6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH (view source)
Revision as of 20:25, 15 May 2021
, 3 years agono edit summary
Bina Radia (talk | contribs) No edit summary |
Bina Radia (talk | contribs) No edit summary |
||
Line 265:
<big>अस्मिन सोपाने सर्वप्रथमं तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यंम् | तदा एव सन्धिकार्यम् |</big>
<big>a) अङ्गकार्यंम्</big>
<big>अङ्गकार्ये किं किं सम्भवति इति एकवारं चिन्तनीयम् | अस्मिन् पाठे सर्वे धातवः हलन्ताः, अतः '''सार्वधातुकार्धधातुकयोः''' इत्यस्य प्रसक्तिः नास्त्येव | स्मर्यतां, सूत्रार्थः एवम्—इगन्त-धातोः अनन्तरं सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः अस्ति चेत्, तर्हि इगन्तस्य अङ्गस्य गुणः भवति | यथा भू + शप् → भो + शप् → भो + अ | तादृशकार्यम् अस्मिन् पाठे न कुत्रापि भविष्यति यतोहि धातुः हलन्तः; इगन्तधातुः अत्र नैव भवति | परन्तु अस्मिन् पाठे कुत्रचित् उपधायां लघु इक् वर्तते, अतः तादृशेषु स्थलेषु '''पुगन्तलघूपधस्य च''' इत्यनेन उपधायां गुणकार्यम् | यथा दिधिष् + ति → '''पुगन्तलघूपधस्य च''' → दिधेष् + ति → सन्धिकार्यम् → दिधेष्टि | अन्यच्च क्वचित् विशिष्टधातूनां विशेषाङ्गकार्यं भवति | यथा भस-धातौ '''घसिभसोर्हलिच''' (६.४.१००) इत्यनेन उपधा लोपः (अधः दृश्यताम्) |</big>
<big>b) सन्धिकार्यम्</big>
<big>यदा तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं समाप्तं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनं क्रियते | यदा मेलनं भवति, तदा कस्यचित् सन्धिकार्यस्य प्राप्तिरस्ति चेत्, अस्मिन् समये क्रियताम् | अधुनैव पूर्वतनेषु हल्-सन्धि-पाठेषु यत् हल्-सन्धिकार्यम् अधीतं, तत् साधनीयम् | कानिचन प्रसिद्धसूत्राणि मनसि स्युः—</big>
<big>सर्वेषु लकारेषु इमानि अधःस्थानि सूत्राणि प्रवर्तन्ते | धेयं यत् इमानि सर्वाणि त्रिपाद्यां सन्ति, अतः पूर्वत्रासिद्धम् इत्यनेन पूर्वसूत्रं चेत् पूर्वकार्यम्, अपि च परसूत्रं चेत् परकार्यम् | नाम यत् सूत्रं सङ्ख्या-क्रमेण प्रथमं आयाति, तस्य कार्यं पूर्वं भवति | अतः सूत्र-क्रमेण सर्वाणि दर्शितानि अत्र—</big>
|