6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 190:
 
<big>विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम् नास्ति यतः शप्‌-विकरणप्रत्ययस्य श्लुः भवति | श्लुः तु अङ्गकार्यस्य (अभ्यासकार्यस्य) निमित्तं भवति; तच्च तृतीये सोपाने क्रियते येन एकैकस्य धातोः चर्चा करणीया एकवारम्‌ एव | तदर्थम्‌ अभ्यासकार्यम्‌ अपि तत्रैव |</big>
 
 
 
<big>२. तिङ्‌प्रत्यय-सिद्धिः</big>
Line 206 ⟶ 208:
 
<big>'''अदभ्यस्तात्''' (७.१.४) इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झ्‌-स्थाने अत्‌ आदेशः, अतः लटि झि → अति न तु अन्ति; लोटि झि → अतु न तु अन्तु |</big>
 
 
<big>२) '''सिजभ्यस्तविदिभ्यश्च''' (३.४.१०९) = ङित्‌-लकारस्य अवस्थायां, सिच्‌-प्रत्ययात्‌, अभ्यस्तसंज्ञकात्‌ धातोः, विद्‌-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्‌-आदेशो भवति | सिच्‌ च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात्‌ '''ङितः''' इत्यस्य अनुवृत्तिः | '''झेर्जुस्‌''' (३.४.१०८) इत्यस्मात्‌ '''झेः''' '''जुस्‌''' इत्यनयोः अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः''' '''जुस्‌''' |</big>
 
 
<big>अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्‌-आदेशः | जुस्‌ इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि अभ्यस्तसंज्ञकः धातुः अस्ति चेत्‌, लङि अन्‌-स्थाने उः इति प्रत्ययः भवति |</big>
 
 
<big>अतः आहत्य अभ्यस्तसंज्ञक-धातूनां कृते, सार्वधातुकलकारेषु सिद्ध-तिङ्‌प्रत्ययाः एते | जुहोत्यादिगणे एते एव योजनीयाः—</big>
653

edits