6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(44 intermediate revisions by 5 users not shown)
Line 1:
{{DISPLAYTITLE: 16 - जुहोत्यादिगणे हलन्तधातवः}}
<big>ध्वनिमुद्रणानि -</big>
{| class="wikitable mw-collapsible mw-collapsed"
 
!'''<big>ध्वनिमुद्रणानि</big>'''
2019-वर्गः
|-
 
|<big>'''2019-वर्गः'''</big>
१) juhotyAdigaNe-halantadhAtavaH---paricayaH_+_भस_2019-08-13
|-
 
|१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/167_juhotyAdigaNe-halantadhAtavaH---paricayaH_%2B_%E0%A4%AD%E0%A4%B8_2019-08-13.mp3 juhotyAdigaNe-halantadhAtavaH---paricayaH_+_भस_2019-08-13]
२) juhotyAdigaNe-halantadhAtavaH---भस_+_धन_+_जन_+_धिष_+_णिजिर्_2019-08-20
|-
 
|२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/168_juhotyAdigaNe-halantadhAtavaH---%E0%A4%AD%E0%A4%B8_%2B_%E0%A4%A7%E0%A4%A8_%2B_%E0%A4%9C%E0%A4%A8_%2B_%E0%A4%A7%E0%A4%BF%E0%A4%B7_%2B_%E0%A4%A3%E0%A4%BF%E0%A4%9C%E0%A4%BF%E0%A4%B0%E0%A5%8D_2019-08-20.mp3 juhotyAdigaNe-halantadhAtavaH---भस_+_धन_+_जन_+_धिष_+_णिजिर्_2019-08-20]
३) juhotyAdigaNe-halantadhAtavaH---णिजिर्_+_धन_+_विजिर्_+_विष्‌ऌ_+_तुर_2019-08-27
|-
 
|३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/169_juhotyAdigaNe-halantadhAtavaH---%E0%A4%A3%E0%A4%BF%E0%A4%9C%E0%A4%BF%E0%A4%B0%E0%A5%8D_%2B_%E0%A4%A7%E0%A4%A8_%2B_%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A4%BF%E0%A4%B0%E0%A5%8D_%2B_%E0%A4%B5%E0%A4%BF%E0%A4%B7%E0%A5%8D%E2%80%8C%E0%A4%8C_%2B_%E0%A4%A4%E0%A5%81%E0%A4%B0_2019-08-27.mp3 juhotyAdigaNe-halantadhAtavaH---णिजिर्_+_धन_+_विजिर्_+_विष्‌ऌ_+_तुर_2019-08-27]
2016-वर्गः
|-
 
|'''2016-वर्गः'''
१) juhotyAdigaNe-halantadhAtavaH-1---paricayaH_+_भस्‌_2016-09-25 
|-
 
|१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/86_juhotyAdigaNe-halantadhAtavaH-1---paricayaH___2016-09-25.mp3 juhotyAdigaNe-halantadhAtavaH-1---paricayaH_+_भस्‌_2016-09-25] 
२) juhotyAdigaNe-halantadhAtavaH-2---भस्‌_+_धन्‌_+_जन्‌_2016-10-02 
|-
|२) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/87_juhotyAdigaNe-halantadhAtavaH-2---_____2016-10-02.mp3 juhotyAdigaNe-halantadhAtavaH-2---भस्‌_+_धन्‌_+_जन्‌_2016-10-02] 
|-
|३) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/88_juhotyAdigaNe-halantadhAtavaH-3---_____2016-10-09.mp3 juhotyAdigaNe-halantadhAtavaH-3---जन्‌_+_धिष्‌_+_निजिर्‍_2016-10-09]
|-
|४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/89_juhotyAdigaNe-halantadhAtavaH-4---_______2016-10-16-part-1.mp3 juhotyAdigaNe-halantadhAtavaH-4---निज्‌_+_विज्‌_+_विष्‌_+_तुर्‍_2016-10-16]
|}
 
३) juhotyAdigaNe-halantadhAtavaH-3---जन्‌_+_धिष्‌_+_निजिर्‍_2016-10-09
 
४) juhotyAdigaNe-halantadhAtavaH-4---निज्‌_+_विज्‌_+_विष्‌_+_तुर्‍_2016-10-16
 
 
Line 125 ⟶ 130:
 
 
<big>अत्र सन्ति प्रमुख-सामान्याभ्यासकार्याणि—<u>सामान्याभ्यासकार्याणि</u>—</big>
 
<big>'''ह्रस्वः''' (७.४.५९)</big>
Line 186 ⟶ 191:
 
 
<big>१. <u>विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌, तदा धातु-विकरणप्रत्यययोः मेलनम्‌</u></big>
 
 
Line 193 ⟶ 198:
 
 
<big>२. <u>तिङ्‌प्रत्यय-सिद्धिः</u></big>
 
 
<big>जुहोत्यादिगणे अङ्गम्‌ अनदन्तम्‌, अतः अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः भवन्ति | परन्तु यत्र धातुः अभ्यस्तसंज्ञकः अस्ति, तत्र तिङ्‌प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयं वर्तते | जुहोत्यादिगणे सर्वे धातवः अभ्यस्तसंज्ञकाः, अत्र सर्वत्र इमे द्वे कार्ये स्तः—</big>
 
 
 
