6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 302:
 
<big>'''- रषाभ्यां नो णः समानपदे''' (८.४.१) = रेफषकाराभ्यामुत्तरस्य नकारस्य णकारादेशो भवति, समानपदस्थौ चेदेव निमित्तनिमित्तिनौ भवतः |</big>
 
<big>'''- अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' (८.४.२) = अट्‌, कवर्गः, पवर्गः, आङ्‌, नुम्‌ इत्येतैः यथासम्भवं मिलितैः व्यवधानेऽपि नस्य णः स्यात्‌ समानपे | '''रषाभ्यां नो णः समानपदे''' (८.४.१) इति सूत्रस्य पूर्णतया अनुवृत्तिः |</big>
 
<big>'''- ष्टुना ष्टुः''' (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन |</big>
 
<big>'''- झलां जश्‌ झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''झलां जश्‌ झशि संहितायाम्''' |</big>
 
<big>'''- खरि च''' (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां''' इत्यस्य अनुवृत्तिः; '''अभ्यासे चर्च''' (८.४.५४) इत्यस्मात्‌ '''चर्च''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''झलां चर्‍‌ खरि च''' '''संहितायाम् ‌'''|</big>
 
<big>'''- अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनुस्वारस्य ययि परसवर्णः संहितायाम्''' |</big>
653

edits