6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH (view source)
Revision as of 19:58, 18 June 2021
, 2 years agono edit summary
Bina Radia (talk | contribs) No edit summary |
Bina Radia (talk | contribs) No edit summary |
||
Line 1,120:
<big>द्विष् + आनि → द्वेष् + आनि →'द्वेषाणि' इति रूपे '''अट्कुप्वाङ्नुम्व्यवायेऽपि''' (८.४.२) इत्यनेन णत्वं भवति | अत्र प्रश्नः उदेति यत् द्विष् + अन्ति इति स्थितौ अपि णत्वस्य निमित्तंम् अस्ति | तर्हि अत्र का गतिः ? णत्वं भवति, न भवति, अथवा वैकल्पिकम् ?</big>
<big>कृ-धातोः अपि एवं प्रश्नः | कृ + उ + अन्ति → कुरु + अन्ति → रेफ-निमित्तत्वात् णत्वं भवेत् वा इति प्रश्नः | द्विष्-धातोः यथा षकारनिमित्तत्वं, तथा कृ-धातोः अपि रेफनिमित्तत्वात् णत्वं स्यात् |</big>
<big>तर्हि द्विष् + अन्ति इति स्थितिं परिशीलयाम | अत्र षकारः निमित्तभूतः; अग्रे स्थितस्य नकारस्य णत्वं प्राप्येत '''अट्कुप्वाङ्नुम्व्यवायेऽपि''' (८.४.२) इति सूत्रेण | परन्तु अत्र युगपत् सूत्रद्वयम् आयाति कार्यं कर्तुम्— '''नश्चापदान्तस्य झलि''' (८.३.२४), '''अट्कुप्वाङ्नुम्व्यवायेऽपि''' (८.४.२) च | '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन नस्य मस्य च अपदान्तस्य झलि अनुस्वारः भवति | द्विषन्ति इत्यस्मिन् नकारः पदान्ते नास्ति, अतः '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन नकारस्य अनुस्वारः प्राप्यते; अपि च '''अट्कुप्वाङ्नुम्व्यवायेऽपि''' (८.४.२) इत्यनेन तेन एव नकारेण णकारः अपि प्राप्यते | '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन अनुस्वारे प्राप्ते, '''अट्कुप्वाङ्नुम्व्यवायेऽपि''' (८.४.२) इत्यनेन णकारे प्राप्ते, अत्र कः विधेयः ? अस्यां स्थितौ '''पूर्वत्रासिद्धम्''' (८.२.१) इत्यनेन णत्वे प्राप्ते असिद्धत्वात् अनुस्वारस्य प्रवृत्तिः भवति | त्रिपाद्यां पूर्वशास्त्रं प्रति परशास्त्रम् असिद्धम् | '''नश्चापदान्तस्य झलि''' (८.३.२४) इति पूर्वशास्त्रम्; '''अट्कुप्वाङ्नुम्व्यवायेऽपि''' (८.४.२) इति परशास्त्रम् | अनेन णत्वशास्त्रस्य असिद्धत्वात् अनुस्वार्स्य एव अवकाशः | तदा '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनेन परसवर्णादेशः, अनेन पुनः नकारः आयाति | '''[पूर्वत्रासिद्धम्''' (८.२.१) इति प्रसङ्गे इतोऽपि सूचनार्थम् [[04---aShTAdhyAyI-paricayaH/07---aShTAdhyAyyAM-sUtrANAM-balAbalam|अयं पाठः]] दृश्यताम् |]</big>
Line 1,945 ⟶ 1,946:
<big><u>अदादिगणस्य जक्षाद्यन्तर्गणः</u> (सप्त धातवः)</big>
<big>'''जक्षित्यादयः षट्''' (६.१.६) = जक्षित्यादीनां धातूनाम् अभ्यस्त-संज्ञा भवति | अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन् सप्त धातवः सन्ति— जक्ष्, जागृ, दरिद्रा, चकास्, शास्, दीधीङ्, वेवीङ् च | इति-शब्देन जक्ष्-धातोः परामर्शः | इति आदिः येषां ते इत्यादयः बहुव्रीहिः | जक्ष् प्रथमान्तम्, इत्यादयः प्रथमान्तं, षट् प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''उभे अभ्यस्तम्''' (६.१.५) इत्यस्मात् '''अभ्यस्तम्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''जक्षित्यादयः षट् अभ्यस्तम् |'''</big>
Line 2,185 ⟶ 2,188:
[https://static.miraheze.org/samskritavyakaranamwiki/7/73/%E0%A5%A7%E0%A5%AA_-_%E0%A4%85%E0%A4%A6%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A4%B5%E0%A4%83_%28c%29.pdf १४ - अदादिगणे हलन्तधातवः (c).pdf] Swarup Bhai, Aug 8, 2019, 4:45 AM v.1
|