Line 220 ⟶ 227:
{| class="wikitable"
|+
| colspan="3" |परस्मैपदम्‌ 
!
| colspan="3" |आत्मनेपदम्‌
|-
!
!
!
!
!
!
!
|-
!
!
!
|<u>लट्‌-लकारः</u>
!
!
!
|-
|
|
|
|
|
Line 230 ⟶ 255:
|
|-
|'''ति'''
|तः
|अति
|
|ते
|आते
|अते
|-
|'''सि'''
|थः
|थ
|
|से
|आथे
|ध्वे
|-
|'''मि'''
|वः
|मः
|
|ए
|वहे
|महे
|-
|
|
|
|
|
Line 238 ⟶ 290:
|
|
| <u>लोट्‌-लकारः</u>
|
|
|
|-
|
|
|
|
|
|
|
|-
|'''तु''', तात्‌
|ताम्‌
|अतु
|
|ताम्‌
|आताम्‌
|अताम्‌
|-
|हि, तात्‌
|तम्‌
|त
|
|थाः
|आथाम्‌
|ध्वम्‌
|-
|'''आनि'''
|'''आव'''
|'''आम'''
|
|'''ऐ'''
|'''आवहै'''
|'''आमहै'''
|-
|
|
|
|
|
|
|
|-
|
|
|
|<u>लङ्‌ -लकारः</u>
|
|
|
|-
|
|
|
|
|
|
|
|-
|'''त्'''
|ताम्
|उः
|
|त
|आताम्
|अत
|-
|'''स्'''
|तम्
|त
|
|थाः
|आथाम्
|ध्वम्
|-
|'''अम्'''
|व
|म
|
|इ
|वहि
|महि
|-
|
|
|
|
|
|
|
|-
|
|
|
| <u>विधिलिङ्‌-लकारः</u>
|
|
|
|-
|
|
|
|
|
|
|
|-
|यात्‌
|याताम्‌
|युः
|
|ईत
|ईयाताम्‌
|ईरन्‌
|-
|याः
|यातम्‌
|यात
|
|ईथाः
|ईयाथाम्‌
|ईध्वम्‌
|-
|याम्‌
|याव
|याम
|
|ईय
|ईवहि
|ईमहि
|}
 
 
<big><u>प्रत्ययादेशः</u></big>
 
 
Line 261 ⟶ 444:
 
 
<big>३. <u>तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌</u></big>
 
 
<big>अस्मिन सोपाने सर्वप्रथमं तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यंम्‌ | तदा एव सन्धिकार्यम्‌ |</big>
 
 
 
<big>a) अङ्गकार्यंम्</big>
 
<big>अङ्गकार्ये किं किं सम्भवति इति एकवारं चिन्तनीयम्‌ | अस्मिन्‌ पाठे सर्वे धातवः हलन्ताः, अतः '''सार्वधातुकार्धधातुकयोः''' इत्यस्य प्रसक्तिः नास्त्येव | स्मर्यतां, सूत्रार्थः एवम्‌—इगन्त-धातोः अनन्तरं सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः अस्ति चेत्‌, तर्हि इगन्तस्य अङ्गस्य गुणः भवति | यथा भू + शप्‌ → भो + शप्‌ → भो + अ | तादृशकार्यम्‌ अस्मिन्‌ पाठे न कुत्रापि भविष्यति यतोहि धातुः हलन्तः; इगन्तधातुः अत्र नैव भवति | परन्तु अस्मिन्‌ पाठे कुत्रचित्‌ उपधायां लघु इक्‌ वर्तते, अतः तादृशेषु स्थलेषु '''पुगन्तलघूपधस्य च''' इत्यनेन उपधायां गुणकार्यम्‌ | यथा दिधिष्‌ + ति → '''पुगन्तलघूपधस्य च''' → दिधेष्‌ + ति → सन्धिकार्यम्‌ → दिधेष्टि | अन्यच्च क्वचित्‌ विशिष्टधातूनां विशेषाङ्गकार्यं भवति | यथा भस-धातौ '''घसिभसोर्हलिच''' (६.४.१००) इत्यनेन उपधा लोपः (अधः दृश्यताम्‌) |</big>
 
 
 
<big>b) सन्धिकार्यम्‌</big>
 
<big>यदा तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं समाप्तं, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनं क्रियते | यदा मेलनं भवति, तदा कस्यचित्‌ सन्धिकार्यस्य प्राप्तिरस्ति चेत्‌, अस्मिन्‌ समये क्रियताम्‌ | अधुनैव पूर्वतनेषु हल्‌-सन्धि-पाठेषु यत्‌ हल्‌-सन्धिकार्यम्‌ अधीतं, तत्‌ साधनीयम्‌ | कानिचन प्रसिद्धसूत्राणि मनसि स्युः—</big>
 
 
 
<big>सर्वेषु लकारेषु इमानि अधःस्थानि सूत्राणि प्रवर्तन्ते | धेयं यत्‌ इमानि सर्वाणि त्रिपाद्यां सन्ति, अतः पूर्वत्रासिद्धम्‌ इत्यनेन पूर्वसूत्रं चेत्‌ पूर्वकार्यम्‌, अपि च परसूत्रं चेत्‌ परकार्यम्‌ | नाम यत्‌ सूत्रं सङ्ख्या-क्रमेण प्रथमं आयाति, तस्य कार्यं पूर्वं भवति | अतः सूत्र-क्रमेण सर्वाणि दर्शितानि अत्र—</big>
 
 
<big>'''- संयोगान्तस्य लोपः''' (८.२.२३) = यस्य पदस्य अन्ते संयोगोऽस्ति, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः न तु पूर्णपदस्य | संयोगः अन्ते अस्ति यस्य तत्‌ संयोगान्तं, बहुव्रीहिः, तस्य संयोगान्तस्य | संयोगान्तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''संयोगान्तस्य पदस्य लोपः''' |</big>
 
<big>'''- धि च''' (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे | धि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''रात्सस्य''' (८.२.२४) इत्यस्मात्‌ '''सस्य''' इत्यस्य अनुवृत्तिः | '''संयोगान्तस्य''' '''लोपः''' (८.२.२३) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''धि च सस्य लोपः''' |</big>
 
<big>'''- स्कोः संयोगाद्योरन्ते च''' (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्‌, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स्‌ च क्‌ च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च''' |</big>
 
<big>'''- चोः कुः''' (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति पदान्ते झलि च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''चोः कुः झलि पदस्य अन्ते च''' |</big>
 
<big>'''- व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) = व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌, छकारान्ताः शकारान्ताः चैषां धातूनाम्‌ अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श्‌ च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम्‌ | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र ''''जच्छशां'''<nowiki/>' इति भागे '''छे च''' (६.१.७३) इत्यनेन तुक्‌-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' '''झलि पदस्य अन्ते च''' |</big>
 
