6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 383:
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<u><big>रूपाणि</big></u>
 
<big>लटि —</big>
 
<big>लोटि—</big>
 
<big>लङि—</big>
 
<big>विधिलिङि—</big>
 
 
<big>प्रश्नः उदेति '''घसिभसोर्हलिच''' (६.४.१००) इति सूत्रे घस्‌-धातोः प्रसङ्गः कः ? घसॢ अदने (खादनार्थे) इति धातुः भ्वादिगणीयः, लटि घसति | '''इक्श्तिपौ धातुनिर्देशे''' '''इति वक्तव्यम्''' (३.३.१०८ अन्तर्गते) इति वार्त्तिकेन, धातु-निर्देशे इक्‌-प्रत्ययो भवति | अनेन घसॢ + इक्‌ → घस्‌ + इ → घसि इति रूपं धात्वर्थे एव |</big>
 
 
<big>घस्‌-धातोः उदाहरणं घस्‌ + क्तिन्‌ → सग्धिः | प्रक्रिया एतादृशी—</big>
 
 
<big>घसॢ + क्तिन्‌ → घस्‌ + ति → '''घसिभसोर्हलिच''' (६.४.१००) इत्यनेन उपधा-लोपः → घ्‌ + स् + ति → '''झलो झलि''' (८.२.२६) इत्यनेन स्‌-लोपः → घ्‌ + ति → '''झषस्तथोर्धोऽधः''' (८.२.४०) इत्यनेन त्‌-स्थाने ध्‌-आदेशः → घ्‌ + धि → '''झलां जश्‌ झशि''' (८.४.५३) इत्यनेन जश्त्वम्‌ → ग्‌ + धि → ग्धि → 'समाना ग्धिः' इत्यस्मिन्‌ अर्थे समासे सति '''समानस्यच्छन्दस्यसूर्धप्रभृत्युदर्केषु''' (६.३.८४) इत्यनेन समानार्थे 'स' इति आगमः → सग्धिः | 'सग्धिः स्त्री सहभोजनम्‌' अमरकोषम्‌ (२.९.५५) अनुसृत्य सहभोजनार्थे प्रयोगो भवति |</big>
653

edits