6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 148:
 
<big>'''कुहोश्चुः''' (७.४.६२) = अभ्यासे कवर्गीयस्य हकारस्य च स्थाने चवर्गीयादेशो भवति | तत्र '''स्थानेऽन्तरतमः''' (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात्‌ हकारस्य स्थाने झकारः, तदा '''अभ्यासे चर्च''' (८.४.५४) इत्यनेन झ-स्थाने जकारः | कुश्च ह्‌ च तयोरितरेतरद्वन्द्वः कुहौ, तयोः कुहोः | कुहोः षष्ठ्यन्तं, चुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य अभ्यासस्य कुहोः चुः''' |</big>
 
<big>'''स्थानेऽन्तरतमः''' (१.१.५०) = प्रसङ्गम्‌ अवलम्ब्य तुल्यतमः आदेशो भवति | स्थाने सप्तम्यन्तम्‌, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ |</big>
 
<big>'''उरत्''' (७.४.६६) = प्रत्यये परे अभ्यासस्य ऋवर्णस्य स्थाने अत्‌-आदेशः भवति | उः षष्ठ्यन्तम्‌, अत्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य अभ्यासस्य उः अत्‌''' |</big>
 
<big>'''अभ्यासे चर्च''' (८.४.५४) = अभ्यासे झल्‌-स्थाने जश्‌ चर् च आदेशौ भवतः | तत्र '''स्थानेऽन्तरतमः''' (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात्‌ झश्‌-स्थाने जश्‌ अपि च खय्‌-स्थाने चर् | अनुवृत्त्यर्थम्‌ अष्टमाध्याये | अभ्यासे सप्तम्यन्तं, चर्‍ प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां''', '''जश्''' इत्यनयोः अनुवृत्तिः | '''तयोर्यवावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌‍ '''संहितायाम्‌''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—'''अभ्यासे झलां जश्‌ च‍र् च''' '''संहितायाम्‌''' |</big>
 
<big>अस्माभिः ज्ञायते यत्‌ सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति |</big>
 
<big>१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌, तदा धातु-विकरणप्रत्यययोः मेलनम्‌</big>
 
<big>२. तिङ्‌प्रत्यय-सिद्धिः</big>
 
<big>३. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌</big>
653

edits