<big>'''- झलां जशोऽन्ते''' (८.२.३९) = पदान्ते झलः स्थाने जशादेशो भवति | पदात्‌ परे कोऽपि वर्णः स्यात्‌ वा न वा, सूत्रस्य प्रसक्तिः अस्ति एव | पदात्‌ परे अच्‌ स्यात्‌ हल्‌ स्यात्‌ वा, सूत्रस्य प्रसक्तिः अस्ति एव | बाधकसूत्रम्‌ अस्ति चेत्‌ अन्या वार्ता | झल्‌ प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्‌, ष्‌, स्‌, ह्‌ | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश्‌ प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्‌, ब्‌, ग्‌, ड्‌, द्‌ इति | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, अन्ते सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः || तर्हि पदस्य अन्ते झल्‌-प्रत्याहारे कश्चन वर्णः अस्ति चेत्‌, स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति | अयं जश्त्वसन्धिः इत्युच्यते | अनुवृत्ति-सहितसूत्रम्‌— '''पदस्य अन्ते झलां जशः''' |</big>
 
<big>'''- षढोः कः सि''' (८.२.४१) = सकारे परे षकारस्य ढकारस्य च ककारादेशो भवति | षश्च ढश्च तयोः इतरेतरद्वन्द्वः षढौ, तयोः षढोः | षढोः षष्ठ्यन्तं, कः प्रथमान्तं, सि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''षढोः कः सि''' |</big>
 
<big>'''- नश्चापदान्तस्य झलि''' (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | '''मो‍ऽनुस्वारः''' (८.३.२३) इत्यस्मात्‌ '''मः''', '''अनुस्वारः''' इत्यनयोः अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अपदान्तस्य मः नः च अनुस्वारः''' '''झलि संहितायाम्''' |</big>
 
<big>'''- आदेशप्रत्यययोः''' (८.३.५९) = इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तस्य सकारस्य स्थाने षकारादेशो भवति | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं '''स्थानेऽन्तरतमः''' इत्यनेन ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्‌, अतः षकारः एव आदिष्टः भवति | नुम्‌, विसर्गः, शर्‍-प्रत्याहारस्थ-वर्णः एषु अन्यतमः मध्ये अस्ति चेदपि कार्यं भवति | इण्‌-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | अस्य कार्यस्य नाम षत्वविधिः | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम्‌ एकपदमिदं सूत्रम्‌ | '''सहे साडः सः''' (८.३.५६) इत्यस्मात्‌ '''सः''' इत्यस्य अनुवृत्तिः | '''नुंविसर्जनीयशर्व्यवायेऽपि''' (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्‌''' इत्यस्य अधिकारः | '''इण्कोः''' (८.३.५७), '''अपदान्तस्य''' '''मूर्धन्यः''' (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—'''इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां,''' '''नुंविसर्जनीयशर्व्यवायेऽपि''' |</big>
 
<big>'''- रषाभ्यां नो णः समानपदे''' (८.४.१) = रेफषकाराभ्यामुत्तरस्य नकारस्य णकारादेशो भवति, समानपदस्थौ चेदेव निमित्तनिमित्तिनौ भवतः |</big>
 
<big>'''- अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' (८.४.२) = अट्‌, कवर्गः, पवर्गः, आङ्‌, नुम्‌ इत्येतैः यथासम्भवं मिलितैः व्यवधानेऽपि नस्य णः स्यात्‌ समानपे | '''रषाभ्यां नो णः समानपदे''' (८.४.१) इति सूत्रस्य पूर्णतया अनुवृत्तिः |</big>
 
<big>'''- ष्टुना ष्टुः''' (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन |</big>
 
<big>'''- झलां जश्‌ झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''झलां जश्‌ झशि संहितायाम्''' |</big>
 
<big>'''- खरि च''' (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां''' इत्यस्य अनुवृत्तिः; '''अभ्यासे चर्च''' (८.४.५४) इत्यस्मात्‌ '''चर्च''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''झलां चर्‍‌ खरि च''' '''संहितायाम् ‌'''|</big>
 
<big>'''- अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनुस्वारस्य ययि परसवर्णः संहितायाम्''' |</big>
 
<big>'''- वाऽवसाने''' (८.४.५६) = अवसाने झलः विकल्पेन चर्‍-आदेशो भवति | अनेन अवसानावस्थायां विकल्पेन जश्त्वं चर्त्वं वा | वा अव्ययपदम्‌, अवसाने सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां''' इत्यस्य अनुवृत्तिः | '''अभ्यासे चर्च''' (८.४.५४) इत्यस्मात्‌ '''चर्‍''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अवसाने झलां चरो वा''' |</big>
 
<big>'''- झरो झरि सवर्णे''' (८.४.६५) = हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''हलो यमां यमि लोपः''' (८.४.६४) इत्यस्मात्‌ '''हलः''', '''लोपः''' चेत्यनयोः अनुवृत्तिः | '''झयो होऽन्यतरस्याम्'''‌ (८.४.६२) इत्यस्मात्‌ '''अन्यतरस्याम्‌''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हलः झरः लोपः अन्यतरस्यां सवर्णे झरि''' '''संहितायाम्''' |</big>
 
 
<big>एषां प्रसक्तिर्यत्र यत्र भवति, तत्र तत्र अस्माभिः तत्तत्‌ सन्धिकार्यं करणीयमेव | अनेन हलन्तधातवः द्रष्टव्याः | धेयं यत्‌ पूर्वतनेषु हल्‌-सन्धि-पाठेषु, हल्‌-सन्धयः परिशीलिताः केन क्रमेण ? प्रत्ययस्य प्रथमवर्णम्‌ अनुसृत्य | अधुना अस्माकं कार्यं प्रवर्तते धातोः अन्तिमवर्णम्‌ अनुसृत्य | कार्यं तदेव, परन्तु धातुक्रमेण अग्रे सरेम—</big>
 
 
<big>जुहोत्यादिगणस्य अष्टसु हलन्तधातुषु त्रयः अदुपधधातवः, चत्वारः इदुपधधातवः, एकः उदुपधधातुः चेति |</big>
 
