6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 256:
 
<big>'''अपृक्त एकाल्‌ प्रत्ययः''' (१.२.४१) = यस्य प्रत्यस्य एकैव अल्‌, तस्य अपृक्त-संज्ञा भवति | एकश्चासौ अल्‌ एकाल्‌, कर्मधारयः | अपृक्तः प्रथमान्तम्‌, एकाल्‌ प्रथमान्तं‌, प्रत्ययः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''एकाल्‌ प्रत्ययः अपृक्तः''' |</big>
 
 
<big>'''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) = हलन्तात्‌, दीर्घङ्यन्तात्‌, दीर्घाबन्तात्‌ च सु-ति-सि इत्येषाम्‌ अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्‌-लोपः, लङि प्रथमपुरुषे त्‌-लोपः, मध्यमपुरुषे स्‌-लोपश्च | हल्‌ च ङी च आप्‌ च तेषाम्‌ इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम्‌ | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात्‌ पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल्‌ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''लोपो व्योर्वलि''' (६.१.६५) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे '''लुप्यते''' इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दीर्घात्‌ हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल्‌ लुप्यते''' |</big>
 
 
<big>३. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌</big>
 
 
<big>अस्मिन सोपाने सर्वप्रथमं तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यंम्‌ | तदा एव सन्धिकार्यम्‌ |</big>
653

edits