6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 367:
 
<big>धेयं यत्‌ अत्र 'अति' झलादिः नास्ति अतः स्‌-लोपो न भवति | वकारादिः मकारादिश्च प्रत्ययाः अपि तथा— बभस्‌ + वः → बप्स्वः |</big>
 
 
 
<big>'''झलो झलि''' (८.२.२६) = झल्‌-उत्तरस्य सकारस्य लोपो भवति झलि परे | झलः पञ्चम्यन्तं, झलि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''रात्सस्य''' (८.२.२४) इत्यस्मात्‌ '''सस्य''' इत्यस्य अनुवृत्तिः, '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''‌झलः सस्य लोपः झलि''' |</big>
 
 
 
<big>बभस्‌ +हि → '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) इत्यनेन झलन्तेभ्यः धातुभ्यश्च हि-प्रत्ययस्य स्थाने धि-आदेशः → बभस्‌ +धि → '''घसिभसोर्हलिच''' (६.४.१००) इत्यनेन भस्‌-धातोः उपधालोपः अजादौ हलादौ च क्ङिति प्रत्यये परे → बभ्‌स् +धि → '''खरि च''' (८.४.५५) च '''झलो झलि''' (८.२.२६) इति द्वे सूत्रे असिद्धे '''धि च''' (८.२.२५) इति सूत्रं प्रति → '''धि च''' (८.२.२५) इत्यनेन सकारस्य लोपो भवति धकारादि-प्रत्यये परे → बभ्‌ +धि → '''झलां जश्‌ झशि''' (८.४.५३) इत्यनेन झलां स्थाने जशादेशो भवति झशि परे → बब्धि</big>
 
 
 
<big>भस्‌-धातोः तिङन्तरूपाणां चिन्तनार्थं समूहत्रयं वर्तते— १) प्रत्ययः पित्‌ (तत्र उपधालोपो न भवति); २) प्रत्ययः अपित्‌, झलादिः (उपधालोपो भवति, स्‌-लोपो भवति); ३) प्रत्ययः अपित्‌, किन्तु झलादिः न (उपधालोपो भवति, स्‌-लोपो न भवति) |</big>
 
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
653

edits