 
 
<big>1. <u>अदुपधधातवः</u></big>
 
 
 
<big>त्रयः अदुपधधातवः सन्ति—भस → भस्‌, धन → धन्‌, जन → जन्‌ इति |</big>
 
 
 
<big><u>भस → भस्‌ धातुः</u> (परस्मैपदी, भत्सनदीप्त्योः)</big>
 
 
 
<big>a. द्वित्वम्‌, अभ्यासकार्यं च—</big>
 
<big>भस्‌ → '''श्लौ''' → भस्‌-भस्‌ → '''हलादिः शेषः''' → भभस्‌ → '''अभ्यासे चर्च''' → बभस् इति अङ्गम्‌‌</big>
 
 
 
<big>b. अङ्गकार्यम्‌—</big>
 
<big>१) हलादि पित्सु = उपधायाम्‌ अकारः (लघु इक्‌ इति न) अतः किमपि कार्यं नास्ति | बभस् + ति → बभस्ति</big>
 
<big>२) अजादि पित्सु = उपधायाम्‌ अकारः (लघु इक्‌ इति न) अतः किमपि कार्यं नास्ति | बभस् + आनि → बभसानि</big>
 
<big>३) हलाद्यपित्सु = '''घसिभसोर्हलिच''' इत्यनेन उपधायाः लोपः | बभस्‌ + तः → बभ्‌स्‌ + तः → सन्धिकार्यम्‌ → बब्धः</big>
 
<big>४) अजाद्यपित्सु = '''घसिभसोर्हलिच''' इत्यनेन उपधायाः लोपः | बभस्‌ + अति → बभ्‌स्‌ +अति → सन्धिकार्यम्‌ → बप्सति</big>
 
 
<big>'''घसिभसोर्हलिच''' (६.४.१००)  = छन्दसि घस्‌ भस्‌ अनयोः उपधायाः लोपो भवति अजादौ हलादौ च क्ङिति प्रत्यये परे | 'अजादौ हलादौ च' उक्तं यतोहि 'अजादिप्रत्यये परे' इति पूर्वतनसूत्रेषु प्रवर्तमानम्‌; अत्र हलादिप्रत्यये परेऽपि इति कृत्वा द्वयम्‌ उकम्‌ | घसिभसोः षष्ठ्यन्तं, हलि सप्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः; '''ऊदुपधाया गोहः''' (६.४.८९) इत्यस्मात्‌ '''उपधायाः''' इत्यस्य अनुवृत्तिः | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात्‌ '''लोपः''', '''क्ङिति''' इत्यनयोः अनुवृत्तिः | '''तनिपत्योश्छन्दसि''' (६.४.९९) इत्यस्मात् '''छन्दसि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''घसिभसोः अङ्गस्य उपधायाः लोपः अचि हलि च क्ङिति''' |</big>
 
 
<big>c. सन्धिकार्यम्‌—</big>
 
 
<big>बभस्‌ + तः → '''घसिभसोर्हलिच''' (६.४.१००) → बभ्‌स्‌ + तः → '''झलो झलि''' (८.२.२६) → बभ्‌ + तः → '''झषस्तथोर्धोऽधः''' → बभ्‌ + धः → '''झलां जश्‌ झशि''' → बब्‌ + धः → बब्धः</big>
 
 
<big>बभस्‌ + अति → '''घसिभसोर्हलिच''' (६.४.१००) → बभ्‌स्‌ + अति → '''खरि च''' इत्यनेन चर्त्वम्‌ → बप्सति</big>
 
 
<big>धेयं यत्‌ अत्र 'अति' झलादिः नास्ति अतः स्‌-लोपो न भवति | वकारादिः मकारादिश्च प्रत्ययाः अपि तथा— बभस्‌ + वः → बप्स्वः |</big>
 
 
 
<big>'''झलो झलि''' (८.२.२६) = झल्‌-उत्तरस्य सकारस्य लोपो भवति झलि परे | झलः पञ्चम्यन्तं, झलि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''रात्सस्य''' (८.२.२४) इत्यस्मात्‌ '''सस्य''' इत्यस्य अनुवृत्तिः, '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''‌झलः सस्य लोपः झलि''' |</big>
 
 
 
<big>बभस्‌ +हि → '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) इत्यनेन झलन्तेभ्यः धातुभ्यश्च हि-प्रत्ययस्य स्थाने धि-आदेशः → बभस्‌ +धि → '''घसिभसोर्हलिच''' (६.४.१००) इत्यनेन भस्‌-धातोः उपधालोपः अजादौ हलादौ च क्ङिति प्रत्यये परे → बभ्‌स् +धि → '''खरि च''' (८.४.५५) च '''झलो झलि''' (८.२.२६) इति द्वे सूत्रे असिद्धे '''धि च''' (८.२.२५) इति सूत्रं प्रति → '''धि च''' (८.२.२५) इत्यनेन सकारस्य लोपो भवति धकारादि-प्रत्यये परे → बभ्‌ +धि → '''झलां जश्‌ झशि''' (८.४.५३) इत्यनेन झलां स्थाने जशादेशो भवति झशि परे → बब्धि</big>
 
 
 
<big>भस्‌-धातोः तिङन्तरूपाणां चिन्तनार्थं समूहत्रयं वर्तते— १) प्रत्ययः पित्‌ (तत्र उपधालोपो न भवति); २) प्रत्ययः अपित्‌, झलादिः (उपधालोपो भवति, स्‌-लोपो भवति); ३) प्रत्ययः अपित्‌, किन्तु झलादिः न (उपधालोपो भवति, स्‌-लोपो न भवति) |</big>
 
