - अदादिगणे हलन्तधातवः (c).pdf] Swarup Bhai, Aug 8, 2019, 4:45 AM v.1
 
 
653

edits