6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 312:
 
<big>'''- अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनुस्वारस्य ययि परसवर्णः संहितायाम्''' |</big>
 
<big>'''- वाऽवसाने''' (८.४.५६) = अवसाने झलः विकल्पेन चर्‍-आदेशो भवति | अनेन अवसानावस्थायां विकल्पेन जश्त्वं चर्त्वं वा | वा अव्ययपदम्‌, अवसाने सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां''' इत्यस्य अनुवृत्तिः | '''अभ्यासे चर्च''' (८.४.५४) इत्यस्मात्‌ '''चर्‍''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अवसाने झलां चरो वा''' |</big>
 
<big>'''- झरो झरि सवर्णे''' (८.४.६५) = हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''हलो यमां यमि लोपः''' (८.४.६४) इत्यस्मात्‌ '''हलः''', '''लोपः''' चेत्यनयोः अनुवृत्तिः | '''झयो होऽन्यतरस्याम्'''‌ (८.४.६२) इत्यस्मात्‌ '''अन्यतरस्याम्‌''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हलः झरः लोपः अन्यतरस्यां सवर्णे झरि''' '''संहितायाम्''' |</big>
 
 
<big>एषां प्रसक्तिर्यत्र यत्र भवति, तत्र तत्र अस्माभिः तत्तत्‌ सन्धिकार्यं करणीयमेव | अनेन हलन्तधातवः द्रष्टव्याः | धेयं यत्‌ पूर्वतनेषु हल्‌-सन्धि-पाठेषु, हल्‌-सन्धयः परिशीलिताः केन क्रमेण ? प्रत्ययस्य प्रथमवर्णम्‌ अनुसृत्य | अधुना अस्माकं कार्यं प्रवर्तते धातोः अन्तिमवर्णम्‌ अनुसृत्य | कार्यं तदेव, परन्तु धातुक्रमेण अग्रे सरेम—</big>
 
 
<big>जुहोत्यादिगणस्य अष्टसु हलन्तधातुषु त्रयः अदुपधधातवः, चत्वारः इदुपधधातवः, एकः उदुपधधातुः चेति |</big>
653

edits