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<u><big>रूपाणि</big></u>
 
<big>लटि —</big>
 
<big>लोटि—</big>
 
<big>लङि—</big>
 
<big>विधिलिङि—</big>
 
 
<big>प्रश्नः उदेति '''घसिभसोर्हलिच''' (६.४.१००) इति सूत्रे घस्‌-धातोः प्रसङ्गः कः ? घसॢ अदने (खादनार्थे) इति धातुः भ्वादिगणीयः, लटि घसति | '''इक्श्तिपौ धातुनिर्देशे''' '''इति वक्तव्यम्''' (३.३.१०८ अन्तर्गते) इति वार्त्तिकेन, धातु-निर्देशे इक्‌-प्रत्ययो भवति | अनेन घसॢ + इक्‌ → घस्‌ + इ → घसि इति रूपं धात्वर्थे एव |</big>
 
 
<big>घस्‌-धातोः उदाहरणं घस्‌ + क्तिन्‌ → सग्धिः | प्रक्रिया एतादृशी—</big>
 
 
<big>घसॢ + क्तिन्‌ → घस्‌ + ति → '''घसिभसोर्हलिच''' (६.४.१००) इत्यनेन उपधा-लोपः → घ्‌ + स् + ति → '''झलो झलि''' (८.२.२६) इत्यनेन स्‌-लोपः → घ्‌ + ति → '''झषस्तथोर्धोऽधः''' (८.२.४०) इत्यनेन त्‌-स्थाने ध्‌-आदेशः → घ्‌ + धि → '''झलां जश्‌ झशि''' (८.४.५३) इत्यनेन जश्त्वम्‌ → ग्‌ + धि → ग्धि → 'समाना ग्धिः' इत्यस्मिन्‌ अर्थे समासे सति '''समानस्यच्छन्दस्यसूर्धप्रभृत्युदर्केषु''' (६.३.८४) इत्यनेन समानार्थे 'स' इति आगमः → सग्धिः | 'सग्धिः स्त्री सहभोजनम्‌' अमरकोषम्‌ (२.९.५५) अनुसृत्य सहभोजनार्थे प्रयोगो भवति |</big>
 
 
 
<big><u>धन → धन्‌ धातुः</u> (परस्मैपदी, धान्ये, छान्दसः)</big>
 
 
 
<big>a. द्वित्वम्‌, अभ्यासकार्यं च—</big>
 
<big>धन्‌ → '''श्लौ''' → धन्‌-धन्‌ → '''हलादिः शेषः''' → धधन्‌ → '''अभ्यासे चर्च''' → दधन्‌ इति अङ्गम्‌</big>
 
 
 
<big>b. अङ्गकार्यम्‌— उपधायाम्‌ अकारः (लघु इक्‌ इति न) अतः गुणकार्यं नास्ति | परन्तु विशिष्टम्‌ अङ्गकार्यं वर्तते, '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यनेन उपधादीर्घादेशः झलादि कित्‌ङित्‌-प्रत्यये परे—</big>
 
 
 
<big>दधन्‌ + तः → '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यनेन उपधायाः दीर्घादेशः → दधान्‌ + तः → '''नश्चापदान्तस्य झलि''', '''अनुस्वारस्य ययि परसवर्णः''' → दधान्तः</big>
 
 
 
<big>'''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) = अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशो भवति क्वि च झलादि कित्‌ङित्‌-प्रत्यये परे | क्विश्च झल्‌ तयोरितरेतरद्वन्द्वः क्विझलौ, तयोः क्विझलोः | क्‌ च ङ्‌ तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत्‌ क्ङित्‌, तस्मिन्‌ क्ङिति | अनुनासिकस्य षष्ठ्यन्तं, क्विझलोः सप्तम्यन्तं, क्ङिति च सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''नोपधायाः''' (६.४.७) इत्यस्मात्‌ '''उपधायाः''' इत्यस्य अनुवृत्तिः | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात्‌ '''दीर्घः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति; '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन '''क्विझलोः क्ङिति''' इत्युक्तौ क्वि + झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल्‌ स्यात्‌) | अनुवृत्ति-सहितसूत्रम्‌— '''अनुनासिकस्य अङ्गस्य उपधायाः दीर्घः''' '''क्विझलोः क्ङिति''' |</big>
 
 
<big>धेयं यत्‌ सिद्धान्तकौमुद्यां रूपं दत्तमस्ति 'दधन्तः' | माताजी वदति यत्‌ इदं रूपं दोषाय; '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्य कार्यम्‌ अत्र भवेदेव |</big>
 
 
<big>c. सन्धिकार्यम्‌—</big>
 
 
<big>नकारान्तधातुः मकारान्तधातुः वा चेत्‌, स च धातुः अनुनासिकान्तधातुरिति उच्यते |</big>
 
 
<big>दधन्‌ + ति → '''नश्चापदान्तस्य झलि''' → दधं + ति → '''अनुस्वारस्य ययि परसवर्णः''' → दधन्ति</big>
 
<big>दधन्‌ + सि → '''नश्चापदान्तस्य झलि''' → दधं + सि → दधंसि</big>
 
 
<big>धेयं यत्‌ दधन्‌ नकारान्तम्‌ अङ्गम्‌; नकारः झलि नास्ति अतः लोटि हि-स्थाने धि-आदेशो न भवति |</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<u><big>रूपाणि</big></u>
 
<big>लटि —</big>
 
<big>लोटि—</big>
 
<big>लङि—</big>
 
<big>विधिलिङि—</big>
 
 
<big><u>जन → जन्‌ धातुः</u> (परस्मैपदी, जनने, छान्दसः)</big>
 
 
<big>a. द्वित्वम्‌, अभ्यासकार्यं च—</big>
 
<big>जन्‌ → '''श्लौ''' → जन्‌-जन्‌ → '''हलादिः शेषः''' → जजन्‌ इति अङ्गम्‌</big>
 
 
<big>b. अङ्गकार्यम्‌—</big>
 
<big>१) हलादि पित्सु = उपधायाम्‌ अकारः (लघु इक्‌ इति न) अतः किमपि कार्यं नास्ति | जजन्‌ + ति → जजन्ति</big>
 
<big>२) अजादि पित्सु = उपधायाम्‌ अकारः (लघु इक्‌ इति न) अतः किमपि कार्यं नास्ति | जजन्‌ + आनि → जजनानि</big>
 
