6---sArvadhAtukaprakaraNam-anadantam-aGgam/15---sthAnivadbhAvah: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 202:
 
<big>अन्ततो गत्वा इदमपि धेयं—‌ केनचित्‌ एतादृशचिन्तनमपि भवितुमर्हति यत्‌ वस्तुतस्तु '''शा हौ''' (६.४.३५) इत्यस्य आवश्यकता नास्ति | यतो हि इदं सूत्रं नास्ति चेत्‌, शास्‌ + हि →‌ '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) → शास्‌ + धि → '''धि च''' (८.२.२५) इत्यनेन सकारलोपो भवति धकारादौ प्रत्यये परे → शा + धि → शाधि | परन्तु त्रिपादिनः '''धि च''' (८.२.२५) सूत्रस्य असिद्धत्वं '''शास इदङ्हलोः''' (६.४.३४) इति सूत्रं प्रति | '''शास इदङ्हलोः''' (६.४.३४) इत्यनेन शासः उपधायाः इत्‌ स्यात्‌ अङि हलादौ क्ङिति च | शिस्‌ + हि | यदनिष्टम्‌ | एतस्य निवारणार्थं '''शा हौ''' (६.४.३५) इत्यस्य आवश्यकता | '''शा हौ''' (६.४.३५) इत्यनेन पूर्वं शा + हि इति भवति | तदा एव '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) इत्यनेन धित्वम्‌; अनेन इष्टरूपं शाधि सिध्यति |</big>
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/c/c1/%E0%A5%A7%E0%A5%AB_-_%E0%A4%B8%E0%A5%8D%E0%A4%A5%E0%A4%BE%E0%A4%A8%E0%A4%BF%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%B5%E0%A4%83.pdf १५ - स्थानिवद्भावः.pdf]
 
 
 
653

edits