<big>३) हलाद्यपित्सु = '''जनसनखनां सञ्झलोः''' इत्यनेन झलि नकारस्य आकारादेशः | जजन्‌ + तः → जजा + तः → जजातः</big>
 
<big>४) अजाद्यपित्सु = '''गमहनजनखनघसां लोपः क्ङित्यनङि''' इत्यनेन उपधायाः लोपः | जजन्‌ + अति → जज्‌न्‌ + अति → सन्धिकार्यम्‌ → जज्ञति</big>
 
 
<big>'''जनसनखनां सञ्झलोः''' (६.४.४२) = जन्‌, सन्‌, खन्‌ एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्‌-प्रत्यये परे झलादि-कित्ङित्‌-प्रत्यये परे च | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन आकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य नकारस्य | जनश्च सनश्च खन्‌ च तेषमितरेतरद्वन्द्वः जनसनखनः, तेषां जनसनखनाम्‌ | सन्‌ च झल्‌ च तयोरितरेतरद्वन्द्वः सञ्झलौ, तयोः सञ्झलोः | जनसनखनां षष्ठ्यन्तं, सञ्झलोः सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''विड्वनोरनुनासिकस्यात्‌''' (६.४.४१) इत्यस्मात्‌ '''आत्‌''' इत्यस्य अनुवृत्तिः, '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्मात्‌ '''झलि''', '''क्ङिति''' इत्यनयोः अनुवृत्तिः | '''झलि''' इति अनुवृत्तिः '''सन्''' इत्यस्य विशेषणम्‌; अनेन यत्र सनि इडागमो भवति, तत्र सन्‌ झलादिः नास्ति अतः नकारस्य आत्वं न भवति | सूत्रे स्थितं 'झलि' तु क्ङिति इत्यस्य विशेषणम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''जनसनखनाम्‌ अङ्गानाम्‌ आत् झलि सञ्झलोः‌ क्ङिति''' |</big>
 
 
 
<big>'''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) = गम्‌, हन्‌, जन्‌, खन्‌, घस्‌ एषां धातूनाम्‌ उपधायाः लोपो भवति अजादि-कित्ङित्‌-प्रत्यये परे, परन्तु अङ्‌-प्रत्ययः चेत् लोपः न भवति | गमश्च हनश्च जनश्च खनश्च घस्‌ च तेषामितरेतरद्वन्द्वो गमहनजनखनघसः, तेषां गमहनजनखनघसाम्‌ | क्‌ च ङ्‌ च क्ङौ, क्ङौ इतौ यस्य सः क्ङित्‌, तस्मिन्‌ क्ङिति | न अङ्‌ अनङ्‌, तस्मिन्‌ अनङि | गमहनजनखनघसां षष्ठ्यन्तं, लोपः प्रथमान्तं, क्ङिति सप्तम्यत्नम्‌, अनङि सप्तम्यतम्‌ अनेकपदमिदं सूत्रम्‌ | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः; '''ऊदुपधाया गोहः''' (६.४.८९) इत्यस्मात्‌ '''उपधायाः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''गमहनजनखनघसाम्‌ अङ्गानाम्‌ उपधायाः लोपः अनङि अचि क्ङिति''' |</big>
 
 
 
<big>विधिलिङि—</big>
 
<big>अस्मिन्‌ लकारे सर्वे प्रत्ययाः यकारादयः | यकारः झलि नास्ति अतः '''जनसनखनां सञ्झलोः''' इत्यनेन नकारस्य स्थाने आकारादेशो न भवति | परन्तु '''ये विभाषा''' इत्यनेन विकल्पेन आकारादेशो विहितः |</big>
 
 
 
<big>'''ये विभाषा''' (६.४.४३) = जन्‌, सन्‌, खन्‌ एषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशो भवति यकारादि-कित्ङित्‌-प्रत्यये परे | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तादेशः | ये सप्तम्यन्तं, विभाषा प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''जनसनखनां सञ्झलोः''' (६.४.४२) इत्यस्मात्‌ '''जनसनखनाम्‌''' इत्यस्य अनुवृत्तिः | '''विड्वनोरनुनासिकस्यात्‌''' (६.४.४१) इत्यस्मात्‌ '''आत्''' इत्यस्य अनुवृत्तिः | '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्मात्‌ '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''जनसनखनां अङ्गस्य आत् ये क्ङिति विभाषा''' |</big>
 
 
 
<big>जजन्‌ + यात्‌ → '''ये विभाषा''' → जजन्‌ / जजा + यात्‌ → जजन्यात्‌ / जजायात्‌</big>
 
 
<big>c. सन्धिकार्यम्‌—</big>
 
<big>नकारान्तधातुः मकारान्तधातुः वा चेत्‌, स च धातुः अनुनासिकान्तधातुरिति उच्यते |</big>
 
 
<big>जजन्‌ + ति → '''नश्चापदान्तस्य झलि''' → जजं + ति → '''अनुस्वारस्य ययि परसवर्णः''' → जजन्ति</big>
 
<big>जजन्‌ + सि → '''नश्चापदान्तस्य झलि''' → जजं + सि → जजंसि</big>
 
<big>जजन्‌ + अति → '''गमहनजनखनघसां लोपः क्ङित्यनङि''' → जज्‌न्‌ + अति → '''स्तोः श्चुना श्चुः''' इत्यनेन श्चुत्वम्‌ → जज्‌ञ्‌ + अति → ज्‌ञ्‌ = ज्ञ्‌ → जज्ञति</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<u><big>रूपाणि</big></u>
 
<big>लटि —</big>
 
<big>लोटि—</big>
 
<big>लङि—</big>
 
<big>विधिलिङि—</big>
 
 
<big>2. <u>इदुपधधातवः</u></big>
 
 
<big>चत्वारः इदुपधधातवः सन्ति— धिष → धिष्‌, णिजिर् → निज्‌, विजिर्‌ → विज्‌, विष्‌ऌ → विष् |</big>
 
 
<big><u>धिष → धिष्‌ धातुः</u> (परस्मैपदी, शब्दे, छान्दसः)</big>
 
 
<big>a. द्वित्वम्‌, अभ्यासकार्यं च—</big>
 
<big>धिष्‌ → '''श्लौ''' → धिष्‌-धिष्‌ → '''हलादिः शेषः''' → धिधिष्‌ → '''अभ्यासे चर्च''' → दिधिष्‌ इति अङ्गम्‌‌</big>
 
 
<big>b. अङ्गकार्यम्‌—</big>
 
 
<big>१) हलादि पित्सु = उपधायां लघु-इकः गुणः | दिधिष्‌ + ति → '''पुगन्तलघूपधस्य च''' → दिधेष्‌ + ति → दिधेष्टि</big>
 
<big>२) अजादि पित्सु = '''नाभ्यस्तस्याचि पिति सार्वधातुके''' इत्यनेन उपधायां लघु-इकः गुणनिषेधः | दिधिष्‌ + आनि → '''रषाभ्यां नो णः समानपदे''' इत्यनेन णत्वम्‌ → दिधिषाणि</big>
 
<big>३) हलाद्यपित्सु = '''क्ङिति च''', गुणनिषेधः | दिधिष्‌ + तः → दिधिष्टः</big>
 
<big>४) अजाद्यपित्सु = '''क्ङिति च''', गुणनिषेधः | दिधिष्‌ + अति → दिधिषति</big>
 
 
<big>'''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) = अभ्यस्तस्य लघूपधगुणः न भवति अजादि-पित्‌-सार्वधातुकप्रत्यये परे | न अव्ययपदम्‌, अभ्यस्तस्य षष्ठ्यन्तम्‌, अचि सप्तम्यन्तं, पिति सप्तम्यन्तं, सार्वधातुके सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यस्मात्‌ '''लघूपधस्य''' इत्यस्य अनुवृत्तिः, '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अभ्यस्तस्य अङ्गस्य लघूपधस्य गुणः न अचि पिति सार्वधातुके''' |</big>
 
 
<big>c. सन्धिकार्यम्‌—</big>
 
 
<big>दिधिष्‌ + ति → '''पुगन्तलघूपधस्य च''' → दिधेष्‌ + ति → '''ष्टुना ष्टुः''' → दिधेष्टि</big>
 
<big>दिधिष्‌ + सि → '''पुगन्तलघूपधस्य च''' → दिधेष्‌ + सि → '''षढोः कः सि''' → दिधेक्‌‌ + सि → '''आदेशप्रत्यययोः''' → दिधेक्षि</big>
 
<big>दिधिष्‌ + हि → '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) → दिधिष्‌ + धि → '''ष्टुना ष्टुः''' (८.४.४१) → दिधिष्‌ + ढि → '''झलां जश्‌ झशि''' (८.४.५३) → दिधिड्‌ + ढि → दिधिड्ढि</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<u><big>रूपाणि</big></u>
 
<big>लटि —</big>
 
<big>लोटि—</big>
 
<big>लङि—</big>
 
<big>विधिलिङि—</big>
 
 
<u><big>निजाद्यन्तर्गणः</big></u>
 
 
<big>णिजिर् → निज्‌, विजिर्‌ → विज्‌, विष्‌ऌ → विष्‌ एते त्रयः धातवः निजादयः |</big>
 
 
<big><u>णिजिर् → निज्‌ धातुः</u> (उभयपदी, शौचपोषणयोः)</big>
 
 
<big>a. द्वित्वम्‌, अभ्यासकार्यं च—</big>
 
 
<big>निज्‌ → '''श्लौ''' → निज्‌-निज्‌→ '''हलादिः शेषः''' → निनिज्‌‌ इति अङ्गम्‌‌</big>
 
 
<big>अत्र किञ्चन विशिष्टं सूत्रम्‌ आयाति '''निजां त्रयाणां गुणः श्लौ''', येन अभ्यासे गुणो भवति | श्लु-निमित्तीकृत्य इदं कार्यं भवति, अतः सर्वेषु रूपेषु प्रसक्तिरस्ति; पित्त्वम्‌ अपित्त्वम्‌ इत्यनयोर्न कोऽपि सम्बन्धः |</big>
 
 
<big>निनिज्‌‌ → '''निजां त्रयाणां गुणः श्लौ''' इत्यनेन अभ्यासे गुणः → नेनिज्‌ इति नूतनाङ्गम्‌</big>
 
 
<big>'''निजां त्रयाणां गुणः श्लौ''' (७.४.७५) = निजादीनां त्रयाणाम्‌ अभ्यासस्य गुणो भवति, श्लौ | निज्‌, विज्‌, विष्‌ इत्येषां प्रसङ्गः | निजां षष्ठ्यन्तं, त्रयाणां षष्ठ्यन्तं, गुणः प्रथमान्तं, श्लौ सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''निजां त्रयाणां अङ्गस्य अभ्यासस्य गुणः श्लौ''' |</big>
 
 
 
<big>b. अङ्गकार्यम्‌—</big>
 
 
 
<big>१) हलादि पित्सु = उपधायां लघु-इकः गुणः | नेनिज्‌ + ति → '''पुगन्तलघूपधस्य च''' → नेनेज्‌ + ति → सन्धिकार्यम्‌ → नेनेक्ति</big>
 
<big>२) अजादि पित्सु = '''नाभ्यस्तस्याचि पिति सार्वधातुके''' इत्यनेन उपधायां लघु-इकः गुणनिषेधः | नेनिज्‌ + आनि → नेनिजानि</big>
 
<big>३) हलाद्यपित्सु = '''क्ङिति च''', गुणनिषेधः | नेनिज्‌ + तः → सन्धिकार्यम्‌ → नेनिक्तः</big>
 
<big>४) अजाद्यपित्सु = '''क्ङिति च''', गुणनिषेधः | नेनिज्‌ + अति → नेनिजति‌</big>
 
 
 
<big>c. सन्धिकार्यम्‌—</big>
 
 
 
<big>नेनिज्‌ + ति → '''पुगन्तलघूपधस्य च''' → नेनेज्‌ + ति → '''चोः कुः''' → नेनेग्‌ + ति → '''खरि च''' → नेनेक्ति</big>
 
<big>नेनिज्‌ + सि → '''पुगन्तलघूपधस्य च''' → नेनेज्‌ + सि → '''चोः कुः''' → नेनेग्‌ + सि → '''खरि च''' → नेनेक्‌ + सि → '''आदेशप्रत्यययोः''' → नेनेक्षि</big>
 
<big>नेनिज्‌ + हि → '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) → नेनिज्‌ + धि → '''चोः कुः''' → नेनिग्‌ + धि → नेनिग्धि</big>
 
<big>अनेनिज्‌ + त्‌ → '''पुगन्तलघूपधस्य च''' (७.३.८६) → अनेनेज्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) → अनेनेज्‌ → '''चोः कुः'''(८.४.५५) → अनेनेग्‌ → '''वाऽवसाने''' (८.४.५६) → विकल्पेन अनेनेक्‌</big>
 
 
<big>'''चोः कुः''' (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति पदान्ते झलि च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''चोः कुः झलि पदस्य अन्ते च''' |</big>
 
 
<big>'''खरि च''' (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां''' इत्यस्य अनुवृत्तिः; '''अभ्यासे चर्च''' (८.४.५४) इत्यस्मात्‌ '''चर्च''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''झलां चर्‍‌ खरि च''' '''संहितायाम् ‌'''|</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<big><u>रूपाणि</u></big>
 
<big>लटि —</big>
 
<big>लोटि—</big>
 
<big>लङि—</big>
 
<big>विधिलिङि—</big>
 
 
<big><u>विजिर् → विज्‌ धातुः</u> (उभयपदी, पृथग्भावे)</big>
 
 
<big>सर्वं कार्यं, रूपाणि च निज्‌-धातुरिव |</big>
 
 
<big>विज्‌ → '''श्लौ''' → विज्‌-विज्‌→ '''हलादिः शेषः''' → विविज्‌‌ इति अङ्गम्‌‌ → '''निजां त्रयाणां गुणः श्लौ''' इत्यनेन अभ्यासे गुणः → वेविज्‌ इति नूतनाङ्गम्‌</big>
 
 
<big><u>विष्‌ऌ → विष् धातुः</u> (उभयपदी, व्याप्तौ)</big>
 
 
<big>कार्यं रूपाणि च धिष्‌‌-धातुरिव; केवलम्‌ अभ्यासे सर्वत्र गुणः इति भेदः |</big>
 
 
<big>विष् → '''श्लौ''' → विष्-विष्→ '''हलादिः शेषः''' → विविष् इति अङ्गम्‌‌ → '''निजां त्रयाणां गुणः श्लौ''' इत्यनेन अभ्यासे गुणः → वेविष् इति नूतनाङ्गम्‌</big>
 
 
<big>3. <u>उदुपधधातवः</u></big>
 
 
<big>एकः एव उदुपधधातुः अस्ति, तुर → तुर् इति |</big>
 
 
 
<big><u>तुर → तुर् धातुः</u> (प्रस्मैपदी, त्वरणे)</big>
 
 
 
<big>a. द्वित्वम्‌, अभ्यासकार्यं च—</big>
 
<big>तुर् → '''श्लौ''' → तुर्-तुर् → '''हलादिः शेषः''' → तुतुर् ‌इति अङ्गम्‌‌</big>
 
 
 
<big>b. अङ्गकार्यम्‌—</big>
 
 
 
<big>१) हलादि पित्सु = उपधायां लघु-इकः गुणः | तुतुर् + ति → '''पुगन्तलघूपधस्य च''' → तुतोर् + ति → तुतोर्ति</big>
 
<big>२) अजादि पित्सु = '''नाभ्यस्तस्याचि पिति सार्वधातुके''' इत्यनेन उपधायां लघु-इकः गुणनिषेधः | तुतुर् + आनि → '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' (८.४.२) → तुतुराणि</big>
 
<big>३) हलाद्यपित्सु = '''हलि च''' इत्यनेन उपधादीर्घः | तुतुर् + तः → तुतूर्‌ + तः → तुतूर्तः</big>
 
<big>४) अजाद्यपित्सु = '''क्ङिति च''', गुणनिषेधः | तुतुर् + अति → तुतुरति</big>
 
 
<big>'''हलि च''' (८.२.७७) = हलि परे रेफान्तानां वकारान्तानां च धातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो भवति | हलि सप्तम्यन्तम्‌, च अव्ययपदम्‌, द्विपदमिदं सूत्रम्‌ | '''सिप धातो रुर्वा''' (८.२.७४) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः; '''र्वोरुपधाया दीर्घ इकः''' (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः '''र्वोः''' इत्यनेन येषाम्‌ धातूनाम्‌ अन्ते रेफः वकारश्च, तेषामपि ग्रहणम्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''हलि च र्वोः धातोः उपधायाः इकः दीर्घः''' |</big>
 
 
<big>c. सन्धिकार्यम्‌— सर्वत्र केवलं वर्णमेलनम्‌ |</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<big><u>रूपाणि</u></big>
 
<big>लटि —</big>
 
<big>लोटि—</big>
 
<big>लङि—</big>
 
<big>विधिलिङि—</big>
 
 
 
<big>अनेन जुहोत्यादिगणस्य हलन्तधातवः समाप्ताः |</big>
 
 
 
 
Subpages (1): [[6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH/juhotyAdigaNe-halantadhAtUnAM-sArvadhAtukalakArANAM-tingantarUpANi|जुहोत्यादिगणे हलन्तधातूनां सार्वधातुकलकाराणां तिङन्तरूपाणि]]
 
 
 
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/f/fb/%E0%A5%A7%E0%A5%AC_-_%E0%A4%9C%E0%A5%81%E0%A4%B9%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A4%B5%E0%A4%83.pdf १६ - जुहोत्यादिगणे हलन्तधातवः.pdf] (117k) Swarup Bhai, Aug 23, 2019, 3:53 PM v.1
 
 
 
 
<big>Swarup – December 2013 (Updated Sept 2016)</big>
page_and_link_managers, Administrators
5,097

edits